________________
६४
-
rommmmmmm 'मन्नह जिणाण आणं' स्वाध्यायः
दानाधिकारे च पात्रव्यक्तौ - "उत्तमपत्तं साहू, मज्झिमपत्तं च सावया भणिआ । .
अविरयसम्मदिट्ठी, जहण्णपत्तं मुणेअव्वं ।।३५।।" [गाथासहस्री-१४४] कर्मनिर्जराधिकारे च -
यावती निर्जराऽज्ञानिनः पूर्वकोटिभिस्तावती ज्ञानिनः सम्यक्त्वधारिणस्त्रिभिर्गुप्तिभिर्गुप्तस्य श्वासोच्छ्वासमात्रेण, यावती तस्य ततोऽसंख्यात[गुणाधिका] देशविरतस्य, यावती देशविरतस्य ततोऽसंख्य[गुणाधिका] प्रमत्तचारित्रिणः, ततोऽप्रमत्तचारित्रिणोऽसंख्यातगुणाधिका, ततोऽप्यसंख्याताधिका यथाख्यातचारित्रिणः, ततोऽप्युपशमकस्य श्रेणिगतस्येत्यर्थः, ततोऽप्यनन्तगुणा क्षपकश्रेणिमारूढस्य । चतुःशरण- प्रकीर्णकेऽप्यनुमोदनाधिकारे -
"अरिहत्तं अरिहंतेस, जं च सिद्धत्तणं च सिद्धेसु ।
आयारं आयरिएसु, उवज्झायत्तं उवज्झाएसु ।।३६।।" साहूण साहुकिरिअं, देसविरइं च सावयजणाणं ।
अणुमन्ने सव्वेसि, सम्मत्तं सम्मदिट्ठीणं ।।३७।।" [चतुःशरणप्रकीर्णक-५६,५७] श्रीआवश्यके प्रत्याख्याननियुक्तौ श्राद्धविध्यधिकारे - "सावगधम्मस्स विहिं वुच्छामी धीरपुरिसपन्नत्तं । जं चरिऊण सुविहिआ गिहिणो वि सुहाई पावंति ।।३८।। साभिग्गहा य निरभिग्गहा य, ओहेण सावया दुविहा ।
ते पुण विभज्जमाणा, अट्ठविहा हुंति नायव्वा ।।३९।। 33. उत्तमपात्रं साधवो मध्यमपात्रं च श्रावका भणिताः । अविरतसम्यग्दृष्टयो जघन्यपात्रं ज्ञातव्यम् ।। 34. अर्हत्त्वमर्हत्सु, यच्च सिद्धत्वं च सिद्धेषु । आचारमाचार्येषु, उपाध्यायत्वमुपाध्यायेषु ।। 35. साधूनां साधुक्रियां, देशविरतिं च श्रावकजनानाम् । अनुमन्ये सर्वेषाम्, सम्यक्त्वं सम्यग्दृष्टीनाम् ।। 36. श्रावकधर्मस्य विधिं वक्ष्ये धीरपुरुषप्रज्ञप्तम् । यं चरित्वा सुविहिता गृहिणोऽपि सुखानि प्राप्नुवन्ति ।। 37. साभिग्रहाश्च निरभिग्रहाश्च, ओघेन श्रावका द्विधा । ते पुनर्विभज्यमानाः, अष्टविधा भवन्ति ज्ञातव्याः ।।
35