________________
परिशिष्ट-२
૪૨૩
आभिरिति “उपसर्गादातः" (५.३.११०) इति करणे “करणा-ऽऽधारे" (५.३.१२९) इति परमप्यनटं बाधित्वा बहु(ल)वचनादङि आपि च सङ्ख्या, (इति संख्याशब्देन) एकादयः शब्दा एवोच्यन्त इत्याह-सङ्ख्यावाचिनां शब्दानामिति। चतुर्शब्दादनेनामो नामादेशे "रघुवर्णा०" (२.३.६३) इति यथासम्भवं णत्वे “दिर्हस्वरस्य०" (१.३.३१) इति च द्विर्भावे चतुर्णाम्, एवम्-पञ्चन्सप्तन्शब्दाभ्यामामो नामादेशे “दीर्घो नाम्यतिसृ०" (१.४.४७) इति दीर्घत्वे नलोपे पञ्चानाम्, सप्तानामिति। प्रियचतुराम् इत्यादि-प्रियाश्चत्वारो येषामित्यादि विगृह्य र्णामिति षष्ठ्यास्तत्सम्बन्धिविज्ञानादन्यपदार्थसम्बन्धित्वादामो नामादेशाभावः। प्रियपञ्चाम् इत्यत्र तु आमि “अनोऽस्य" (२.१.१०८) इत्यकारलोपे “तवर्ग०" (१.३.६०) इति नकारस्य ञकारः। ननु त्रिंशदादयः शब्दा: सङ्घन्येयेष्वपि वर्तमाना आरोपितसङ्ख्याभावेष्वेव वर्तन्त इति तत्राप्येकवचनान्ता एव भवितुमर्हन्ति, कथं बहुवचनान्ताः? एकशेषात्, तथाहि-त्रिशब्दाद् दशदर्थे वर्तमानात् “विंशत्यादयः" (६.४.१७३) इति निपातनात् शत्प्रत्यये त्रिशब्दस्य त्रिम्भावे च त्रिंशत्, ततः
त्रिंशञ्च त्रिंशञ्च त्रिंशतस्तासां त्रिंशताम्, एवम्-चत्वारिंशताम् इति। अथाष्टन-शब्दादामि परत्वात् "वाऽष्टन आः स्यादौ' (१.४.५२) इत्याकारे नान्तत्वाभावात् कथं नाम्भावोऽत आह-बहुवचनमिति ।।३३।।
ल.न्यास-संख्यानामित्यादि । र् च ष् च न् च तेषां र्णाम्, “तवर्गस्य०" (१.३.६०) इति णत्वम्, "रघुवर्ण०" (२.३.६३) इति तु न एकपदत्वाभावात्, “वोत्तरपदान्त०" (२.३.७५) इत्यपि न, यतः षकारो न पूर्वपदस्थः किन्तु मध्यमपदस्थः, तर्हि रेफः पूर्वपदस्थोऽस्ति तदपेक्षया णत्वं भवतु, न-“पदेऽन्तरे०" (२.३.९३) इति निषेधात्। ननु ामिति शब्दनिर्देशः, संख्या चैकत्वादिरर्थः, ततः शब्दा-ऽर्थयोः सामानाधिकरण्यं न संगच्छते, सत्यम्-उपचारात् सङ्ख्यार्थाः शब्दाः संख्याशब्देनाभिधीयन्ते; यद्वा संख्यायते आभिरिति “उपसर्गादातः" (५.३.११०) इति “करणा-ऽऽधारे" (५.३.१२९) इति परमप्यनटं बाधित्वा बहुलवचनादङि आपि च संख्याशब्देनैकादयः शब्दा एवोच्यन्ते इति। त्रिंशतामिति-ननु च त्रिंशदादयः शब्दाः संख्येयेष्वपि वर्तमानाः “विंशत्याद्याशताद् द्वन्द्वे" (लिङ्गानुशासन०-२.६) इति वचनात् एकत्वे एव वर्तन्त इत्यत्रैकवचनान्ता एव भवितुमर्हन्ति, कथं बहुवचनम्? सत्यम्-एकशेषात्-त्रिंशञ्च त्रिंशञ्च त्रिंशच त्रिंशतः। अष्टानामितिअथाऽष्टनशब्दादामि परत्वाद् “वाऽऽष्टन०" (१.४.५२) इत्याकारे नान्तत्वाभावात् कथं नामभावोऽत आह-भतपर्वेति ।।३३।।
वेस्त्रयः ।१।४।३४॥ बृन्यास-प्रेरित्यादि। आम इति वर्तते, तदत्र त्रेरित्यस्य स्थानिनो विशेषणमित्याह-आमः सम्बन्धिन इत्यादि-आमः सम्बन्धित्वं च त्रेरर्थद्वारकम्, यस्मादामः सम्बन्धी रथस्ततः स आम इत्युच्यते। त्रिशब्दस्यामि अनेन त्रयादेशे “ह्रस्वापश्च" (१.४.३२) इति नामि णत्वे च त्रयाणाम्। विशेषणसमासे परमत्रयाणाम्, आमः सम्बन्धीति। अतित्रीणाम् इति प्रादिसमासः। प्रियत्रीणाम् इति बहुव्रीहिः । अथ तिसृणामिति स्त्रीलिङ्गेऽपि त्रयादेशसामग्र्या विद्यमानत्वात् त्रयादेशः कस्मान्न भवतीत्याह-स्त्रियामित्यादि ।।३४।।
ल.न्यास-रेस्त्रय इति। आमः सम्बन्धिन इति-सम्बन्धस्योभयनिष्ठत्वात् आमः सम्बन्धिन इत्यपि युक्तम्, आमः सम्बन्धित्वं च त्रेरर्थद्वारकम्, यस्मादामः सम्बन्धी त्रेरर्थस्ततः स आम इत्युच्यते; आमः सम्बन्धीति कार्यकारणभावे षष्ठी, त्रिशब्दः कारणम्, आम् च कार्यम्, यतस्त्रिशब्दबहुत्वे आम् ।।३४।।
एदोद्भ्यां ङसि-ङसो रः ।१।४।३५।। बृन्यास-एदोद्ध्यामित्यादि। * व्याख्यानात् * “ङसेश्चाद्” (२.१.१९) इत्यादिज्ञापकाद्वा चतुर्थ्या वाक्यार्थस्याघटनात् तृतीयाद्यभावनिश्चये पञ्चम्येवेयमित्याह-एदोड्यां परयोरिति । ननु वचनाभेदार्थमुभयत्र समाहारेतरेतरयोगौ कस्मात्र कृतौ? नह्यसति प्रयोजने वचनभेदो युक्त इत्याह-वचनभेद इत्यादि-अन्यथा निमित्त-निमित्तिनोः समानत्वादेकाराद् ङसेरोकाराच ङसो रेफ इति यथासंख्यं स्यादित्यर्थः ।।३५।।