________________
धरह सम्मत्तं mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm ७५
वाहयित्वा हयान्भूपो वलमानस्तदैव सः । अमन्दाक्रन्दसन्दर्भ-गर्भमैक्षत मन्दिरम् ।।१५०।। विस्मयव्याकुलेनैको नरः पार्श्वचरस्ततः । पृष्टस्तत्कारणं राज्ञा, विज्ञायेति व्यजिज्ञपत् ।।१५१।। स्वामिन्नेतद्गृहेशस्य, महेभ्यस्य गतेऽहनि । अपुत्रकस्य पुत्रोऽभूदन्धस्येव दृगुद्गमः ।।१५२।। इदानीमेव वाह्यालि-विलासगमनक्षणे । तनिमित्तभवोऽदर्शि, देवेनेह महोत्सवः ।।१५३ ।। अधुनैव पुनर्दैव-योगतः स मृतः शिशुः । तद्वियोगातिमार्गेण, तत्पितापि तमन्वगात् ।।१५४ ।। तत्कुटुम्बजनः सर्वः, पुत्रजन्मोत्सवागतः । प्रत्युत द्विगुणे दुःखे पतितो रारटीत्ययम् ।।१५५ ।। भवनाटककौटिल्या-दथोत्कण्टकविग्रहः । अव्याकुलचलञ्चेताः, क्षितिनेता व्यचिन्तयत् ।।१५६।। विदामप्यपरिच्छेद्या संसारस्य विचित्रता । जनोऽयं चिन्तयत्युचै - रन्यदन्यञ्च जायते ।।१५७।। सुखाय च्छायामायाति, ग्रीष्मतापातुरस्तरोः । नरस्तत्कोटरस्थेन, दश्यते हा ! महाहिना ।।१५८।। वहत्यहो नरः शस्त्रं रिपोर्दारणकारणम् । कदाचिदेष तेनैव दैवात्तेनैव हन्यते ।।१५९।। मनोरथानुरूपं यत्, फलमाप्नोति कश्चन । महाविडम्बनाजाल - क्षेपविश्वासकं हि तत् ।।१६० ।। एकान्तदुःखदे लोको, विरज्य मयि मुक्तये । मा धावत्विति संसारो दत्ते सुखकणानपि ।।१६१।। या संसारसुखावाप्ति-र्दुरन्तैव नरस्य सा । मत्स्यस्य गलिकायन्त्र-नियुक्तकवलोपमा ।।१६२।। अयं जनो मनो लोलं, कथं नु कथयत्यदः । भवभावेषु यद्वज्र-लेपेनेव नियन्त्रितम् ।।१६३।। अलोकव्योम्नि ये लोक-व्योम क्षेप्तुं क्षमा जिनाः । तदाश्रयबलाच्चित्तं कृषामि भवभावतः ।।१६४ ।। इति ध्यायन्ययौ धाम, त्वरितं नृपविक्रमः । चन्द्रसेनं सुतं राज्ये, न्यस्य तस्थौ व्रतोत्सुकः ।।१६५ ।। ज्ञानविज्ञाततद्भावः, स्वभावकरुणाकरः । सद्गुरुः केवली काले, तत्र तत्कुस्मासदत् ।।१६६।। तद्वार्तावादिनं दान-रानन्द्योद्यानपालकम् । विक्रमः प्रमदस्मेरो जगामाराममुत्सुकः ।।१६७।। सोऽथ प्रदक्षिणीचक्रे, गुरुं कर्मेन्धनानलम् । चित्रानुरागसम्बद्धां श्रद्धां परिणमनिव ।।१६८।। नत्वा गुरुं धराजानि-र्यथायुक्तमथासनम् । भेजे रेजे च तद्वाणीवृष्टिसम्पातचातकः ।।१६९।। अथ व्रतार्थमभ्यर्थ्य यतीशं जगतीपतिः । प्रभावनार्थं तीर्थस्य, जगाम नगरं पुनः ।।१७०।।