________________
धरह सम्मत्तं
७१
पुनर्जगाम तामेव, भुवं मीनभवान्तरः । मृगनाथः स भूत्वाऽथ, तुरीयं निरयं गतः ।। ६५ ।। पुनस्तत्रैव पाठीन - शरीरान्तरितोऽगमत् । श्येनीभूय तृतीयं स इयाय निरयं ततः ।।६६।। गृहं गृहीत्वाऽथ, गतस्तामेव दुर्गतिम् । द्वितीयां भुजगो भूत्वा जगाम जगतीं च सः ।।६७।। सोऽगमद्भोगभृद्भूय तत्र भूयोऽपि दुर्गतौ । तिमीभूयाऽगमदसौ, प्रथमां पृथिवीमथ ।। ६८ ।। अजायत स जीवोsथ, पक्ष्येको विकलेन्द्रियः । हीनेन्द्रियश्च यस्तिर्यग् नीचजातिर्नर : सुरः । । ६९ ।।
कश्चेति शतशः सोऽभूद् भवचरश्चिरम् । नानायोनिभवां भूरि- पराभूतिं समाश्रयत् ।।७० ।। आकुलः कष्टकोटीभिर्बन्धव्यथवधादिभिः । भवे भवे स पञ्चत्व-मवाप व्यापदां पदम् ।।७१ ।। इत्यापदोऽतिगहनाः, सहमानेन संसृतौ । तेन बह्व्योऽवसर्पिण्य उत्सर्पिण्यश्च निन्यिरे ।। ७२ ।। सोऽकामनिर्जराक्षाम-कर्माथ तनुभूरभूत् । गृहिणः सिंहदत्तस्य, वसन्तपुरवासिनः ।। ७३ ।। तारुण्ये तापसीभूय, तपस्तप्त्वा स दुस्तपम् । फलं त्वज्ञानकष्टस्य, प्राप त्वत्पुत्रतामयम् ।।७४।। ऋषिघातप्रवचन-द्वेषजं पापमेष तत् । तीव्राभिः कष्टकोटीभि - स्ताभिस्ताभिरशोषयत् ।। ७५ ।। तेन शोषितशेषेण, दुरितेन तवात्मजः । अयं बभूव भूपाल रोगजालस्य भाजनम् ।। ७६ ।। इत्युक्तिं दुःश्रवां श्रुत्वा, चकम्पे चकितो नृपः । स विक्रमकुमारस्तु, जातजातिस्मृतिर्जगौ ।। ७७ ।। विवेकदीपमप्राप्य, प्रभो ! मोहतमोहतः । हा हा कष्टमहासिन्धौ, मार्गभ्रष्टः पुरापतम् ।।७८ ।। इतश्चेतश्च चण्डाभि-स्ताड्यमानस्तदूर्मिभिः । दैवात्तत्तीरमेत्यास्मिन्, मग्नो रुक्पङ्कसंकटे ।। ७९ ।। जगद्गुरो करालम्बं तद्यच्छानवलम्बितम् । आकर्ष मामितः स्वामिन्, निरीह करुणां कुरु ।। ८० ।। सम्यक्त्वैकगुणप्रोत- द्वादशव्रतभूषणम् । श्राद्धधर्ममथो हस्त-मिव व्यस्तारयद्विभुः । । ८१ । । रोमहर्षांकुराकीर्णी, हर्षाश्रुकणमिश्रदृक् । जग्राह श्रावकं धर्मं विक्रमोऽथ यथाविधिम् ।।८२।। भूपोऽभूद्भद्रको नत्वा, तौ मुनिं परमीयतुः । व्यहरद्वसुधां बोधि-सुधाम्भोधिस्ततो मुनिः ।। ८३ ।। धर्मद्रुमूलसम्यक्त्व-रसास्वादकृतादरः । छिन्नाघकन्दैर्मुमुचे व्याधिभिर्विक्रमः क्रमात् ।।८४ ।। नवोल्लासितलावण्य - पुण्यसर्वांङ्गचङ्गिमा । धर्मालङ्करणः सोऽभून्मुक्तेरपि मनोरमः ।। ८५ ।। २. सुरनारकयोरन्तरे भवान्तरं ज्ञेयम् अन्यथा सुरो मृत्वा नारको न जायत एव । संपा०
२