________________
૪૫૨
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
सोत्कण्ठमङ्गलगनैः कचकर्षणैश्च, वक्त्राब्जचुम्बननखक्षतकर्मभिश्च। श्रीमूलराजहतभूपतिभिर्विलेसुः, संख्येऽपि खेऽपि च शिवाश्च सुरस्त्रियश्च ।।१।।
(न्यासानुसन्धानम्-श्रीमूलराजहतभूपतिभिः संग्रामे मूलराजमारितनृपतिभिः, संख्ये संग्रामभूमौ, शिवाः शृगालाः, खे आकाशरूपे स्वर्गमार्गे, सुरस्त्रियः देवाङ्गनाश्च, विलेसुः विलासं चक्रुः, संग्रामनिहतशूराणां दिव्यवपुषा स्वर्गश्रवणात्, कथं विलेसुरित्याह -सोत्कण्ठं सकौतुकम्, अङ्गलगनैः अङ्गसङ्गः, आलिङ्गनैरित्यर्थः, कचकर्षणैः केशाकर्षणैः, वक्त्राब्जचुम्बननखक्षतकर्मभिश्च वक्त्राब्जचुम्बनकर्मभिः-मुखचुम्बनकर्मभिः, नखक्षतकर्मभिः-नखाङ्कनकर्मभिश्च, संख्ये अङ्गलगनादिकं शृगालकर्तृकमेव, खेतु अङ्गलगनमुभयकर्तृकम्, कचकर्षणादिकं भूपतिकर्तृकमिति बोध्यम्। 'सोत्कण्ठमङ्गलगनैः' इत्येव पाठः साधीयान् प्रतिभाति, 'सोत्कण्ठमङ्गलगतैः' इति पाठे तु सकौतुकशुभगमनैरित्यर्थः, तञ्च गमनं संख्ये शृगालकर्तृकम्, खे तूभयकर्तृकं सम्भवतीति बोध्यम्।। अत्र बीभत्स-शृङ्गारयोः संकरः, दीपकं चालङ्कारः।।)
ल.न्यास-स्त्रियामिति-"स्त्रियां च" इत्येकयोगेऽपि “स्त्रियां च" इत्यसमस्तनिर्देशस्येदं फलम्-यत् 'स्त्रियाम्' इत्युत्तरसूत्रे याति, अन्यथा “पुं-स्त्रियोः" इत्येव कुर्यात्। निर्निमित्त एवेति-ननु निमित्तत्वाश्रयणे ऋकारान्तत्वाभावात् क्रोष्टुशब्दस्य कथं डीः स्यात्? सत्यम् - गौरादौ पाठात् डीः स्यादेवेति ङीसिद्धिः, परं निमित्तव्याख्यायां "स्त्रियां ड्याम्" इति सूत्रं कुर्यात् ।।१३।।
इति मनीषिश्रीकनकप्रभसूरिविरचिते न्याससारसमुद्धारे (लघुन्यासे)
प्रथमाध्यायस्य चतुर्थः पादः समाप्तः।।