________________
[छविह-आवस्सयंमि
[४-षड्विधावश्यकम्] "आरंभाण निवारणं सुहमणोवित्तीइ जं कारणं, अक्खारीण निसेहणं दिणनिसापच्छित्तसंसोहणं । कम्माणं मुसमूरणं तवसिरीभंडारसंपूरणं, ते धन्ना भवनासयं पइदिणं सेवंति आवस्सयं ।।" । "आवस्सयमुभयकालं ओसहमिव जे कुणंति उज्जुत्ता ।
जिणविज्जकहिअविहिणा अकम्मरोगा ते हवंति ।।" [सुक्तमुक्तावली-२/१३ इत्युक्तेरहो भविकाः ! षड्विधावश्यककरणप्रवणाः प्रतिदिवसं भवन्तु । सामायिकादिषड्विधावश्यककरणसम्भवे सामग्र्यां सत्यां गुरुसाक्षिकमेव कार्यम् । यतो गुरुसमीपे सर्वाण्यपि धर्मानुष्ठानानि महाफलानि जायन्ते । अगुरवस्तु -
"सचित्तजल-फलाई भक्खइ आवस्सयं च न करेइ । विहिअकुधम्मपसंसो चेइयदव्वं च भक्खेइ ।। पुत्थं करेइ निच्चं, सावज्जं भासइ पयडदव्यो ।
चिगिच्छय दुट्ठवेसो, अबंभयारी असाहू सो ।।" तथा योगशास्त्रे - "सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । अब्रह्मचारिणो मिथ्योपदेशा गुवो न तु ।।"
|योगशास्त्र-२/९]
१. 'कहेइ.' हस्तप्रतो । २. 'कृतकुधर्मप्रशंसः' इत्यर्थः । 1. आरम्भानां निवारणं शुभमनोवृत्तेः यत्कारणम्; अक्षारीणां निषेधनं दिननिशाप्रायश्चित्तसंशोधनम् ।
कर्माणां भञ्जनं तपःश्रीभाण्डागारसम्पूरणम्; ते धन्या भवनाशकं प्रतिदिनं सेवन्तेऽऽवश्यकम् ।। 2. आवश्यकमुभयकालमौषधमिव ये कुर्वन्ति उद्युक्ताः । जिनवैद्यकथितविधिना अकर्मरोगाः ते भवन्ति ।। 3. सचित्तजलफलानि भक्षयत्यावश्यकं च न करोति । विहितकुधर्मप्रशंसश्चैत्यद्रव्यं च भक्षयति ।। 4. पुस्तं करोति नित्यं सावा भाषते प्रकटद्रव्यः । चिकित्सको दुष्टवेषोऽब्रह्मचारी असाधुः सः ।।