SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ [१-छब्बिह-आवस्सयंमि] [४-सामायिकावश्यकम्] सामायिकविधिमाह - "त्यक्तार्त्त-रौद्रध्यानस्य त्यक्तसावद्यकर्मणः । मुहूर्त समता या तां विदुः सामायिकव्रतम् ।।" [योगशास्त्र-३/८२] इह श्रावकः सामायिककर्ता द्विविधः स्यात् - ऋद्धिमाननृद्धिकश्च । तत्रानृद्धिकः स चतुर्षु स्थानेषु सामायिकं करोति-जिनगृहे, साधुसमीपे, पौषधशालायाम्, स्वगृहे वा, यत्र वा विश्राम्यति निर्व्यापारो वाऽऽस्ते तत्र च सामायिकं करोति । साधुसमीपकरणेऽयं विधिः - यदि कस्माच्चिदपि भयं नास्ति, केनचिद्विवादो नास्ति, ऋणं वा न धारयति, मा भूत् तत्कृताकर्षणापकर्षणनिमित्तश्चित्तसंक्लेशः, तदा स्वगृहेऽपि सामायिकं कृत्वा ईर्यां शोधयन्, सावद्यां भाषां परिहरन्, काष्ठलेष्ठ्वादिना यदि कार्य तदा तत्स्वामिनमनुज्ञाप्य प्रतिलिख्य प्रमाय॑ च गृह्णन्, खेल-सिङ्घाणकादींश्चाविवेचयन् विवेचयंश्च स्थण्डिलं प्रत्युप्रेक्ष्य प्रमृज्य च, एवं पञ्चसमितिसमितस्त्रिगुप्तिगुप्तः साध्वाश्रयं गत्वा साधून्नमस्कृत्य सामायिकं करोति । यथा- ‘करेमि भंते ! सामाइअं सावज्जं जोगं पच्चक्खामि' इत्यादि । तस्याधिकृतस्य सामायिकं करोतीति । योगस्य त्रिकालविषयस्यातीतमवयवं 'प्रतिक्रमामि' निवर्ते इत्यर्थः । आत्मसाक्षिकी निन्दा, गुरुसाक्षिकी गरे । भंते इति भदंत, कल्याणिन्, भवान्त इति वा । इदं च पुनर्गुरोरामन्त्रणं भक्त्यतिशयख्या-पनार्थमपुनरुक्तम्, सामायिकक्रियाप्रत्यर्पणाय वाऽनेनैतज्ज्ञापितं सर्वक्रियावसाने गुरोः प्रत्यर्पणं कार्यमिति। [उक्तं च भाष्यकारेण - "सामाइयपच्चप्पणवयणो वाऽयं भयंतसद्दो त्ति । सव्वकिरियावसाणे भणियं पच्चप्पणमणेण ।।"] [विशेषावश्यकभाष्य-३५७१] 1. सामायिकप्रत्यर्पणवचनो वाऽयं भदन्तशब्द इति । सर्वक्रियावसाने भणितं प्रत्यर्पणमनेन ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy