________________
६६
'मन्नह जिणाण आणं' स्वाध्यायः
I
लभते । ततोऽपि संख्यातसागरोपमक्षय उपशमश्रेणीं प्रतिपद्यते, ततोऽपि संख्यातेषु क्षपितेषु क्षपकश्रेणिम्, ततस्तद्भवो मोक्षः । एवमप्रतिपतितसम्यक्त्वस्य नानाभवेषु तद्भवे वा गुणप्राप्तिः स्यात् । सम्यक्त्वं यम् -
[भौसामइबुद्धिविवेगविणयकुसलो जियख गंभीरो । उवसमगुणेहिं जुत्तो निच्छयववहारनयनिउणो ।। ४४ ।।] “जिणगुरुसुअभत्तिरओ, हिअमिअपिअवयणजंपिरो धीरो । संकाइदोसरहिओ, अरिहो सम्मत्तरयणस्स ।। ४५ ।।”
43
[ दर्शनशुद्धिप्रकरण - २५०, २५१/
यथा सशिरजलस्थाननिर्मितसरः कूपादिषु कदापि जलं न क्षीयते तथा श्रीसम्यक्त्वे विद्यमान एव नापरधर्मगुणक्षतिः किन्तु प्रत्युत वृद्धिः । यदुक्तं श्री आवश्यके
44
भट्टेण चरित्ताओ, सुट्टुअरं दंसणं हे अव्वं ।
सिज्झति चरणरहिआ, दंसणरहिआ न सिज्झति ।। ४६ ।।
[आवश्यक नियुक्ति- १९५९
पूर्वमबद्धायुर्जीवः सम्यक्त्वप्राप्तावायुर्बन्धे 'विमाणवज्जं न बंधए आउं' इति वचनाद्वैमानिकेष्वेव [उत्पद्यते ], नान्यत्र । अविरतगुणस्थानवर्तिनो जीवस्य कृत्यमाह
देवे गुरौ च स च सद्भक्तिं शासनोन्नतिम् । अव्रतोऽपि करोत्येव, स्थितस्तुर्ये गुणालये ।।४७।।
45
जो अरिओवि संघे, भत्तिं तित्थुन्नई सया कुइ ।
अविरयसम्मदिट्ठी, पभावगो सावगो सोऽवि ।।४८ ।। [गुणस्थानकक्रमारोह २३ वृत्ति ] सम्यक्त्व-देशविरत्योः पुनरप्यन्तरं दर्शयन्नाह -
42. भाषामतिबुद्धिविवेकविनयकुशलो जिताक्षो गम्भीरः । उपशमगुणैर्युक्तो निश्चय-व्यवहारनयनिपुणः ।। 43. जिनगुरुश्रुतभक्तिरतो हितमितप्रियवचनजल्पको धीरः । शङ्कादिदोषरहितोऽर्हः सम्यक्त्वरत्नस्य ।। 44. भ्रष्टेन चारित्रात्, सुष्ठुतरं दर्शनं ग्रहीतव्यम् । सिध्यन्ति चरणरहिताः, दर्शनरहिता न सिध्यन्ति ।। 45. योऽविरतोऽपि स भक्तिं तीर्थोन्नतिं सदा करोति । अविरतिसम्यग्दृष्टिः प्रभावकः श्रावकः सोऽपि ।।