________________
१-छविह-आवस्सयंमि
mmmmmmmmmmmm ८७
इत्यादिवर्णाः स्थाने स्थाने समागच्छन्तः सन्ति, मुखवत्रिकापार्श्वस्थापनवर्णास्तु न हि क्वाप्यागमे कैरपि दृष्टाः, यैर्दष्टास्ते दर्शयन्तु ।
मोचनवर्णास्तु ‘आगमिअमागमेणं जुत्तीगम्म च जुत्तीए ।' इत्युक्तेर्षडुपधानवहन११ श्राद्धप्रतिमावहनानन्तरं च मुखवस्त्रिकाया मोच्यतयोक्तेस्तथैव सर्वैरपि गीतार्थबहुश्रुतैः पुरा संप्रत्यपि कार्यमाणत्वात् । एवं सर्वत्रागमादौ वर्णसद्भावेऽवगतेऽपि केनापि मतिविपर्यासेन यत्तत्करणे दुरन्तसंसारतैव प्रसज्यमाना केन कथं निवारयिष्यते ? पुरापि संप्रति च श्रीश्रुतधर्म एव प्रमाणम्, तेनैव विधिना विधीयमानं सर्वं सफलम्, अन्यथा अन्यथा । श्रीआगमस्य प्रामाण्यं केवलिभिरपि उररीक्रियते । यतः श्रीओघनिर्युक्त्यावश्यकादौ -
"ओहो सुओवउत्तो सुअनाणी जइ वि गिण्हइ असुद्धं । तं केवली वि भुंजइ अपमाणं सुअं भवे इहरा ।" [पिण्डनियुक्ति-५२४] "ववहारोऽवि हु बलवं, जं छउमत्थं पि वंदइ अरिहा ।
जा होइ अणभिन्नो, जाणंतो धम्मयं एअं ।।" [पञ्चवस्तु-१०१६] इत्यादिवर्णान् जानन्तोऽपि श्रुतज्ञानाप्रामाण्येनापरशास्त्रबलेनाधिकामपि क्रियां कुर्वाणा अपि मिथ्यादुष्कृतप्रदानसमय-साधुप्रतिक्रमणसूत्रोक्त- 'हीणक्खरमच्चक्खरं पयहीणं' इत्याधुक्तियुक्त्या भृशातीचारप्राप्तिर्जायमाना, यतो मलशुद्धिस्तत एव चेत्पङ्काकुलता तदा केन निर्मलीक्रियते ? तथा श्रीजिनागमेनैव सर्वातीचारशुद्धिः, सूत्रसम्बन्धिप्राप्तातीचारास्तु पुमांसः केन शुद्धि प्राप्स्यन्ति ? सूत्रादूर्ध्वमुत्सूत्रमित्यर्थयुक्त्या तदाप्तिरपि कथं निवार्या ?
धर्ममार्गस्तु श्रीजिनेन्द्रैर्मुख्यतया द्विविध एव प्रज्ञापितोऽस्ति श्रीउपदेशमालादिषु सिद्धान्तेषु । यतः -
25. ओघः श्रुतोपयुक्तः श्रुतज्ञानी यद्यपि गृह्णात्यशुद्धम् । तत् केवल्यपि भुङ्क्तेऽप्रमाणं श्रुतं भवेदितरथा ।। 26. व्यवहारोऽपि खलु बलवान् यत् छद्मस्थमपि वन्दतेऽर्हन् । यावद् भवत्यनभिज्ञो जानानो धर्मतामेनाम् ।।