SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ६२ 'मन्नह जिणाण आणं' स्वाध्यायः कर्मविपाकमनुस्मरतामहो महद्दुः खसङ्कटमिदमकस्मादस्माकमापतितम्, न कृतो भगवदर्हत्प्रणीतः सकलदुःखक्षयकरो विषयविषम-विष[परिभोग]विप्रलु[ल]ब्धचेतोभिर्धर्म इत्यतो महद्दुःखं मानसमुपजायतेऽतो महार्वेदनास्ते । ये केचन यतयः श्राद्धाश्च मतिभ्रान्तिकलिताः 'सम्यक्त्वमाचारवतामेव स्यादिति यत्प्ररूपयन्ति प्रतिपद्यन्ते च तन्न श्रीजिनागमोक्तयुक्त्या विचार्यमाणं विचारक्षमम्, यतो जीवानाश्रित्य श्रीआवश्यके उपोद्घातनिर्युक्तौ 29 भवसिद्धिओ अ जीवो, पडिवज्जइ सो चउण्हमण्णयरं । पडिसेहो पुण असण्ण-मीसए सण्णि पडिवज्जे । । ३० ।। [आवश्यकनिर्युक्ति-८१३] भवाद् भाविनी सिद्धिर्यस्य स भवसिद्धिकः, इत्युक्ते भवसिद्धिकाः सर्वासु योनिषु सर्वासु जातिषु च प्राप्यन्ते, ते सर्वे आचारवन्त एव न सम्भाव्यन्ते । तेषां सम्यक्त्वप्रतिपत्तिषु श्रीजिनागमबलेन निश्चीयमानास्तिकालमाश्रित्यापि सम्यक्त्व- श्रुतयोः प्रतिपद्यमानकः षड्विधेऽपि सुषमसुषमादिलक्षणे काले सम्भवति, स च प्रतिपत्ता सुषमसुषमादिषु देशन्यूनपूर्वकोट्यायुष्क एव प्रतिपद्यते । न च दुष्षम - दुष्षमायामत्यन्तसंक्लिष्टत्वाद्विलवासिषु सामायिकादिभावः शङ्कनीयः । यतः प्रज्ञप्त्यामप्युक्तम् - 'ओसन्न परिवज्जिअत्ति ।' अत्र ओसन्नमिति प्रायो ग्रहणात्सम्यक्त्वमात्रप्रतिपत्ता कश्चिद् भवत्यपीति । देशसर्वविरत्योः प्रतिपत्ता उत्सर्पिण्यां द्वयोर्दुष्षमसुषमसुषमदुष्षमयोः सम्भवति, अवसर्पिण्यां तु त्रिषु सुषमदुष्षम - दुष्षमसुषम - दुष्षमासु । एतावता महानिम्नकालेऽपि यत्र खाद्याखाद्य-पेयापेय- कार्याकार्यविवेकविकला मत्स्याहारिणा एव स्युस्तेषामपि श्रीसम्यक्त्वप्राप्तेरुक्तत्वाद् आचारानाचार- विरत्यविरतिचिन्ताचिन्त्यमानाः कथं विशरारुतां नाप्नोति ? चतुर्षु गतिष्वऽपि सम्यक्त्वप्रतिपत्तिः श्रीजिनागमेन स्पष्टमेव निष्टंक्यमानाऽपि यैः कैश्चित् पण्डितंमन्यैरेवाचारानाचारविचारणया निषिध्य ७. 'वेदनास्ते । असञ्ज्ञिभूतास्तु मिथ्यादृष्टयः, ते तु स्वकृतकर्मफलमिदमजानन्तोऽनुपतप्तमानसा अल्पवेदनाः स्युरित्येके ।' 29. भवसिद्धिकश्च जीवः, प्रतिपद्यते स चतुर्णामन्यतरत् । प्रतिषेधः पुनरसंज्ञिमिश्रके संज्ञी प्रतिपद्यते ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy