________________
४२२
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન प्राप्तोऽनेन विकल्प्यत इति प्राप्तविकल्पोऽवगन्तव्य इति। अस्त्रिया इत्यत्र स्त्रीतिशब्दप्रधानो निर्देश इत्याह-अस्त्रिया इत्यादि। धियै इति-"ध्य चिन्तायाम्" अतः “दिद्युददृज्जगज्जुहू०" (५.२.८३) इति निपातनात् क्विपि धी, ततो ङितामनेन पक्षे दायाद्यादेशे “धातोरिवर्णोवर्णस्य०" (२.१.५०) इति इयादेशः। तत्र (भुवै इति-) भवतेः क्विपि भू, शेषं पूर्ववत्। (पृथुश्रियै इति-) "प्रथिष् प्रख्याने" अत: “राम-प्रथिभ्यामृञ्च रस्य" (उणा० ७३०) इति किदुप्रत्यये रेफस्य ऋत्वे पृथु । आध्यै, प्रध्यै इत्यादि-एतेषु "धातोरिर्वणोवर्णस्य०" (२.१.५०) इति इयुवपवादौ “क्विब्वृत्ते०" (२.१.५८) इति "दन्पुनर्वर्षाकारै०" (२.१.५९) इति च यकार-वकारौ भवत इति नेयुक्सम्बन्धिनावीदूताविति पूर्वेण नित्यमेव कार्यमिति। ननु चाध्यै प्रध्यै इति यद्यपि यकारेण इयादेशो बाध्यते तथापि 'धियो, धियः' इत्यादावियभावादियसम्बन्धी ईकार इति शक्यं व्यपदेष्टुम् उच्यते-भेदाश्रयणाददोषः, यदाऽस्य स्थाने इयादिर्भवति तदासावियादेरीदादिः, न चान्यस्मिन् भवत्यसावियादेरीदादिस्तयोरभेदप्रसङ्गादिति विकल्पो न भवति। यवान् क्रीणाति क्विपि, कटेन प्रवत इति “दिद्युददृ०" (५.२.८३) इति क्विपि निपातनाञ्च यवक्री, कटप्रू, ततश्चतुर्थ्येकवचने इयादेशे स्त्रीदूत इति वचनाद् दै-दासाद्यभावे यवक्रिये, कटप्रवे। ननु 'स्त्रिय' इत्यादौ असत्यप्यनेन विकल्पे कथं पूर्वेण नित्यमादेशः? यतः परत्वादियुवादिभावादीदन्तत्वाभावादप्रवृत्तिरेवेत्याह -अस्त्रिया इत्यादि ।।३०।।
__ ल.न्यास-वेयुव इत्यादि। नित्यमपीत-कोऽर्थः-तन्मते "स्त्रीदूतः” इत्यत्रापि समासार्थस्य स्त्रीत्व एव भवति। आध्ये (प्रध्ये) आध्यायति प्रध्यायति आदधाति प्रदधाति इत्येवंशीलाया बुद्धेर्वाचकौ वर्षाभूवद् नित्यस्त्रीलिङ्गो आधी-प्रधीशब्दो, क्रियाशब्दत्वेन सर्वलिङ्गत्वाद् ग्रामण्यादिशब्दवनित्यस्त्रीविषयौ नेति चिन्त्यमेतदित्येके ।।३०।।
आमो नाम् वा ।१।४।३१।। बृन्यास-आम इत्यादि। अत्र ङिस्थानस्य सानुबन्धत्वादपरस्य चासम्भवात् स्याद्यधिकाराञ्च षष्ठीबहुवचनस्यैवामो ग्रहणमित्याह-आमः षष्ठीबहुवचनस्येति। श्रीशब्दानाम् (प्रत्यन्तरे श्रीशब्दानाम) छन्दस्येवेति वृद्ध्या येञ्चन्द्रः (?) (वृद्धाः, यञ्चन्द्रः-) श्रियाम्, श्रीणाम् इति तु व्यवस्थितविभाषया छन्दस्येव। अथ किमर्थमिदं यावतोत्तरसूत्रेणैवामो नाम् सिद्ध एवेत्याहउत्तरेणेत्यादि ।।३१।।
ल.न्यास-आमो नाम् वेति। षष्ठीबहुवचनस्येति-अत्र ङिस्थानिकस्य सानुबन्धत्वादपरस्य चासम्भवात् स्याद्यधिकाराञ्च षष्ठीबहुवचनस्यैवामो ग्रहणम् ।।३१।।
ह्रस्वाऽऽपश्च ।१।४।३२॥ बृन्यास-हस्वेत्यादि। अथ 'श्रीणाम्, श्रियाम्' इत्यत्राप्यनेन परत्वानित्यं नामादेशः कुतो न भवति? सत्यमित्यत आह -स्त्रीशब्दवर्जितयोरित्यादि-विशेषविहितत्वेनापवादत्वादिति शेषः। सोमं पिबतीति विचि सेनां नयतीति क्विपि ततः षष्ठ्यामामि "हस्वापश्च" (१.४.३२) इति वचनान्नामादेशाभावे "लुगातोऽनापः" (२.१.११७) इति “क्विब्वृत्तेरसुधियस्तौ" (२.३.५८) इति च कृते सोमपाम्, सेनान्याम्, इति ।।३।।
ल.न्यास-हस्वेत्यादि। पूर्वेण विकल्प एवेति इयुवस्थानित्वेन विशेषविहितत्वादिति शेषः ।।३२।।
संख्यानां ष्र्णाम् ।१।४।३३।। बृन्यास-संख्यानामित्यादि। रश्च षश्च नश्च गस्तेषां र्णामिति शब्दनिर्देशः, संख्यानामिति त्वर्थनिर्देशः, सङ्ख्या ह्येकत्वादिरर्थः, तत्र शब्दार्थयोः सामानाधिकरण्याभावादुपचारात् सङ्ख्यार्थाः शब्दाः सङ्ख्यापदेनाऽऽश्रीयन्ते; अथवा संख्यायते