SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ छविह-आवस्सयंमी। तथा - ___ से किं तं लोउत्तरियं भावावस्मयं ? लोउत्तरियं भावावस्सयं जं णं समणो वा समणी वा सावओ वा साविआ वा तच्चित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तिव्वज्झवसाणे तदट्ठोवउत्ते तदप्पिअकरणे तब्भावणाभाविए अन्नत्थ कत्थइ मणं अकुव्वमाणे उभओकालं आवस्सयं करिन्ति ।" इत्यनुयोगद्वारसूत्रे । एतस्य वृत्तिः - यदिदं श्रमणादयस्तच्चित्तादिविशेषणविशिष्टा उभयकालं प्रतिक्रमणाद्यावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावावश्यकम् । [मलधारिहेमचन्द्रसूरिवृत्त्यंशसमेतमनुयोगद्वारसूत्र-२८] अत्र सूत्रे वृत्तौ च साधूनां श्रावकाणां च प्रतिक्रमणाद्यावश्यकं समानमेव कथितम्, ततः साधूनामिव श्रावकाणामपि दैवसिक-रात्रिक-पाक्षिक-चातुर्मासिक-सांवत्सरिकरूपं पञ्चविधावश्यकं कृतं विलोक्यते । श्रावकाणामन्यो भिन्नः सम्पूर्णषडावश्यकविधिः सिद्धान्ते क्वापि नास्तीति ज्ञेयम् । तथा श्रावकप्रज्ञप्तौ श्रीहरिभद्रसूरिकृतायाम् - इह विश्रमणनिर्व्यापारत्वयोर्दिनेन गृहस्थानामेकशो द्विस्त्रिश्चतुर्वा सम्भवनियमोऽस्ति, अतो यावत्कृत्वो विश्रमणनिर्व्यापारत्वसम्भवस्तावत्कृत्वः सर्वत्र सामायिक करोति । तथा - "जाहे खणिओ ताहे करेइ तो से न भज्जइ ।" इत्यावश्यकचूर्णी । ५. 'तद्ज्झवसाणे' हस्तः । 9. तस्य किं तं लोकोत्तरिकं भावावश्यकम् ? लोकोत्तरिकं भावावश्यकं यं तु श्रमणो वा श्रमणी वा, श्रावको वा श्राविका वा तच्चित्तस्तन्मना तल्लेश्यस्तदध्यवसितस्तत्तीव्राध्यवसानस्तदर्थोपयुक्तस्तदर्पितकरणस्त द्भावनाभावितोऽन्यत्र कुत्रचिन्मनोऽकुर्वनुभयकालमावश्यकं कुर्वन्ति । 10. यदा खनितो तदा करोति तस्मात् स न भज्यते ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy