________________
दीक्षाधर्मस्योत्कटानुरागतया, दीक्षाधर्मे चित्तस्याऽनिवर्तकप्रसरतया, दीक्षाधर्माय हृदयस्य स्थैर्याs - तिरेकतया च प्रकटयन् गृहे गृहे दीक्षादीपम्, प्रज्वालयन् हृदये हृदये दीक्षाभावज्वालाम्, योजयन् जनमानसं दीक्षाधर्मेण, सज्जीकुर्वन्नाऽऽबालगोपालजनं दीक्षाधर्माय, अनुसरन् 'दीक्षाधर्मादेव श्रेय: ' इति जिनवचनं, विज्ञापयन् दीक्षाधर्मस्य स्वरूपं, प्रतिष्ठिताः सहस्रा जना दीक्षाधर्मे । जयजयारवकृतो जगति दीक्षा धर्मस्य ।
एवमेव विहरमाणो भारतभूमौ कुर्वन्त्रऽनेकधा निष्प्रतिमाऽऽराधनां, समुज्जवल - शासनप्रभावनां, समुत्कटशासन-सुरक्षां षन्नवतितमे वयसि स्वर्यातः सूरीश्वरस्तदा निर्गता भारतवर्षीयाऽतीव श्रेष्ठान्तिमा यात्रा । समुपस्थिता लक्षशा जनाः सूरीश्वरस्य दर्शनार्थम् । प्रदत्तोऽश्रुपूर्णनेत्रैः श्रद्धाञ्जली । प्रकाशिता 'परिसमाप्तो जाज्वल्यमानधर्मयुगः' इति नानावार्ता नानाविधासु समाचारपत्रिकासु । प्रवृत्तं स्वयमेव श्रद्धांजल्यर्पणरूपेण कर्णावती-मुम्बापुर्याद्यनेकनगरग्रामादिषु कार्यविरामोद्घोषणम् ।
तथा च विनिर्मितमुपकारस्मृत्यर्थं कर्णावतीनगरे साबरमतीनामाऽऽस्थाने रामनगरे ' सूरिरामचंद्रस्य ' बृहत्स्मृतिमंदिरम् । निर्माणकार्यं प्रारभत् विंशतिवर्षपूर्वाद् । निर्मितं प्रायः त्रिंशद्कोटीमितद्रविणव्ययेन 'स्मृतिमंदिरम्' नामा प्रासादः । प्रतिष्ठा कृता एतन्मन्दिरस्य २०५८ तमे वैक्रमीयसंवत्सरे समर्पणतीर्थगच्छाधिपतिपूज्यपादाचार्यदेव श्रीमद्विजयमहोदयसूरीश्वरैः । प्राचलत् स्मारकस्य प्रतिष्ठायाः सप्तविंशतिदिनाऽऽत्मको महामहोत्सवः । अभजदेष महोत्सवो भारतवर्षे गौरवाऽर्हताम् । आसीद् भारतवर्षीयमहामहोत्सवेष्वनितराऽसाधारणीभूत एष महोत्सवः । प्रसिद्धिं गतमसौ कलाकौशलेन भारतवर्षे । आवहति दर्शनमेतस्य जीवनसौभाग्यम् । दर्शनीयमवश्यं जाघन्येन जीवन एकवारमैतन्निकेतनम् ।
प्रान्ते विरामात्पूर्वं वितर्कयामस्तावदन्तिमशतवर्षं यावद् नाऽभवद् 'सुविशुद्ध सिद्धांत देशनांदक्ष' इत्यादि प्रवचनविषयेऽपि नैकोपाधिधारकोऽप्रतिहतवाक्शक्तिप्रसरयिता महापुरुषो । अस्ति वैक्रमीये २०६९ तमे शरदि पोषशुक्लत्रयोदश्यां धर्मपुरुषस्य दीक्षाशताब्देः पूर्णताकालः । समर्पयेमरेतस्मिन् वर्षे रक्तस्य प्रतिबिन्दौ दीक्षाधर्मस्य प्रतिष्ठापकाय, प्रतिरोमे दीक्षादीपस्य प्रज्ज्वालकाय, दीक्षायुगप्रवर्तकायाऽस्मद् गुरुचरणायाऽऽचार्यदेवाय श्री श्री श्रीविजयरामचन्द्रसूरीश्वराय मनसा वचसा कायेन च संकल्परूपेण, सत्यमार्गरक्षारूपेण, सत्यधर्मकथनरूपेण, सत्यधर्ममार्गाऽनुसरणरूपेण च श्रद्धाञ्जलिम् । भविष्यत्येषः श्रद्धाञ्जल्यस्माकं हिताय धर्माय च । तथा च समर्पयाम्येतादृशाय सरस्वतीसूनवैतद्ग्रन्थप्रसूनं श्रद्धाञ्जलिरूपेणैतस्मिन् वर्षे । 'अनुगृह्णन्तु ते हि भगवन्तः करुणाचेतारो भक्तभक्तिं प्रत्यपि निस्पृहसत्तमा एतद्ग्रन्थभक्तिप्रसूनस्वीकरणेनेति' शुभभावनया विरमामि । वर्धमानतपोनिधिपूज्यपादाचार्यदेवश्रीमद्विजयगुणयशसूरीश्वराणां चरणसेवकानां प्रवचनप्रभावकपूज्यपादाचार्यदेव श्रीमद्विजयकीर्तियशसूरीश्वराणां च
• चरणकिङ्करो मुनिः
9