________________
७४
'मन्नह जिणाण आणं' स्वाध्यायः
विभो ! विरहयिष्यामि, निजं चेतो न च त्वया । कदापि यदि वेत्तीदं जिनसेवोत्सवं तव । । १२८ ।। भर्त्तः ! स्मर्त्तव्य एवाहमुत्कटे संकटे क्वचित् । अयमेव हि भृत्यानां स्वामिन्यवसरः परः ।।१२९।। इत्युदित्वैनमापृच्छ्यावगूह्य च स गुह्यकः । ययौ निजाश्रयं चित्र - तचरित्रचमत्कृतः । । १३० ।। ततः प्रत्यूषशेषायां रजन्यां राजपुङ्गवः । द्रुतं विज्ञातवृत्तान्तः, कुमारोपान्तमापतत् । ।१३१ । । मुदा कुमारमालिंग्य, पत्तनाय निनाय सः । बालार्करश्मिकाश्मीर - नीरश्रीरम्यया भुवा ।। १३२ ।। प्रत्यध्वपौरगौरांगीदृक्-तामरसतोरणे । कुमारमुत्सवेनाथ, नृपः प्रावीविशत्पुरे । । १३३ ।। कालेन केनचिद्राज्य - भारमारोप्य विक्रमे । जगाम नामशेषत्व - मेष भूपालपुङ्गवः ।। १३४ ।। कुर्वन्ननित्यताध्यान- सुधासिन्धूर्मिमज्जनम् । पितृशोकाग्निजं ताप-ममुञ्चद्विक्रमो नृपः । । १३५ ।। विवेकं पितृशोकाग्नि-विशेषविशदं ततः । हृदलङ्करणं चक्रे, निष्कवद्विक्रमो नृपः । । १३६ ।। न्यायकल्पद्रुमाराम-च्छायामध्ये निवेश्य भूः । तेनाभूष्यत सर्वाङ्ग - मर्हद्गृहविभूषणैः । ।१३७ ।। सप्तव्यसननिर्मुक्त-ममुक्तसुकृतोद्यमम् । अभूद्भूपेऽत्र भूपीठं राजन्ते राजवत्प्रजाः । ।१३८ ।। आगात्तद्देशभङ्गाय, कलिङ्गाधिपतिर्यमः । कदाप्याकस्मिकापातः, सन्निपात इवोत्कटः ।। १३९ ।। दूरं देवस्य कस्यापि, प्रभावादद्भुतौजसा । हरिः सहरिणेनेवा-चक्रमे तेन विक्रमः । । १४० ।। शूरमण्डलतेजांसि, दूरयन्सैन्यरेणुभिः । विक्रमोऽथ धरित्रीन्दुरभ्यमित्रीणतां गतः । । १४१ ।। यमविक्रमयोर्जाग्र- दुग्रविक्रमकर्मणोः । तयोः प्रववृते वीर सिंहसंहरणो रणः ।।१४२ ।। जातदेवानुभावौजःसंक्रमो विक्रमं यमः । जितोत्कटचमूकोटि - विकटे संकटेऽनयत् ।।१४३।। पादान्ते ढौकणीकृत्य कृतदोः संयमं यमम् । स्मृतिमात्रागतो यक्ष-स्तदा विक्रममैक्षत । । १४४ ।।
नोद्यमं दीनमुखं विद्विषं वीक्ष्य विक्रमः । बन्धादुन्मोच्य देशाया - दिदेशाढ्य कृपाशयः । । १४५ ।। मानयित्वा च नत्वा च यक्षमक्षीणसौहृदम् । अनुज्ञाय निवासाय स्वपुरायाचलन्नृपः । ।१४६ ।। पुर्या मङ्गलशृङ्गार - हृद्याया हृदयेऽविशत् । प्रतोलीदृक्पथेनाथ भूनाथ: कीर्तिभूषणः । । १४७ । । तस्मिन्राजनि राजन्तः, , पौराः सौराज्यसम्पदा । महोत्सवैर्दिवो देवान्, धरामानिन्यिरेऽन्वहम् । । १४८ ।। व्रजन् भूपोऽन्यदा बाह्यावनीं वाह्यालिकेलये । किमप्योकः क्षणक्षीवा- स्तोकलोकमलोकत । ।१४९ ।।