SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ૪૫૦ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન सति ऋदन्तत्वात् "ऋनित्यदितः" (७.३.१७१) इति ऋलक्षणः समासान्तः कच् कस्मान भवतीत्याह-बहुव्रीहावित्यादि-बहुव्रीहाविति कच्प्राप्तिविषयस्य ऋल्लक्षण इति तत्प्रापकलक्षणस्य च स्पर्श इति, अयमर्थ:-तृभावो हि समासाद् बाह्यं घुटमपेक्ष्य भवन् बहिरङ्गस्तदनपेक्षः पुनः समासान्त: कच् समासादेव भवन् अन्तरङ्ग इति *असिद्धं बहिरङ्गमन्तरङ्गे* इति बहिरङ्गस्य तृज्भावस्यासिद्धत्वाद् ऋकारान्तत्वाभावात् कच् न भवतीति। कृशक्रोष्टूनि इति-कृशाः क्रोष्टारो येष्विति बहुव्रीहौ जसः शसो वा श्यादेशे पुंस्त्वाभावात् तृजादेशाभावः, पुंसीति वचनमन्तरेण च द्वयोरन्यत्र सावकाशत्वात् परत्वात् तृज्भाव: स्यादिति, अथ लाघवार्थं "क्रोष्टोः क्रोष्ट्र पुंसि" इति किमिति न कृतम्?, एवमपि कृते न काचिल्लक्ष्यक्षतिरिति, नैवम्-तृशब्दस्य विधीयमान आरादेशः क्रोष्टशब्दस्य न स्यादित्याह-क्रोष्टोरित्यादि ।।११।। ल.न्यास-क्रुशस्तुन इत्यादि-तृजादेश इति-आदेश इत्युक्ते सकलस्यापि तुनस्तृजादेशो भवति तथा चोक्तम् "एकस्यावयवस्य यो भवति स प्रोक्तो विकारो बुधैरादेशस्त्वसभूरिव प्रकटितः सर्वोपमर्दात्मकः ।। पुल्लिङ्गविषये इति समासेऽपि यदि पुलिँङ्गविषय एव, तेन प्रियः क्रोष्टा यस्याः, यस्य वा कुलस्येत्यत्र न भवत्येव आदेशः, अत एव व्यावृत्तिः क्लीबविषये दर्शिता। क्रोष्टोरिति-"क्रोष्टोः क्रोष्ट्र पुंसि" इति दृश्यम् ।।९।। टादौ स्वरे वा ।१।४।९२॥ बृन्न्यास-टादावित्यादि। स्वर इति सप्तमी, तत्र च "सप्तम्या आदि:" (७.४.११४) इत्यादिसम्प्रत्यय इत्याह-टादौ स्वरादाविति। क्रोष्टुशब्दात् टादौ स्वरादौ पक्षेऽनेन तृभावे यथायोगम् “इवर्णादरस्वे०" (१.२.२१) इत्यादिना रत्वादौ “ट: पुंसि ना" (१.४.२४) इत्यादिना नादौ च क्रोष्ट्रा इत्यादि। 'क्रोष्टूनाम्' इति-अत्र क्रोष्टुशब्दात् षष्ठीबहुवचने *कृताकृतप्रसङ्गित्वात्* नित्यत्वात् पूर्वं नामादेशे कृते स्वरादित्वाभावात् पश्चात् तृजादेशो न भवतीत्याह-अत्र त्वित्यादि। क्रोष्टून् इति-अत्र शस्यपि तुनस्तृजादेशं कश्चिम्मन्यते, तन्मतसङ्ग्रहार्थं टादावित्युच्यते, अन्यथा स्वर इति निमित्तविशेषोपादानाद् घुटीत्यधिकाराभावात् टादिसंप्रत्ययो भवत्येव, तेन टाया आदिष्टादिरिति शसोऽपि सङ्ग्रहः सिद्ध इति। अथ किमर्थोऽयं तुनस्तृजादेशः? क्रुशेस्तृच्प्रत्ययेनैव सिद्धत्वात्, अथोच्येत-तृप्रत्ययान्तः क्रियाशब्दो न मृगवचनः, तुन्प्रत्ययान्तः पुनर्मूगे रूढः, तत्र तृप्रत्ययान्तेनापि मृगाभिधानं यथा स्यादित्येवमर्थमादेश इति, नैतदस्ति-तुन्-प्रत्ययान्तवत् तृप्रत्ययान्तोऽपि रूढ्या मृगं ब्रूयाद्, यथा-परिव्राजको दात्रं प्रकार इति णकादिप्रत्ययान्ता अपि क्रियाशब्दा भवन्ति, अन्यथाऽनेन तृजादेशे सावोचदिति तृप्रत्ययान्त एव ब्रूयादिति, अथ ब्रूयादविशेषोपदेशादुभयोरविशेषेण प्रयोगः स्यादिति तत्रिवृत्त्यर्थ आदेश इति, तन-अविशेषोपदेशेऽपि हि विशेषेणैव प्रयोगो दृश्यते, यथा घरतिरविशेषेणोपदिश्यते " सेचने" इति, अथ च विशेषेणैव प्रयुज्यते-घृतम्, घृणा, धर्म इति, यतः प्रयुक्तानां शास्त्रेणान्वाख्यानम्, न त्वस्मादपूर्वशब्दप्रतिपत्तिरिति विशेषविषयत्वं भविष्यति, अनेनैव च न्यायेन “अस्ति-ब्रुवोर्भू-वचावशिति" (४.४.१) इत्यादीन्यपि प्रत्याख्येयानीत्याह-यद्यपीत्यादिअयमर्थः-आदेशविषयादन्यत्र क्रोष्ट्रशब्दः प्रयुज्यमानः क्रोष्टभ्यामित्यादौ क्रियामेवोपाददानो दृश्यते, अन्वाख्यानं तु यतो दृष्टस्यैव, तत्रासत्यादेशवचने 'क्रोष्ट्र' इत्यस्य मृगवाचित्वं दुर्विज्ञेयम्, मृगे प्रयुज्यमानमप्यपप्रयोगं मन्यते; अथ कश्चित् तृप्रत्ययान्तो मृगवाचित्वेन प्रतिपन्नस्तथापि प्रयोगनियमो दुर्विज्ञान:-'तृप्रत्ययान्त एव मृगवाची पुंसि घुटि स्त्रियां च टादौ स्वरे चोभयम्, अन्यत्र क्रोष्टुशब्द एव मृगवाची, अमृगवाची पुनः क्रोष्टशब्दः सर्वत्र इत्ययं विचित्रप्रयोगमनुसृत्य (नियमः) दुष्करः, शास्त्रानुसारेण विशेषेणैव प्रतिपद्यते, एवम्-"अस्ति-ब्रुवोर्भू-वचावशिति" (४.४.१) इत्यादयोऽपि अशिदादिविषयेऽस्त्यादीनां प्रयोगो मा भूदिति प्रयोगे नियमार्था एव विधीयन्ते, अबुधबोधार्थं तु किञ्चिद् वचनेन प्रतिपाद्यते, न्यायव्युत्पादनार्थं तु सूत्रकृतः किञ्चित् प्रत्याचक्षते। नह्यत्रैकः पन्थाः समाश्रीयत इति ।।१२।।
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy