________________
[धरह सम्मत्तं
[३ - सम्यक्त्वम्] “सम्मत्तंमि उ लद्धे, ठइआई नरयतिरिअदाराई । दिव्वाणि माणुसाणि अ, मुक्खसुहाइं सहीणाई ।।१।। सम्मत्तदायगाणं, दुप्पडिआरं भवेसु बहुएसु । सव्वगुणमेलिआहि वि, उवयारसहस्सकोडीहिं ।।२।। कुसमयसुईण महणं, सम्मत्तं जस्स सुट्ठिअं हिअए ।
तस्स जगुज्जोअकरं, नाणं चरणं च भवमहणं ।।३।।" [उ.मा.-२६९, २६८, २७०] इत्यवगत्य हार्दवृत्या मनःशुद्ध्या च श्रीसम्यक्त्वं ध्रियतां भो भविकाः! । राज्यप्राज्यसमृद्धि-धन-धान्यवृद्धि-देवदर्शन-वरप्रदान-कल्पकारस्कर-कामघट-कामधेनुचिन्तामणि-दक्षिणावर्तशंखादिस्वल्पपुण्यभृतां महायासेऽपि दुर्लभतरमपि कथञ्चित् कैश्चिदज्ञानकष्टादिपुण्यप्रयासैर्भव्यैरभव्यैर्वा जीवैः कदाचिदासाद्यते, न त्वनन्तैरपि भवै वैः सम्यक्त्वशुद्धा बोधिरासाद्यते कथञ्चनाऽपि । यतः -
"सुलहो विमाणवासो, एगच्छत्ता वि मेइणी सुलहा ।
दुलहा पुण जीवाणं, जिणिंदवरसासणे बोही ।।४।।"[सुक्तमुक्तावली-६/२] तथा अभव्यानां तु दुष्प्राप्यैव । यदुक्तम् - "काले सुपत्तदाणं, सम्मत्त-विसुद्धबोहिलाभं च । अंते समाहिमरणं, अभव्वजीवा न पावंति ।।५।।" [सम्यक्त्वकौमुदीवृत्ति
1. सम्यक्त्वे तु लब्धे स्थगितानि नरकतिर्यग्द्वाराणि । दिव्यानि मानुषाणि च मोक्षसुखानि स्वायत्तानि ।। 2. सम्यक्त्वदायकानां दुःप्रतिकारं भवेषु बहुषु । सर्वगुणमीलिताभिरपि उपकारसहस्रकोटीभिः ।। 3. कुसमयश्रुतीनां मथनं सम्यक्त्वं यस्य सुस्थितं हृदये । तस्य जगदुद्योतकरं ज्ञानं चरणं च भवमथनम् ।। 4. सुलभो विमानवासः, एकच्छत्राऽपि मेदिनी सुलभा । दुर्लभा पुनर्जीवानाम्, जिनेन्द्रवरशासने बोधिः ।। 5. काले सुपात्रदानं सम्यक्त्व-विशुद्धबोधिलाभं च । अन्ते समाधिमरणमभव्यजीवा न प्राप्नुवन्ति ।।