________________
८२
~~~~ 'मन्नह जिणाण आणं' स्वाध्यायः
आत्मानमतीतकालसावद्ययोगकारिणं व्युत्सृजामि, अत्र 'करेमि भंते सामाइयमि'ति वर्तमानस्य सावद्ययोगस्य प्रत्याख्यानम्, 'सावज्जं जोगं पच्चक्खामी 'त्यनागतस्य, 'तस्स भंते पडिक्कमामी' त्यतीतस्येति त्रैकालिकं प्रत्याख्यानमुक्तम् । उक्तं च
66
“अईयं निंदामि, पडुपन्नं संवरेमि, अणागयं पच्चक्खामि " इति ।
-
एवं कृतसामायिक ईर्यापथिकीं प्रतिक्रामति, पश्चादागमनमालोच्य यथाज्येष्ठमाचार्यादीन् वन्दते । पुनरपि गुरुं वन्दित्वा प्रत्युपेक्षितासने निर्विष्टः श्रुणोति, पठति, पृच्छति वा । एवं चैत्यभवनेऽपि द्रष्टव्यम् । यदा तु स्वगृहे पौषधशालायां वा सामायिकं गृहित्वा तत्रैवाऽऽस्ते तदा गमनं नास्ति ।
यस्तु राजादिर्महर्द्धिकः स गन्धसिन्धुरस्कन्धाधिरूढ-च्छत्र-चामरादिराज्यालङ्करणालङ्कृतो हस्तिकाऽश्वीय-पदाति-रथकोट्या परिकरितो भेरीभाङ्कारभरिताम्बरतलो बन्दिवृन्दकोलाहलाकुलीकृतनभस्तलोऽनेकसामन्त-मण्डलेश्वराहमहमिकासम्प्रेक्ष्यमाणपादकमलः
पौरजनैः सश्रद्धमङ्गल्योपदर्श्यमानो मनोरथैरुपस्पृश्यमानस्तेषामेवाञ्जलिबन्धान् लाजाञ्जलिपातान् शिरःप्रणामाननुमोदमानः 'अहो धन्यो धर्मो य एवंविधैरप्युपसेव्यते' इति प्राकृतजनैरुपश्लाघ्यमानोऽकृतसामायिक एव श्रीजिनालयं साधुवसतिं वा गच्छति । तत्र गतो 'राजककुदानि छत्र-चामर- उपानद्-मुकुट-खड्गादिरूपाणि परिहरति, जिनार्चनं साधुवन्दनं वा करोति । यदि त्वसौ कृतसामायिक एव गच्छेत् तदा गजाऽश्वादिभिरधिकरणं स्यात्; तच्च न युज्यते कर्तुम् । तथा कृतसामायिकेन पादाभ्यामेव गन्तव्यम्, तच्चानुचितं भूपतीनाम्, यत आगतस्य च यद्यसौ श्रावकस्तदा न कोऽप्यभ्युत्थानादि करोति । अथ यथाभद्रकस्तदा पूजा कृताऽस्तु इति पूर्वमेवासनं "रच्यते, आचार्याश्च पूर्वमेवोत्थिता आसते, मा उत्थानाऽनुत्थानकृता दोषा भवन्निति, आगतश्चासौ सामायिकं करोतीत्यादि पूर्ववत् ।। श्री आवश्यके ऽपि -
१.'...राज्यलङ्करणा...’हस्त॰,'... राजालङ्करण...' योगशास्त्रवृत्तौ । २. 'सश्रद्धमङ्गल्युपदर्श्यमानो' हस्त० । ३. 'शिरः प्रणामानुमोदमानः' हस्त॰ । ४. 'राजकुकुदानि' हस्त० । ५. 'मुच्यते' हस्त० ।
2. अतीतं निन्दामि, प्रत्युत्पन्नं संवृणोमि, अनागतं प्रत्याख्यामि ।।