________________
७२
मन्नह जिणाण आणं' स्वाध्यायः
निशाशेषेऽन्यदा यक्षः, प्रत्यक्षः स जगाद तम् । मच्छक्त्या सज्जदेहोऽसि, देहि मे महिषान् शतम् ।।८६ ।। तमूचे विक्रम याचन्, लूलायान् किं न लज्जसे । जज्ञेऽङ्गं मुनिदिष्टेन सज्जं धर्मोषधेन मे ।। ८७ । धर्माख्यमौषधं दृष्ट - प्रत्ययं कष्टतोऽर्जितम् । जीवव्यापादपापाब्धौ यक्ष ! कः क्षिपति प्रधीः ।। ८८ ।। आचचक्षे च यक्षेशो ददास्यन्यस्य मद्यशः । ततस्तत्ते करिष्यामि, कामं येनानुतप्यसे ।।८९ ।। इत्युदित्वा तिरोभूते, यक्षे दक्षैकशेखरः । अनाकुलमनाश्चक्रे, कृत्यकर्माणि विक्रमः । । ९० ।। तत्रामरनिकेताख्यो-द्यानश्रीशेखरेऽन्यदा । जिनागारे कुमारेन्दुर्ययौ, कल्याणकोत्सवे ।। ११ ।। ततः स्नात्रविलेपार्चा-प्रेक्षणीयस्तवक्षणैः । जिनेन्दोर्जनयित्वैष, यात्रां यावन्यवर्त्तत ।। ९२ ।। अस्तम्भयद्भयव्यग्रं, तावत्तस्याऽखिलं बलम् । निजक्रीडावनक्रोडे, स धनञ्जयगुह्यकः ।। ९३ ।। युग्मं ।। यमाग्निकौणपध्वा-कोटिक्लृप्ता मिवाथ सः । हताम्बरचरस्फूर्ति मूर्तिं निर्माय मायया ।। ९४ ।। रोषप्लोषितया भीष्म-घनघर्घरघोषया । तं क्षोणिपसुतं यक्षः, साक्षेपमिदमब्रवीत् ।। ९५ ।। युग्मं ।। नरेनराधम ! कथं ददासि मम कासरान् । आयुः काण्डमकाण्डेऽपि, समापयसि किं स्वकम् । । ९६ ।। स्मितधौताधरोऽधत्त, कुमारो भारतीमथ । भो यक्ष ! न क्षिपामि स्वं तनुमद्घातपातके ।। ९७ ।। अप्यारब्धबहुत्राणाः प्राणाः कस्यापि न स्थिराः । तत्कृत्याकृत्यवित् कुर्यादकृत्यं तत्कृतेऽपि कः । । ९८ । । इत्याकर्ण्य क्रुधा यक्षो विक्रमं क्रमसङ्ग्रहात् । उत्पाट्यास्फालयद्वीची-मिवाभ्यर्णाचलेऽर्णवः ।। ९९ ।। मूर्छामुच्छिद्य यक्षस्तं क्रुधान्धः पुनरभ्यधात् । रे ! रे ! ददासि नाद्यापि किं मद्देयमदेयवत् । । १०० ।। कृपां करोषि जीवेषु, स्वजीवे न करोषि किम् । मद्वध्यतां गतेऽमुष्मिन्, धर्माविष्कारकारणे । । १०१ ।। धर्माधारः कुमारोऽथ, गिरं जग्राह साहसी । स्वैकजीवकृते जीव- शतं को हन्ति धर्मवित् । । १०२ । । फलं तवापि धिग् यक्ष ! जीवलक्षनिपातनैः । इहामगन्धिकं धाम, परत्र नरकव्यथा । । १०३ ।। त्वं धर्मादेव देवत्वं यातोऽसि प्राग्भवं स्मर । पातके जातकेलिस्तत्किमसि ज्ञानवानपि । । १०४ ।। पुण्यैकपरिणामेन, जगदुल्लासहेतुना । तवापि युज्यते धर्तुमानन्दं वन्दनादिना । । १०५ ।। इति तस्योक्तिभिर्युक्ति-भिन्नाभिर्भिन्नमानसः । यक्षोऽभ्यधादहो साधु, त्वयाऽहं प्रतिबोधितः । । १०६ ।।