________________
श्रीरामविजय' इत्यभिधानम् । प्रव्रज्यानन्तरं मुनिश्रीरामविजयस्याऽवलक्ष्य विशिष्टज्ञानाभ्यासं, आकल्य व्यक्तिप्रतिभां, अवगम्याऽन्तर्मुखतां, सम्प्रेक्ष्य संयमसाधनां, निरीक्ष्य निरीहतादिगुणस्तोमम्, आदिष्टो गुरुवर्यः मुनिश्रीरामविजयः प्रवचनप्रदानाय । __ततश्च प्रवृत्तः प्रथमवर्षानन्तरमेव गोमुखतो गङ्गामिव प्रवचनप्रवाहः । विस्तृत आगामिकाले विस्तीर्णीभूतां भागीरथीमिव । प्रतिबोधिता नैके जनाएतयाऽस्खलितप्रवचनलब्ध्या । उज्जागरिता अनेके सज्जना धर्माऽधर्मविचारस्पष्टीकरणपटुतया । न प्रदत्तः कदापि संसारोपदेशः संसार-प्रवर्धक धर्माभासोपदेशश्च सदा मोक्षकलक्षीतया । आकर्षिता देशनेतागांधीसरदारवल्लभादिसहस्रा जना निस्पृहतागर्भाऽऽकर्षकवक्तृत्वशक्त्या । न भीताः कदाचित् कस्माच्चिदपि सत्यधर्मकथने । न प्रतिघातमापद्यत धर्मप्रदाने । नाऽऽकलितं सत्यधर्मरक्षणाय स्वसम्मानाऽर्हाऽवस्थितिम् । परित्यक्तं सत्यार्थं सम्मानम् । सोढाः सत्यरक्षार्थं नैका विपत्तयः । विलीनीकृतं सत्ये स्वाऽस्तित्वम् । समर्पितं सत्यरक्षणाय स्वजीवनम्। 'परिरक्षणीयं सत्यम्' एतत्सूत्रेण प्रावर्तयत् स्वविवेकम् । उदजागरत् स्वशक्तिम् । नाऽगणयत् लोकवचनीयताम् । नाऽपश्यत् स्वकलङ्करूपताम् । नाऽजानीत स्वशरीरचिन्ताम् । नाऽपेक्षत कदापि कोऽपि जनसहायम् । केवलं लक्ष्यैकदृष्ट्या, कार्यकचिन्त्या, धर्मेकबुद्ध्या, ध्येयैकनिष्ठया, व्यवहत एकाक्यपि सहस्रीभूयः । अभिहितमत एव देशसेवायमेव धर्मं मन्यमानेन देशनेतृणा गांधीना- 'दद्याद् यदि मुनिश्री रामविजयः स्वातन्त्र्योद्बोधकप्रवचनम्, हस्तगतैव तर्हि भारतवर्षस्य स्वतन्त्रतेति । दर्शयेम वयं मुनिश्रीरामविजयस्यैकद्वयोदाहरणेन प्रवचन-शक्तिम् । ___ इतश्च प्रतिवर्ष कर्णावतीनगरे (अहमदाबादनगरे) भद्रकालीमन्दिरे विधीयमानं छागवधं निवारणाय, विहतः प्रतिवीथ्यायां प्रतिरथ्यायां प्रतिचतुष्पथे च । प्रावर्तितं जनजागरणम् । उद्घोषितं हिंसाऽहिंसास्वरूपम् । बोधितं हिताऽहितविभागम् । वर्णितं कार्याऽकार्यविचारम्। परावर्तितं जनमानसम्। कृतं जनसंघटनम् । समुत्पादितो गृहे गृहे हिंसानिवारणनादः । आन्दोलितं हिंसाविरामाऽऽन्दोलनम् । छागवधदिने विशिष्टप्रवचनप्रदानेनैकत्रीकृताः पञ्चाशत्सहस्रा जना हिंसानिवारणाय भद्रकालीमन्दिरे । तिरस्कृतमेकीभूय सर्वधर्मजनैः छागवधकार्यं मुनिश्रीरामविजयवचनेन। विरतैतेन पूर्णकालीकरूपेण भद्रकालीदेवीपुरः प्रयुक्ता सा हिंसेति । कारयन्त्येतादृशानि विधवाविवाह-उदरम्मभरिशिक्षण-शास्त्रकथितोदिततिथिसिद्धान्तदेवद्रव्याभक्ष्यभक्षणबालदीक्षादिविषयकानि शतसहस्रोदाहरणानि प्रवचनशक्तेः परिचयम् ।
कृतं सर्वेष्वपि कार्येषु विशिष्टतमं जिनशासनस्य हाईसदृशं दीक्षायुगप्रवर्तनम् । तथाहि-मा भूद् दीक्षाधर्माऽऽसादयितुर्विघ्नोपस्थितिः, तथा च सम्पद्यते समीहितदीक्षाधर्मसिद्धिः, तदर्थ मन्त्रशक्त्येव मुग्धीकृता प्रवचनदानेन नैके गुणीजना दीक्षार्थम् । सम्मुखीकृता नैके परिकरा दीक्षाग्रहणाय। दीक्षिताः कोटिपतयः । प्रव्राजिता देशभक्ताः । विरञ्जिता सुभाषचन्द्रबोझवर्येण सह स्वातन्त्र्यान्दोलने कार्य निर्वहन प्राणलालवर्यस्तत्सदृशाश्च नैके जनाः । विरक्तिकृता आबालऽङ्गनादयः ।