________________
परिशिष्ट - २
૪૫૧
ल. न्यास - टादावित्यादि । नित्यत्वादिति-कृताकृतप्रसङ्गि न्यायेनेति । 'क्रोष्टृन्' इत्यपि कश्चित् तन्मतसङ्ग्रहार्थं टाया आदिष्टादिरिति व्याख्यानं कर्तव्यम्। मृगवाचीति-मृगशब्दस्यारण्यपशुवाचित्वेऽपि शृगाल एवार्थेऽत्र वृत्तिर्दृश्या । दुर्विज्ञान इति - ननु यदा ऋदन्तेन प्रयोजनं तदा तृचि, यदा तु उदन्तेन तदा तुनि साध्यसिद्धिर्भविष्यति, किं तृजादेशविधानेन ? सत्यम् -'शेषे घुटि पुंसि (स्त्रियां) च नित्यम्', 'टादो स्वरे वा' इत्येतस्माद् विषयादन्यत्रापि तृच्प्रत्ययः स्यात्, स्थिते तु यत्र तुनस्तृजादेशस्तत्रैव मृगवाचित्वम्, तृचि प्रत्यये तु क्रियाशब्दत्वमिति नियमसिद्धि । तथापि प्रयोगनियम इति अथ परो ब्रूते- 'क्रोष्ट्रा, क्रोष्ट्रे, क्रोष्टुः, क्रोष्टुः, क्रोष्ट्रोः, क्रोष्ट्रोः' इत्याद्यर्थं तृच् आनेष्यते, न च वक्तव्यम् तृच्प्रत्ययान्तस्य संज्ञित्वं न प्रतीयते भीरु रमणीत्यादिवत् प्रतीयते एव, क्रोष्टुना, क्रोष्टवे' इत्यर्थं तुन् विधायिष्यते एव, अतो निरर्थकं सूत्रमिदम्, न - यद्यपि तृप्रत्ययान्तस्यापि मृगवाचित्वमुन्मज्जति तथापि प्रयोगनियमो दुर्घटः, सूत्रं विना न ज्ञायते कस्मिन् विषये तुन्, कस्मिन् विषये तृच्, यदा व्यञ्जनादावपि तृच् स्यात् तथा चानिष्टानि रूपाणि स्युः - ' क्रोष्टृभ्याम्, क्रोष्टृभिः क्रोष्टृषु' इति, इष्टानि तु तुन्नन्तान्येव व्यञ्जनादौ कृते सूत्रे मृगे वाच्ये टादौ स्वर एव तृः, पूर्वेण घुट्येव तृः, अन्यत्र तुन्नेव, क्रियाशब्दस्य तु सर्वत्रास्त्येव तृच् । तथापीति-तुनन्तो मृगवाच्येव तृच्प्रत्ययान्तस्तु कस्मिन् विषये मृगवाचीति न ज्ञायते, तुनः स्थानप्रवृत्तेन तु तृचा ज्ञाप्यते यत्र घुटि टादौ स्वरादौ च तृच् तत्रैव मृगवाचित्वम्, तेन मृगे वाच्ये क्रोष्टुभ्यामित्यादि न भवतीति नियमसिद्धिः । । ९२ ।।
स्त्रियाम् । १।४।९३।।
बृ०न्यास - स्त्रियामिति । निमित्तविशेषानुपादानेऽपि " क्रुशस्तुनस्तृच् पुंसि स्त्रियां च" इत्येकयोगाकरणाद् घुटीति न संबध्यत इत्याह-घुटीत्यादि । मा भूद् घुटीत्यस्यानुवृत्तिः स्याद्यधिकारस्यानुवृत्तिरस्तु “टादौ स्वरे वा” (१.४.९२) इत्यत्राप्यादिशब्दस्य व्यवस्थावाचित्वात् टादिः स्यादिरेव गृह्यत इति, नैवम् - स्याद्यनुवृत्तो क्रोष्ट्री भक्तिरस्येति क्रोष्ट्रीभक्तिरिति न सिध्यति, आदेशाभावात्, *अन्तरङ्गानपि विधीन् बहिरङ्गा लुब् बाधते इति लुपि सत्यां "लुप्यय्वृल्लेनत्" (७.४.११२) इति स्थानिवत्त्वप्रतिषेधात् प्रत्ययलक्षणाभावात्, “त्रि-चतुरस्तिसृ- चतसृ स्यादौ” (२.१.१) इति पुनः स्यादिविधानाच्च नानुवर्तते स्याद्यधिकार इत्याह- अत्रेत्यादि । ननु स्त्रियामीकारस्यावश्यंभावित्वादीकार एवायमादेशो भविष्यति, कथमुक्तं निर्निमित्त इति ?, न वाच्यम्-ईकारानिर्देशात्, ननु प्रश्लिष्टनिर्देशान्निर्दिष्ट एव-स्त्री+ ई - स्त्रीति स्त्रिया ई स्त्रीत्वस्य द्योतक ईकार इत्यर्थः, अर्थगतं स्त्रीत्वमीकारे आरोप्य "स्त्रीदूतः” (१.४.२९) इत्याम्, तत्रेतरेतराश्रयं भवति - आदेशानिमित्त ईकारस्तदाश्रयश्चादेश्य इति, इतरेतराश्रयाणि च न प्रकल्प्यन्ते, अस्मादेव ज्ञापकाद् भवत्यत्रेकारः, यदयमीकारे आदेशं शास्ति, तथापि पञ्चभिः क्रोष्ट्रीभिः क्रीत इति पञ्चक्रोष्ट्रीशब्दाद् इकणः “ अनाम्यद्विः०" (६.४.१४१) इति लुपि “ड्न्यादेर्गौणस्या० (२.४.४५) इति ङीनिवृत्तौ प्रत्ययलोपलक्षणप्रतिषेधादीकारनिमित्तस्तृजादेशो न प्राप्नोति, अन्तरङ्गाणां च विधीनां लुपा बाधनात् पूर्वमेव तृजादेशो न लभ्यते, पुंवद्भावाद् वा, तस्मान्निर्निमित्त एवायमादेशः । नन्वेवं सत्यपि इकणि परे "जातिश्च णि-तद्धितय-स्वरे" (३.२.५१) इति पुंवद्भावः प्राप्नोति, तस्मिंश्च स्त्रीत्वाभावात् तृजादेशो न स्यात्, नैवम् -“प्रत्ययः प्रकृत्यादेः" (७.४.११५) इति हि यस्माद् 'इकण्' विधीयते तदादेरेवासौ स्वनिमित्तं कार्यं जनयति, न तूनाधिकस्य, अत्र हि समासाद् इकण् विहितः, स कथमूनस्य क्रोष्ट्रीत्यस्य पुंवद्भावं प्रवर्तयितुं पारयति ?, अन्तरङ्गाणां च विधीनां लुपा बाधनाद्वा पुंवद्भावानवकाशः। ननु तथापि इकणो लुप्यप्, (इकणः प्लुप्-पित् लुप्) लुपः पित्त्वस्य पुंवद्भावफलत्वात् “क्यङ्-मानि - पित्तद्धिते " (३.२.५०) इति पुंवद्भावेन स्त्रीत्वनिवृत्तेस्तन्निमित्तस्य तृजादेशस्यापि निवृत्तिः प्राप्नोति, सत्यमेतत्- निर्निमित्तादेशविधानादेव पुंवद्भावो बाध्यते, अन्यथाऽनिमित्तादेशविधानेऽपि तन्निवृत्तौ आदेशस्य निवृत्तिः स्यात्, तत्सनिमित्तादेशेऽपि समानमेव, किं निर्निमित्तादेशविधानेनेत्याह- अत एवेत्यादि । । ९३ ।।
"
इत्याचार्य श्रीहेमचन्द्रविरचिते स्वोपज्ञतत्त्वप्रकाशिकाप्रकाशे (बृहद्वृत्तौ ) शब्दमहार्णवन्यासे (बृहत्र्यासे) प्रथमस्याध्यायस्य चतुर्थः पादः समाप्तः ।।