________________
धरह सम्मत्तं
अस्य प्रभावाज्जायन्ते, देवाः सेवाभृतो नृणाम् । विस्तारिण्यः श्रियः सर्वा यथा विक्रमभूपतेः ।।२३।। तथाहि - जम्बूद्वीपेऽस्ति कुसुमपुरं कुसुमसन्निभम् । यत्र स्वर्णमयावास-भासः केसरतां दधुः ।।२४ ।। राजास्मिन् हरितिलको भूवधूतिलकोऽजनि । नाम्ना गौरीति कान्ताऽस्य, गौरी कान्तगुणैरभूत् ।।२५।। उपयाचितलक्षाभि- दक्षलक्ष्यसुलक्षणः । तयोरपुत्रतादोषच्छेदनो नन्दनोऽभवत् ।।२६।। अस्मिन् गर्भस्थिते राज्ञाजिता विक्रमतोऽरयः । अतो विक्रम'इत्याख्या-मस्याऽम्बा कारयन्महैः ।।२७।। समये विनयी सोऽयमुपाध्यायवशंवदः । अधीती सर्वशास्त्रेषु, निष्णः कृत्स्नकलास्वभूत् ।।२८।। कामेभक्रीडनारण्ये, तारुण्ये यातुमुद्यतम् । द्वात्रिंशन्नृपकन्याभि-पस्तं पर्यणाययत् ।।२९।। यावदिव्येष्वसौ ताभि-त्रिंशद्वासवेश्मसु । रन्तुं प्रववृते तावद-कस्माद्व्याधिभिर्वृतः ।।३०।। कुष्ठ-कास-ज्वर-श्वास-शोफ-शूल-जलोदरैः । शिरोति-गडु-दृक्पीडा-वान्ति-वातैश्च सोऽदितः ।।३१।। उपयाचितबस्त्यादि-कर्ममन्त्रौषधक्रियाः । सर्वं व्यर्थमभूदस्मिन् हितं वाक्यं जडे यथा ।।३२।। शीर्णनासोष्ठहस्ताघ्रिरत्यर्थं व्यथितोऽतिभिः । अनल्पं तल्पगः कष्टं रारटीति स्म सोऽनिशम् ।।३३।। ततः पुरबहिःस्थस्य, प्रसिद्धस्यार्तिशान्तये । धनञ्जयस्य यक्षस्य, स मेने महिषान् शतम् ।।३४।। तदा विमलकीर्त्याख्यः, केवली केलिकानने । दुःकर्मतिमिरत्रास-वासरः समवासरत् ।।३५ ।। ततः केवलिनं नन्तुं भूभर्ती भूरिभक्तिभाक् । चचालानन्दसन्दर्भोज्जागरैर्नागरैर्वृतः ।।३६।। तद्विज्ञाय तदा विज्ञो विक्रमोऽपि व्यचिन्तयत् । लाभाभा इव रुजो हा ! वर्धन्ते ममौषधैः ।।३७ ।। मुद्रामण्डलमन्त्रैस्तै-रौषधैरुपयाचितैः । भग्नं मद्व्याधिषूदग्रैर्दन्तिदन्तैरिवाद्रिषु ।।३८।। तन्मे दादमी रोग- सर्पाः सर्पन्ति यबलात् । तत्तमः शमयाम्यद्य, ज्ञानभानुं भजे मुनिम् ।।३९।। अथ व्यजिज्ञपद्भप-मसावुद्यमसाहसी । शमराशिं नमस्कर्तुं समं नयत मामिति ।।४०।। मुक्तालिखचितश्मश्रु-मुखमश्रुकणैः सृजन् । नृपोऽथ नृविमानेन समं तमनयत्सुखम् ।।४१।। स्वर्णाब्जविष्टरक्रोड-निविष्टं कलभाषिणम् । नृपः समं कुमारेण, मुनिहंसं ननाम तम् ।।४२।। ततो मुनिर्मनुष्याणां हरन् पापमिषं विषम् । वाचा सुधाद्रवाचार-धारिण्या धर्ममादिशत् ।।४३।।