________________
४४८
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન इति द्वितीयः, तत्र पूर्वेण योगेन घुटीत्यनुवर्तनाद् इन्नादीनां “नि दीर्घः” (१.४.८५) इति “अहन्पञ्चमस्य क्वि-क्ङिति" (४.१.१०७) इति च दीर्घत्वं प्राप्तम्, घुट्येव दीर्घा भवतीति नियमात् 'वृत्रहणि' इत्यादौ सप्तम्यां दीर्घा निवर्तते, द्वितीयेन तु 'वृत्रहणौ' इत्यादौ घुट्लक्षणः । एकयोगेऽप्यदोषः-अनाश्रितघुटिवशेषणप्रत्ययत्वमात्रसमाश्रयेण शि-स्योर्नियमकरणात्। यद्येवं वृत्रहेवाऽऽचरति वृत्रहायते, दण्डीभूत इति “दीर्घ-चिव-यङ्-यक्-क्येषु च” (४.३.१०८) इति दीर्घत्वं न प्राप्नोति, नैवम्-प्रकरणादुपान्त्यस्यैव दीर्घस्य व्यावृत्तिर्न स्वरान्तलक्षणस्य। किञ्च, एकस्मिन्नपि योगे घुट्टिनवृत्तावपि न दोषः, यतो द्विविधो घुट शिः, स्यमौजसश्च, तत्र शिर्नपुंसकस्य, अन्ये तु स्त्रीपुंसयोरिति, तत्र तुल्यजातीयापेक्षे नियमे समाश्रीयमाणे व्यवच्छेद्याभावादनर्थक एव नियमः स्यादिति नियमविधानसामर्थ्यात् सर्वस्य दीर्घस्य नियमेन व्यावृत्तिरिति, यदाह-श्रीकय्यट:- यदि तुल्यजातीयापेक्षो नियम आश्रीयते तदा शेर्नपुंसकलिङ्गसम्बन्धित्वं घुट्त्वं चास्तीति तदाश्रये नियमे विज्ञायमानेऽयमर्थः स्यात्-‘इन्नादीनां नपुंसकानां शावेव घुटि दीर्घो भवति, न घुडन्तरे' न च तेषां नपुंसकानामन्यो घुडस्तीति नियमविधानसामर्थ्यात् प्रकरणापत्रं घुट्त्वं, सामर्थ्यप्रापितसन्निधानं च नपुंसकत्वमुभयमप्यविशेषादनपेक्ष्य प्रत्ययमात्रे स्त्री-पुं-नपुंसकसम्बन्धिनी दीर्घत्वव्यावृत्तिः क्रियत इति सर्वमिष्टं सिद्धमिति। “अहन्पञ्चमस्य०" (४.१.१०७) इत्यत्राहन्ग्रहणं न्यायानुवादकमिति। अर्थवदिति-"प्लिहि गतौ" अत: "श्वन्-मातरिश्वन्-मूर्धन्-प्लीहन्०" (उणा०९०२) इत्यनि निपातनाद् दीर्घत्वे प्लीहन्, अत्र हनोऽर्थवतो ग्रहणात् तेनैव तदन्तविधित्वे, अस्यैव च प्रत्ययान्तरे नियमेन दीर्घत्वव्यावृत्तेः प्लीहनित्येकदेशस्यानर्थकस्य ग्रहणाभावे नियमाभावात् दीर्घत्वव्यावृत्त्यभाव इत्यर्थः। ननु भवत्वत्र प्रकरणे तदन्तविधिस्तथापीनिति प्रत्ययग्रहणं भवतीति 'दण्डीनि' इत्यत्रैव दीर्घत्वेन भवितव्यम् ; न तु बहवो दण्डिन एषामिति 'बहुदण्डीनि' इत्यत्र, नैतदस्ति-यत्र हि प्रत्ययस्यैव ग्रहणं तत्रायं न्याय उपतिष्ठते, न चेदं प्रत्ययस्यैव ग्रहणम्, अन्यथा “वाग्मी” इत्यत्रापि दीर्घत्वाभावः स्यात्। ननु मा भूत् तत्रापि दीर्घत्वं का नो हानिरित्याह-अनिनस्मनित्यादि ।।८७ ।।
___ ल.न्यास-इन्-हनित्यादि। भ्रूणहानीति-हन्निति हन्तेः क्विबन्तस्येदं ग्रहणम्, न च हन्तेः केवलस्य क्विप् दृश्यते इति तदन्तमुदाहरति। बहुपूषाणीति-पूषार्यम्णः स्वप्रधानायां वृत्तौ शेरसंभवात् तौ समासे उपसर्जनभूतावुदाहरति-एषां शि-स्योरेवेति-एषामेव शि-स्योरिति विपरीतनियमस्तु न भवति “वंश्य-ज्याय०" (६.१.३) इत्यत्र युवेति “पराणि काना०" (३.३.२०) इत्यत्र तु पराणीति निर्देशात्। वृत्रहणाविति-संज्ञायां 'पूर्वपदस्था०" (२.३.६४) इत्यनेन, असंज्ञायां तु "कवर्गकस्वरवति” (२.३.७६) इति णत्वम्। तदन्तविधिमिति-ननु *अनिनस्मन् * इत्यत्रातोरनिर्देशात् अनर्थकेन तदन्तविधेरप्रयोगात् * अर्थवद्ग्रहण* न्यायात् ‘कियान्' इत्यत्रैव दीर्घः प्राप्नोति, न गोमानित्यादौ, सत्यम्अतुरनर्थकोऽपि तदन्तविधिं प्रयोजयति, मत्वादीनामुकारानुबन्धकरणात्, अन्यथा तेषामपि शतृवद् ऋकारमेवानुबन्धं कुर्यात् ।।८७ ।।
अपः ।१।४।८८॥ बृन्न्यास-अप इति। अपशब्दस्य बह्वर्थवाचित्वाद् द्विवचनैकवचने न सम्भवत इति बहुवचने एवोदाहरणमुपन्यस्तम्। आप्नोते: “आपः क्विप् हस्वश्च” (उणा० ९३१) इति क्विपि अपादेशे च अप्, ततो जसि अनेन दीर्घत्वे आपः, एवम्-शोभना आपो यस्य यत्र वा तदन्तविधेरिष्टत्वात् सावनेन दीर्घत्वे स्वाप्, एवमन्यदपि। बह्वय आपो येष्विति "पूजास्वतेः प्राक् टात्" (७.३.७२) इति समासान्तप्रतिषेधाभावात् “ऋक्पू:पथ्यपोऽत्” (७.३.७६) इति समासान्तेऽति तेन घुटो व्यवधानान भवतीत्याह-बह्वपा इत्यादि ।।८८।।
नि वा ।१।४।८९।। ___ बृन्यास-नि वेति। शोभना आपो येष्विति "पूजास्वतेः प्राक् टात्" (७.३.७२) इति समासान्तनिषेधाजसः शसो वा श्यादेशे “धुटां प्राक्” (१.४.६६) इति नागमेऽनेन पक्षे दीर्घत्वे स्वाम्पि, स्वम्पि ; एवम्-अत्याम्पि, अत्यम्पि। समासान्तविधेरिति