________________
१-छब्बिह-आवस्सयंमि mmmmmmmmmmmm
18
"ईर्यापथिक्याः प्रतिक्रमणं विना न कल्पते किमपि कर्तुमनुष्ठानम्, तद्विना तदशुद्धतापत्तेः ।"
श्रीदशवैकालिक- [द्वितीयचूलिका-७]वृत्तौ । ___"उवगओ सिवकुमारसमीवं निसीहिअंकाऊण इरिआइपडिक्कतो बारसावत्तं किइकम्म करेइ ।”
वसुदेवहिंडौ । ___ इत्यादिष्वागमेष्वेवं दर्शनेऽपि कैश्चित् कस्मिन्नेकस्मिन् स्थाने सामायिकं कृत्वा ईर्यापथप्रतिक्रमणमुक्तं दृष्ट्वा तामेव वर्णपद्धतिं प्रमाणीकृत्य तथैव विधीयमानमस्ति, सा तु तेषां गणसंप्रदायसामाचार्येव संभाव्यते, अथवा ते एव सम्यग्जानन्ति ।
अथ ये केचन यथाकथञ्चनाऽपि किमपि मतिविपर्यासादिकारणमाश्रित्य निर्मापयन्ति ते तु श्रीकेवलिभिरपि मोचयितुं दुष्करं मादृशैः साम्प्रतीनैः स्वल्पमतिभिः कथं निवारयितुं शक्याः ?
मुखवस्रिकाऽपि क्वाप्यागमे श्राद्धानां सर्वथा त्याज्यतया पार्श्व एव स्थापनतया च दृष्टा दृश्यमाना च नास्ति, सांप्रतकालीनैर्मादृशादिभिः, पुरातनैर्वृद्धैः, बहुश्रुतैर्गीताथैश्च श्रीआगमानुसारिवर्णपद्धत्या दर्शिताऽपि नास्ति, तथापि कैश्चिद् गृह्यमाणैव नास्ति, कैश्चिच्च पार्श्व एव स्थाप्यमानाऽस्ति । ___ यैः सर्वथा त्याज्यमानास्ति तैरुच्यते - 'यद्गृहीतं तद्गृहीतमेव नो मुच्यते ।' यैस्तु समीप एव स्थाप्यमानाऽस्ति तैस्त्वेवमुच्यते - ‘मोचनवर्णाः क्वाप्यागमे न सन्ति। ये तु श्रीआगमवर्णांगीकारिणस्तेषां तु दृक्पथे प्रतिष्ठानम्
"पावरणं मुत्तूणं, गिण्हित्ता मुहपोत्तिअं ।
वत्थ-कायविसुद्धीए, करेइ पोसहाईअं ।।" व्यवहारचूो । श्रद्धालूनामौघिकमेव रजोहरण-मुखवस्त्रिकादि, साधूनां चौपग्रहिकमेव ।
17
16. उपगतः शिवकुमारसमीपं नैषेधिकीं कृत्वा ईर्यादिप्रतिक्रान्तः द्वादशावर्तं कृतिकर्म करोति । 17. प्रावरणं मुक्त्वा, गृहीत्वा मुखपोतिकाम् । वस्त्र-कायविशुध्या, करोति पौषधादिकम् ।।