________________
८८
27
“दो चेव जिणवरेहिं, जाइजरामरणविप्पमुक्केहिं ।
लोगम्मि पहा भणिआ, सुस्समण - सुस्सावगो वा वि ।।" [उपदेशमाला-४९०] विरत्यपेक्षयापि स्वप्नमध्ये दामद्वयविचारे केवलज्ञानोत्पत्त्यनन्तरं धर्मदेशनासमये च
देश- सर्वविरत्याख्य-वामावामभुजद्वयः । धर्मः समुद्धरत्याशु जनं संसारसागरात् ।।१।।
इत्याद्युपदेशपद्धत्या देशविरति सर्वविरतिरूपं विरतिद्वयमेव प्ररूपितम्, नान्यदधिकं किञ्चिन्मूलभूतं धर्माधिकारे, अपरे सर्वेऽपि शाखादिकास्तद्विस्ताररूपाः । तत्रापि देशविरतिः निर्लिङ्गा, सर्वविरतिस्तु लिङ्गा ।
'मन्नह जिणाण आणं' स्वाध्यायः
श्राद्धानां देशविरतिभाजां सामायिक- पौषधाद्यावश्यकजुषां च रजोहरण-मुखवस्त्रिका कलितानामपि श्रमण इव श्रावकः प्रोक्तः सूत्रेषु, न तु श्रमण एव । श्राद्धानां देशविरतिश्चेत् सलिङ्गा प्ररूपिताऽभविष्यत्तदा क्वाप्यागमे आनंदादीनां श्राद्धानां महाने[चे]ष्टापराणां सलिङ्गा दर्शिताऽभविष्यत् । न च क्वापि दर्शिता दृष्टा च केनापि क्वापि । श्राद्धो रजोहरण-मुखवस्त्रिकालिङ्गधारकस्तु साधुरेव तदा तेषां साधर्मिकत्वेन विहर्तुं कल्पते, कदापीति लाभमिच्छतां मूलक्षितिरागता लिङ्गधारणप्ररूपकाणाम् । इति प्रथमं सामायिकावश्यकम् ।
अत्र दमदन्तकथा
-
28
निक्खतो हत्थसीसा दमदंतो कामभोगमवहाय ।
वि रज्जइ रत्तेसुं दुट्ठेसु ण दोसमावज्ज ।।
29
[आवश्यकभाष्य-१५१]
वंदिज्जमाणा न समुक्कसंति हीलिज्जमाणा न समुज्जलंति ।
दंतेण चित्तेण चरंति धीरा, मुणी समुग्धाइयरागदोसा ।। [आवश्यकनिर्युक्ति-८६६ ]
27. द्वावेव जिनवरैर्जातिजरामरणविप्रमुक्तैः । लोके पथ भणितो सुश्रमणः सुश्रावको वाऽपि ।।
28. निष्क्रान्तो हस्तिशीर्षात् दमदन्तः कामभोगानपहाय । नापि रज्यते रक्तेषु द्विष्टेषु न द्वेषमापद्यते ।।
29. वन्द्यमाना न समुत्कर्षन्ति, हील्यमानान समुज्ज्वलन्ति । दान्तेन चित्तेन चरन्ति धीराः, मुनयः समुद्घातितरागद्वेषाः । ।