________________
दीक्षाशताब्दीसमर्पणम्
आसीदिह खलु भारतवर्षे रत्नाकरो गुणरत्नानां, हितकारी पापिजनानां, अनुसारी शिष्टानाम्, आदर्शः प्रभावकानां, प्रकर्षः पुण्यराशीणां, निलयो यतिधर्माणां, मन्दिरो माहात्म्यानां, निकेतनो धर्मकर्माणाम्, आकर आश्चर्याणां, विशारदो विद्वज्जनानां, मूर्धन्यः सज्जनानां, ज्येष्ठो जैनानां, श्रेष्ठः श्रमणानां, मुकुटो मौलीनां, दृष्टान्तो धर्माचार्याणां, प्रसिद्धः प्राज्ञजनानामिव श्रीश्रीश्रीविजयरामचन्द्रसूरीश्वरो नाम जैनाचार्यः । जानन्ति जैनजगदम्बरतले तंभास्वरायमाणं कोटिशो जना यथा, अभिजानीयुरज्ञातारोऽपि कोटिशोस्तथा, परिचिचायिषामस्तदर्थं महाप्रभावकं युगपुरुषमेनम्।
विद्यत इह भारतवर्षीयगुर्जरराज्ये कश्चन लघुग्रामो 'दहेवाण' इति नाम्ना । प्राप्तो वैक्रमीये १९५२ तमे संवत्सरे फाल्गुनमासस्य कृष्णचतुर्थीदिने समरथमातृकृक्षितस्तत्र जन्म । स्थित आसीत्तदा छोटालालनामा बालस्य पिता पादराग्रामे स्वगृह एव । सञ्जातं दशदिनाभ्यन्तरैव पुत्रमुखदर्शनात्पूर्वं तत्पितुःपञ्चत्वम् । प्रतिष्ठापितं निश्चिदिनानन्तरं 'त्रिभुवन' इत्यभिधानं तस्य । संजातः सप्तमवर्षे मातृविरहः। विरहितो मातापितराभ्यां लालितः पालितश्च प्रपितामह्या रतनदेव्या। प्रदत्ता संस्कारसंपत्तिः । संपन्नो जनयन्नानन्दं गृहजनानां क्रमेण नववार्षिकः स बाल: पादराग्रामे। ___ समुल्लसितः संस्कारसम्पदाढ्यतया त्रिभुवनस्य दीक्षाग्रहणाऽभिलाषः । अनिच्छता गृहजनानामनाख्यायैव निर्गतो गेहाद् । ज्ञातंगृहजनैर्यद् - 'गतो दीक्षाग्रहणायेति' तस्मादुत्थितो गृहे हाहारवः । निश्चितं गृहजनैः 'आनेयः कथञ्चिदपीति' । आनीतोऽन्विष्य बान्धवजनैर्बलामोटिकया । तदेवंस्थिते - न क्रियते केनाऽपि दीक्षादानाय प्रयत्नः । अतः प्रकाशिता वार्ता वर्तमानपत्रे, यद् - 'न दातव्या केनाऽपि प्रव्रज्या त्रिभुवनाय, भविष्यत्यन्यथा दण्डा) दातेति । न भीत एतस्मादपि कुमारः । अप्यभिहितं परिजनं प्रति यद् 'ग्रहिष्यामि दीक्षां स्वयमेवाहं चेद् भविष्यति तदा कस्य दण्डार्हतेति ?'। सजाता एतद् वाक्यश्रवणाद् विस्मितानना इव, विस्फारितेक्षणा इव सर्वे स्वजनाः ।।
ततश्च व्यतीत एतद्वार्ताऽनन्तरं कश्चित्कालः । प्रयातः पुननर्दीक्षाग्रहणाऽभिप्रायेण गेहाद् । अनापृच्छयैव गृहजनान्दीक्षितो गुप्तरूपेण तीर्थरूपे गन्धारनगरे मुनिश्रीमंगलविजयसत्तमेन त्रिभुवनः । प्रकटायितमासीत्तदा दीक्षाऽवसरे दीपचतुष्टयम् । दृष्ट्वा वारिधिवेलावृद्धिहाससमुत्पन्नप्रचण्डझंझावातेनाऽप्यनिर्वातदीपज्योतिम्, अवलम्ब्यैतदृश्य, विज्ञाय भाविस्वरूपम्, आकलय्य त्रिभुवनस्याऽऽन्तरङ्गिकं विरागिव्यक्तित्वम्, अनुसृत्य भाविदेशकालाऽवस्थिति, समुच्चारितैषा दीक्षादातृणा भविष्यवाणी, तथाहि-भविष्यसि समुद्भूतकुवादिकपोलकल्पितकुमतादिकृतानैकप्रचण्डझंझावातेऽप्यनिर्वातदीपज्योतिसमदृढस्थिरधीरवीरमानस्स्त्वमिति । प्रतिष्ठापितं तस्य मुमुक्षो-'मुनिः