________________
धरह सम्मत्तं
६३
मानाप्यधिकतरचातुरिमाविवक्षणात् सकलजन्तुषु च निर्भीकधीरतया साहसमवलम्ब्य प्रौढप्रवृत्तिमारोप्यमाणास्ति तेषां दुरन्तसंसारता समायान्ती कथं केन निवारयितुं शक्यते ? यतः
30
सुवि गईसु नियमा सम्मत्तसुअस्स होइ पडिवत्ती ।
म होइ विरई, विरयाविरई अ तिरिए ।। ३१ ।। [आवश्यकनिर्युक्ति-८१२]
इत्यावश्यकादिषु । सम्यक्त्ववतां जन्तूनां केचन विरतिसत्तां प्रख्यापयन्तः सन्ति, ते प्रष्टव्याः सम्यक्त्ववत्सु जन्तुषु केषां कषायाणां [उदयः] स्यात् ? ते च जानन्तोऽपि द्वितीयाप्रत्याख्याननामकषायसद्भावं विरतिनिषेधकं कथं विरतिप्ररूपका भवेयुः ? यतः श्रीकर्मस्तववृत्तौ -
नाल्पमप्युत्सहेद्येषां प्रत्याख्यानमिहोदयात् ।
अप्रत्याख्यानसञ्ज्ञाऽतो, द्वितीयेषु निवेशिता ।। ३२ ।।
श्रीश्रेणिकादीनां सम्यक्त्वे सत्यपि द्वितीयकषायोदयेनैव विरतेरभावप्रज्ञापनेनाविरतसम्यग्दृष्टित्वं कस्मान्नाङ्गीक्रियते ? अविरतसम्यग्दृष्टिलक्षणं चैवम् -
31
" तिविहे वि ह सम्मत्ते, थोवावि न विरई जस्स कम्मवसा ।
सो अविरइत्ति भइ, देसे पुण देसविरईओ ।। ३३ ।। " [ ष. भा. - ५, श. भा. - ८६,] श्री आवश्यकेऽपि
“बीअकसायाणुदए अपच्चक्खाणनामधेज्जाणं ।
सम्मद्दंसणलंभं विरयाविरइं न उ लहंति ।। ३४।।”[आवश्यकनिर्युक्ति - १०९, ]
30. चतसृष्वपि गतिषु नियमात् सम्यक्त्वश्रुतयोर्भवति प्रतिपत्तिः ।
मनुष्येषु भवति विरतिः विरता-विरतिश्च तिर्यक्षु ॥
31. त्रिविधेऽपि खलु सम्यक्त्वे, स्तोकाऽपि न विरतिः यस्य कर्मवशात् । स अविरतिः इति भण्यते, देशे पुनः देशविरतिकः ।।
32. द्वितीयकषायाणामुदयेऽप्रत्याख्याननामधेयानाम् । सम्यग्दर्शनलाभं विरताविरतिं न तु लभन्ते ।।