SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट- २ ૪૪૭ ल. न्यास-नि दीर्घ इति । राजेति स्यादिविधौ कर्तव्ये नलोपस्यासत्त्वात् प्रथमं लुक् न । सुग्नयतेः क्विबिति-स्रुचो हन्ति " अचित्ते टक्” (५.१.८३) अधिकरणे तु "स्थादिभ्यः कः " ( ५.३.८२) "गम-हन०" (४.२.४४) इत्यलुक्, “हनो ह्रो घः” (२.१.११२) दीर्घविधित्वाद् णेः स्थानिवद्भावो न भवति, सौ “नाम्म्रो नोऽनह्नः " (२.१.९१) इति नलोपः, ततः “पदस्य " (२.१.८९) इति घलोपः ।।८५ ।। न्स्-महतोः ।१।४।८६ ॥ बृ०न्यास—न्स्-महतोरिति। 'न्स्' इत्यत्र स्वरस्यासम्भवात्, घुटा प्रत्ययेन स्यादित्वादाक्षिप्तं नाम विशिष्यते, विशेषणे च तदन्तविधिः, महच्छब्दस्य च स्वरोऽस्त्येव न तत्र विशेषणात् तदन्तविधिरित्याह- न्सन्तस्येत्यादि । "मह पूजायाम्" अतः "द्रुहिवृहि-महि-वृषिभ्यः कतृः” (उणा० ८८४) इति कतृप्रत्यये महत्, महच्छब्दस्तावन्नामत्वं न व्यभिचरति, तत्संनियोगनिर्दिष्टस्य न्सन्तस्यापि नामत्वाव्यभिचारेणैव ग्रहणम् ||८६ ।। ल.न्यास-न्स्-महतोरिति-अत्र औणादिको " द्रुहिवृहि० " (उणा० ८८४) इत्यनेन कतृप्रत्ययान्तो व्युत्पन्नोऽव्युत्पन्नो वा महच्छब्दो ग्राह्यः, यस्तु शत्रन्तस्तस्य महत्रित्येव, न त्वनेन दीर्घः, लक्षण-प्रतिपदोक्तयोः ० इति न्यायात्, यतः शतृप्रत्ययान्तं महदिति रूपं लाक्षणिकं कतृप्रत्ययान्तं तु प्रतिपदोक्तम्, एतच वत्स ऋषभावूचतुः । सर्पीषीति अत्र "न्स्- महतोः " (१.४.८६) इत्यनेन दीर्घलक्षणे स्यादिविधौ विधातव्ये 'ण-षमसत् परे० " (२.१.६०) इत्यनेन षत्वमसत् । महत्साहचर्यादिति 'महत्' इति शुद्धो धातुः क्विबन्तो न सम्भवति, तत्साहचर्यादन्यस्यापि शुद्धधातोः क्विबन्तस्य न भवति, नामधातुस्तु महदपि क्विबन्तः संभवति, अतोऽन्यस्यापि नामधातोः क्विबन्तस्य भवति, महच्छब्दस्तावनामत्वं न व्यभिचरति, तत्संनियोगनिर्दिष्टस्य न्सन्तस्यापि नामत्वाव्यभिचारिण एव ग्रहणम् । महती कुले इति-श्रेयसः पश्य, श्रेयसी कुले इति तु न दर्श्यते, न्सन्तत्वाभावेन द्व्यङ्गविकलत्वात् ।।८६।। इन्- हन्- पूषा- ऽर्यम्ण: शि - स्योः । १।४।८७ ।। बृ० न्यास - इन्- हनित्यादि । "दमूच् उपशमे" अतः " पञ्चमाडुः " ( उणा० १६८) इति डे दण्डः, सोऽस्त्येषामिति *अतोऽनेकस्वरात्” (७.२.६) इतीनि जसः शसो वा शावनेन दीर्घत्वे दण्डीनि । “सृजंत् विसर्गे" सृज्यत इति “क्रुत्सम्पदादिभ्यः” (५.३.११४) इति क्विप्, "ऋत्विज्-दिश्-दृश्-स्पृश्- स्रज् ०" (२.१.६९) इत्यादिज्ञापकनिपातनाद् रत्वे स्रज् साऽस्ति येषामिति 'अस्तपो माया - मेधा-स्रजो विन्” (७.२.४७) इति विनि पूर्ववज्जसादौ स्रग्वीणि । वाग्ग्मीनीति प्रशस्ता वागेषामस्तीति "ग्मिन्" (७.२.२५) इति ग्मिनि। इनः प्रत्ययत्वेन केवलस्यासम्भवात् तदन्तस्य ग्रहणमित्याह - इनन्तस्येति । हन्निति हन्तेः क्विबन्तस्येदं ग्रहणम्, न च हन्तेः केवलस्य क्विब् दृश्यत इति तदन्तमुदाहरति-भ्रूणहानि, इत्यादि । भ्रूणपूर्वाद्धन्तेः "ब्रह्म-भ्रूण-वृत्रात् क्विप्” (५.१.१६१) इति क्विपि पूर्ववज्जसादौ भ्रूणहानि । बहवो भ्रूणहनो येषु कुलेषु इति बहुव्रीहौ बहुभ्रूणहानि। पूषाऽर्यम्णोः स्वप्रधानायां वृत्तौ शेरसम्भवात् तावुपसर्जनसमस्तावुदाहरति- बहुपूषाणि, इत्यादि । नन्विन्नादीनां नान्तत्वात् शि-स्योर्घुट्त्वात्, “नि दीर्घः " (१.४.८५) इत्यनेनैव दीर्घः सिध्यति, किमनेनेति ? उच्यते-सिद्धे सत्यारम्भो नियमाय इति नियमार्थत्वादित्याह - नियमार्थं वचनमिति। नियमश्चेह द्विधा सम्भवति इन्- हन्-पूषाऽर्यम्णां शि-स्योरेव, इन्- हन्- पूषा - ऽर्यम्णामेव शि-स्योरिति, तत्र पाश्चात्ये नियमे शि-स्यो - रिन्नादिभ्योऽन्येषां दीर्घनिवृत्तिरिन्नादीनां पुनः सर्वत्र दीर्घप्रवृत्तिरिति “नि वा " (१.४.८९ ) " अभ्वादेरत्वसः सौ" (१.४.९०) इति चेन्नादिभ्योऽन्यस्य शि-स्योर्दीर्घारम्भोऽनर्थकः स्यात् तस्मात् पूर्वक एव नियम इत्याह-एषामिति । यद्येषां शिस्योरेव दीर्घ इति नियमसामर्थ्यादेव दीर्घो न भविष्यति (तर्हि) किम् " अहन्पञ्चमस्य०" (४.१.१०७) इत्यत्र हन्वर्जनेन ? न च घुट्प्रकरणत्वात् घुट्येव दीर्घस्य नियमेन निवृत्त्या भाव्यं नान्यत्रेति 'वृत्रहणि' इति सप्तम्येकवचने "ई ङौ वा " (२.१.१०९) इत्यलोपाभावपक्षे “अहन्पञ्चमस्य क्वि- क्ङिति" (४.१.१०७) इति दीर्घप्रसङ्ग इति वाच्यम्, योगविभागात्, 'इन्- हन्-पूषा-ऽर्यम्णः' इत्येको योगः, 'शि-स्योः '
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy