________________
धरह सम्मत्तं
७३
ततो नाद्यादि माद्यामि, पापार्थैरङ्गिनां वधैः । नृणां प्रणाममात्रेण, गमिष्यामि प्रसन्नताम् ।। १०७ ।। कुरु त्वमपि मे नाम प्रणामममलाशया । तेनैव तेऽनुमंस्येऽहं संपूर्णमखिलं खलु । । १०८ ।। कुमारोऽथ जगौ यक्ष ! नमस्कारो हि पञ्चधा । प्रहास- विनय-प्रेम- प्रभु- भावप्रभेदभाक् ।। १०९ ।। स प्रहासप्रणामः स्याच्चित्तोत्सङ्गितमत्सरैः । यः क्रियेत परिज्ञात-विक्रियेभ्योऽपि सत्क्रियैः ।।११०।। तमामनन्ति विनय-प्रणामं नयपण्डिताः । पित्रादिभ्यो विधीयेत, पुत्राद्यैर्विनयेन यः । । १११ । । प्राहुः प्रेमप्रणामं तं प्रणयिभ्यः क्रियेत यः । कामं सप्रेमकोपेभ्यो मित्रादिभ्यः प्रसत्तये ।।११२ ।। यस्तु स्वामिनि संमान- मान श्रीदानशालिनि । ऐहिकः क्रियते स्वामिन्नमस्कारमुशन्ति तम् ।।११३।। यः सद्गुरौ च देवे च, वीतरागे विरच्यते । तं तु भावनमस्कारं निर्दिशन्ति विशारदाः । । ११४ । । विचारय त्वमेतेषु कं नमस्कारमर्हसि । इत्याकर्ण्य कुमारोक्ति-मभ्यधत्त धनञ्जयः ।। ११५ ।। त्वं कुमार ! नमस्कारं कुरु भावमयं मयि । यद्देवोऽस्मि जगत्कार-संहारोद्धारकारणम् ।।११६।। भवार्णवसमुत्तार-तरीभूतविभूतयः । मदंशा एव भासन्ते, सर्वदर्शनदेवताः । । ११७ ।। मन्नमस्कारमात्रेण, तव संसारसागरः । विक्रम क्रमलंघ्यत्व-मनुल्लंघ्यो गमिष्यति । । ११८ । । अथाब्रूत स्मितस्यूत-वदनो नृपनन्दनः । मयाकृष्टः क्रियापापाद्वाक्पापे यक्ष ! मा पत ।।११९।। जगतां सृष्टिसंहारोद्धाराः सन्ति न सन्ति वा । इति सम्यग् न जानासि, स्वमाख्यासि च तत्क्षमम् ।।१२० । । यदङ्गमहसा दृष्टिः, सहसा तव लुप्यते । तैः सुरेन्द्रः स्तुतान्ख्यासि स्वांशान्दर्शनदेवताः । । १२१ । । स्वयं भवाब्धौ मत्स्यस्त्वं, चापलेनोपलक्ष्यसे । नमस्कारात्तदुत्तारं कुतो दिशसि मे ततः ।। १२२ ।। वचसा निष्फलेनैव तत्पापं मा वृथा कृथाः । भवेन्मम नमस्कारो भवेऽस्मिन्न जिनं विना । । १२३ ।। इति वादिनि यक्षेन्दुर्मेदिनीनाथनन्दने । गिरं जागरयामास, विवेकविमलामिमाम् ।।१२४ ।। ददृशे त्वादृशः कोऽपि पुमाननुपमाकृतिः । धीरो धर्मी च वाग्मी च, राजपुत्र ! न कुत्रचित् । ।१२५ ।। जितस्त्वयाहं वचनै-स्तेनास्मि तव किङ्करः । शुद्धधर्मोपदेशाच्च, मम त्वमसि सद्गुरुः ।।१२६।। स्वचित्तकोणं वासाय, निजदासाय यच्छ मे । त्वच्छिष्यो यदि जानामि, तद्गतां त्वद्गुणावलीम् । ।१२७ ।।