________________
४४५
परिशिष्ट-२ “ऋक्पू:पथ्यपोऽत्" (७.३.७६) इत्यस्येत्यर्थः । ननु नि' इति विषयसप्तम्येव घटते, कथमुक्तम्-नागमे सतीति, यतः “धुटां प्राक्" (१.४.६६) इति नागमो विधीयते, स च नपुंसके, नपुंसकं चार्थः, अर्थे च शब्दानुशासनेऽस्मिन् कार्यासम्भवानपुंसकाभिधायी शब्दो नागमं विधातुमाश्रयणीयः, स च शब्दः प्रयोगानुगमनीय इति नागमो बहिरङ्गः, अयं तु दीर्घः साक्षादप्शब्दमुञ्चार्य विधीयमानो यथोचारितस्यैव क्रियमाणोऽल्पाश्रयत्वादन्तरङ्ग इति पूर्वं प्रवर्तते, पश्चात् तु नागम इति, नैवम्-निग्रहणादेव पूर्वं नागम एव भवति, अन्यथा नागमं बाधित्वा पूर्वं दीर्घत्वे * सकृद्गतत्वात्* पश्चान्नागमो न स्यादिति निग्रहणमनर्थकं स्यात् ।।८९।।
__ अभ्वादेरत्वस: सौ ।१।४।१०।। बृन्यास-अभ्वादेरित्यादि। अत्वसोरवयवत्वात् समुदायविशेषणत्वात् “विशेषणमन्तः" (७.४.११३) इति तदन्तस्य ग्रहणमित्याह-अत्वन्तस्येत्यादि। (भवानित्यादि-) एतेषां सौ दीर्घत्वे नागमे “पदस्य" (२.१.८९) इत्यन्तलोपः। (अप्सराः, इत्यादि-) आप्नोते: “आपोऽपाऽप्ता-ऽप्सरा-ऽब्जाश्च" (उणा० ९६४) इत्यसि अप्सरादेशे च अप्सरस्, “अगु गतौ" अस्य “विहायस्सुमनस्पुरुदंशस्पुरुरवोऽङ्गिरसः" (उणा० ९७६) इति निपातनादसि अङ्गिरस्, चन्दते: “चन्दो रमस्" (उणा० ९८६) इति रमसि चन्द्रमस्, शृणाते: “मिथि-रञ्जयुषि०" (उणा० ९७१) इति कित्यसि ततः स्थूलशब्देन बहुव्रीहिः, मन्यतेरसि सुशब्देन बहुव्रीहिः, एतेषामसन्तत्वात् सौ दीर्घः । नन्वसोऽर्थवतो ग्रहणात् 'पिण्डग्रस्' इत्यादौ धात्वेकदेशस्यानर्थकत्वाद् दीर्घा न भविष्यति, किं भ्वादिवर्जनेनेत्याह-अर्थवदित्यादि-खरपूर्वस्य नासिकाशब्दस्य “खर-खुरानासिकाया नस्” (७.३.१६०) इति नसादेशेऽनर्थकस्यापि तदन्तविधित्वेन दीर्घः सिद्ध इति। ननु * अनिनस्मन्* इत्यत्रातोरनिर्दिष्टत्वादनर्थकेन तदन्तविधेरप्रयोगाद् *अर्थवद्ग्रहणे नानर्थकस्य* इति न्यायात् ‘कियान्' इत्यत्रैव दीर्घः प्राप्नोति, न 'गोमान्' इत्यादाविति, नैष दोषः-अतुरनर्थकोऽपि तदन्तविधिं प्रयोजयति, मत्वादीनामुकारानुबन्धसामर्थ्यात्, अन्यथा तेषामपि शतृवद् ऋकारमेवानुबन्धं कुर्यादिति। ननु तथापि *तदनुबन्धग्रहणेऽतदनुबन्धस्य ग्रहणं न* इति स एवाऽनुबन्धो यस्यासौ तदनुबन्धकः, स चान्यश्चानुबन्धो यस्य सोऽतदनुबन्धक इति' न्यायाद् यत्तदेतदो डावादेग्रहणाप्रसङ्गः, क्तवतोरपि ककारानुबन्धसद्भावाद् ग्रहणाभावः, नैष दोषः-आनन्तर्यलक्षणेऽनुबन्धानुबन्धवतोः सम्बन्धे डावत्-क्तवत्शब्दस्य डकार-ककारानुबन्धौ प्रत्ययस्य, न त्वतुशब्दस्य, अथवा डकार-ककारावनुबन्धौ प्रत्ययस्य, न तु तदेकदेशस्य, ततश्च प्रत्ययैकदेशग्रहणादव्यापार एव पूर्वोक्तन्यायस्येति। एवं तर्हि गोमन्तमिच्छतीति क्यनि, क्विपि, तदन्तस्य च धातुत्वाहानेः कथं दीर्घ इत्याह-अधातोरित्यादि-अन्यथाऽभ्वादेरित्यपनीय अधातोरित्येव कुर्यात्, न च कृतम्, तस्माद् भ्वादिपठितानामेव वर्जनमित्यर्थः । अतु' इत्यत्र उकारानुबन्धस्य प्रयोजनमाह-अतु इत्यादि । पचतीति पचेः “शत्रानशावेष्यति०" (५.२.२०) इति शतरि “कर्तर्यनद्भ्यः शव्" (३.४.७१) इति शवि “लुगस्यादेत्यपदे" (२.१.११३) इत्यलोपे प्रथमैकवचने उदित्करणादत्र ऋदित्त्वाद् दीर्घाभावे नागमे “पदस्य” (२.१.८९) इत्यन्तलोपे पचन्, एवम्-जरन् इति-"जृषोऽत:" (५.१.१७३) इत्यतः ।।१०।।
ल.न्यास-अभ्वादेरित्यादि। भवानिति-नोऽन्ते सत्यपि *आगमोऽनुपघातेन* इति न्यायाद् भवत्येव दीर्घः ।।१०।।
क्रुशस्तुनस्तृच पुंसि ।१।४।११।।
बृन्यास-क्रुश इत्यादि। क्रुश इति तुन इत्यस्य तृच्कार्यिणः पञ्चम्यन्तं विशेषणमित्याह-क्रुश इत्यादि। “क्रुशं आह्वान-रोदनयोः" अतः “कृसि-कम्यमि०" (उणा० ७७३) इति तुनि गुणे "यज-सृज-मृज०" (२.१.८७) इति षत्वे "तवर्गस्य श्चवर्ग०" (१.३.६०) इति टत्वे स्यादौ घुटि अनेन तुनस्तृजादेशे "ऋदुशनस्पुरुदंशो०" (१.४.८४) इति सेर्डादेशेऽन्यत्र "तृ-स्वस-नप्तृ" (१.४.३८) इत्यारादेशे क्रोष्टा इत्यादि। क्रोष्टारमतिक्रान्त इति तत्पुरुष:-अतिक्रोष्टा। प्रियक्रोष्टा-अथ चात्र बहुव्रीहौ तृजादेशे