________________
७०
'मन्नह जिणाण आणं' स्वाध्यायः
प्रपच्छ देशनान्तेऽथ, विक्रमोक्त्या मुनिं नृपः । किं कुमारोऽयमारोग्य-मारोहति न सर्वथा ॥ ४४ ॥ व्यक्तदृश्यस्फुरद्धर्म इवास्ये दशनांशुभिः । ऊचेऽथ केवली ज्ञान- कवलीकृतसंशय: ।। ४५ ।। पुरेऽपरविदेहोर्वी-रत्ने रत्नस्थलाभिधे । पद्माख्यश्छद्मनां सद्म, कुराजन्यः पुराऽजनि ।। ४६ ।। स मृगव्यरसव्यग्रो भूतलं वन्यमन्यदा । ययौ सुयशसं साधुं कायोत्सर्गे ददर्श च ।। ४७ ।। स धर्मज्ञानयोर्वैरी, धर्मज्ञानसमाश्रये । साधोरुरसि निःशङ्कः, कङ्कपत्रं निपातवान् ।।४८ ।। मिथ्यादुः कृतवाक्साधुः, स्वव्यलीकविशङ्कया । पपात घातव्यग्रोऽथ धर्माधारतरुर्धराम् ।। ४९ ।। जनं धिगिति जल्पन्तं निघ्नन् भूपोऽथ मन्त्रिभिः । पापश्री- कौतुकशुकः, कृतः क्षिप्त्वाशु पञ्जरे ।। ५० ।। न्यस्य तस्य सुतं राज्ये, पुण्डरीकं स भूपतिः । सचिवैः पञ्जराद्युक्त-ममोचि निरयोचितः । । ५१ । । सुयशा मुनिराजस्तु, स्मरन् पञ्चनमस्कृतीः । षट्जीववर्गान् क्षमयन्, सुरोऽभूल्लवसत्तमः ।। ५२ ।। स तु राजा वहन् वैरं, साधुवर्गे निरर्गलम् । न जनैर्निन्द्यमानोऽपि तत्पुरोद्यानमत्यजत् ।। ५३ ।। ध्यानाधीनो यशोधौत- व्योमा सोमाभिधो मुनिः । तेनोर्व्यां दण्डघातेना-पाति स्वात्मेव दुर्गतौ ।।५४।।
1
क्ष्माजन्तून् क्षमयित्वाङ्गं सम्मार्ज्य प्रतिमा स्थितः । मुनिस्तथैव घातेना-पाति पातकिनामुना ।। ५५ ।। इत्येष पौनःपुन्येन कुर्वन् पुण्येन साधुना । अवधिज्ञानविज्ञात-तद्भावेनेति भसितः ।। ५६ ।। निघ्नन् साधून् शमागाधान्, रे रे दुष्ट ! स्वतुष्टये । न चेद्भीतोऽस्यघात्तत्किं मादृग्भ्योऽपिबिभेषिन । । ५७ ।। शमिनः सुयशोमुख्या, हन्त ! त्वामसहन्त रे । नाऽहं सहिष्ये हन्म्येष, स्वाभीष्टं स्मर दैवतम् ।। ५८ ।। इत्युक्त्वा तडितेव दुं तं तेजोलेश्यया मुनिः । भस्मीकृत्य द्रुतं प्राप, पयोद इव शान्तताम् ।।५९।। भूपोऽथ पापभारेण समुत्पतितुमक्षमः । अधोगतीनामवधिं सप्तमीं दुर्गतिं गतः ।।६०।। सोऽप्यालोच्य प्रतिक्रम्य, तदतिक्रम्य पातकम् । मुनिस्तीव्रं तपस्तप्त्वा दिवमायुःक्षयादगात् ।।६१।। स भूरमणजीवस्तु, स्वयम्भूरमणार्णवे । अप्रतिष्ठाननरका - दुद्धृत्तस्तिमितां गतः ।।६२।। स तिमिः सप्तमीमेव, जगाम जगतीं ततः । ततोऽप्युद्धृत्य मत्स्योऽभूद्, गतः षष्ठीं च दुर्गतिम् ।। ६३ ।। चण्डालस्त्रीभवं प्राप्य, पुनस्तत्रैव यातवान् । ततः कुम्भीनसो भूत्वा स भूमीं पञ्चमीं गतः ।। ६४ ।।