________________
७६ rrrrrrrrrrrm
~~~rrrrrrrrrrrr 'मन्नह जिणाण आणं' स्वाध्यायः
धनञ्जयाख्ययक्षेश-कृतसान्निध्यबन्धुरः । सुरासुरचमत्कार-करोदारमहोत्सवः ।।१७१।। प्रभावनाभिर्यक्षेन्द्र-कृताभिः सुकृताब्धिभिः । वैधर्मिकैरपि स्तुत्यं जनयञ्जिनशासनम् ।।१७२।। पुराद्गुरुमगाद्भूपः, सिद्धिलोभनरूपभाक् । भेजे भवशिरःशूलं मूलं ज्ञानतरोतम् ।।१७३।।
त्रिभिर्विशेषकम् ।। नृचन्द्रे चन्द्रसेनेऽथ, नत्वा नगरगामिनि । विजहार महीं राज-महर्षिर्गुरुभिः सह ।।१७४ ।। श्रद्धाशुद्धतपाः शुद्ध - सिद्धान्तपठनक्रमः । बोधयित्वा धरां ज्ञानी, स परं पदमासदत् ।।१७५ ।। इति तत्त्वेन सम्यक्त्वं सेव्यं विक्रमवत्ततः । जनो येन भवत्याशु, लोकद्वयभयव्ययः ।।१७६ ।।
।। इति सम्यक्त्वे विक्रमराजकथा।।
[इइ धरह सम्मत्तं