________________
धरह सम्मत्तं mmmmmmmmmmmmmmmmmmmmmmm
दुविहतिविहेण पढमो, दुविहं दुविहेण बीअओ होइ । दुविहं एगविहेणं, एगविहं चेव तिविहेणं ।।४०।। एगविहं दुविहेणं, इक्किक्कविहेण छ?ओ होइ ।
उत्तरगुणसत्तमओ, अविर(य)ओचेव अट्ठमओ ।।४१।।" [आ.नि.-१५५६-१५५९] गुणस्थानकेष्वऽप्यविरतगुणस्थानं चतुर्थं प्रोक्तमस्ति । केषाञ्चिच्चतुर्थं यावत् प्रतिपत्तिः केषां च पंचमं केषां च षष्ठादिगुणस्थानानि यथासम्भवं स्युः । 'येषां गुणस्थानं सत्स्यात्तेषां सम्यक्त्वमेवैकं नान्यो विरत्यादिगुणो युज्यते' इत्यादिस्थानेषु पुरातनैः श्रीगणधरादिभिरविरतसम्यग्दृष्टिधर्मगुणप्रकारं पृथक्तयैव दर्यमानमपि सर्वैः शास्त्रावलोकनयोगेन ज्ञायमानमपि नाङ्गीक्रियमाणमस्ति, तेषां महासाहसिकता संसारनिर्भीकता च ज्ञायते ।
एवमप्येकान्तो नास्ति यत्सम्यक्त्वं विरतिरहितं न स्यात् विरतिर्वा सम्यक्त्वरहिता न स्यात् । यदुक्तम् -
"उवसमसम्मदिट्ठी अंतरकरणे, ठिए कोइ देसविरइंपि लभेइ । कोइ पमत्तापमत्तभावंपि, सासायणो पुण न किंपि लभेइ ।।४२।।"
___ [शतकबृहच्चूर्णि.] "सम्मत्तंमि उ लद्धे, पलिअपुहुत्तेण सावओ हुज्जा ।। चरणो-वसम-खयाणं, सागरसंखंतरा हंति ।।४३।।"
[पञ्चवस्तु-९१९, श्रावकप्रज्ञप्ति ३९०] यावत्यां कर्मस्थितौ सम्यक्त्वं लब्धं तन्मघ्यात् पल्योपमपृथक्त्वलक्षणस्थितिखण्डे क्षपिते श्रावको देशविरतो भवेत् । तदनन्तरं संख्यातेषु सागरोपमेषु क्षपितेषु चारित्रं
38. द्विविधत्रिविधेन प्रथमः, द्विविधं द्विविधेन द्वितीयः भवति । द्विविधमेकविधेन, एकविधं चैव त्रिविधेन ।। 39. एकविधं द्विविधेन, एकविधमेकविधेन षष्ठो भवति । उत्तरगुणः सप्तमः, अविरतश्चैवाष्टमः ।। 40. उपशमसम्यग्दृष्टिः अन्तःकरणे स्थितः कोऽपि देशविरतिमपि लभते ।
कोऽपि प्रमत्ताप्रमत्तभावमपि सास्वादनः पुनः न किमपि लभते ।। 41. सम्यक्त्वे तु लब्धे पल्यपृथक्त्वेन श्रावको भवति। चारित्रोपशमक्षयाणां सागरसंख्यान्तरा भवन्ति।।