SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४२० શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન न ना डिदेत् ।१।४।२७।। बृन्यास-न नेत्यादि । प्रतिषेधस्य प्राप्तिपूर्वकत्वात् सर्वत्र प्रतिषेधे तद्विधानवैयर्थ्यप्रसङ्गाद्, अन्यस्य निष्प्रमाणकत्वाद्, अनन्तरोक्तस्य केवलसखि-पतेरित्यस्यैव ग्रहणमित्याह-केवलसखि पतेरिति। सखि-पतिशब्दाभ्यां टायां ङिति चानेन नादेशस्य डिदेकारस्य च प्रतिषेधे यत्वादौ सख्या, (पत्या) इत्यादि भवति। आगतं स्वं चेति पञ्चमी-षष्ठ्येकवचनयो रूपस्य समानत्वात तद्व्यक्त्यर्थमनुप्रयोगः। डिदित्येतो विशेषणाभावात् सर्वप्रत्ययेऽप्येकारस्य प्रतिषेधः स्याद् विशेषाभावादित्याह-डिदितीति। मतान्तरमुपन्यस्यति-बहुप्रत्ययपूर्वेत्यादि ।।२७।। ल.न्यास-न ना डीत्याद। सखि-पतेर्ना-डिदेता सह न यथासंख्यं “खि-ति-खी-ती०" (१.४.३६) इति सूत्रे खिग्रहणात् “सख्युरितो." (१.४.८३) इति निर्देशाद् वा। सख्याविति-अत्रादेशे कृते “ङित्यदिति" (१.४.२३) इति प्राप्नोति, न तु पूर्वम्, यतस्तद्बाधकं "ङिडौं" (१.४.२५) ततोऽपि “केवलसखि०" (१.४.२६) इति औत्वम्, ततः तदादेशः इति न्यायात् स्यादित्वे सति एत्वं प्राप्तं निषिद्धम्।।२७ ।। स्त्रिया डितां वा दै-दास्-दास्-दाम् ।१।४।२८।। बृन्न्यास-स्त्रिया इत्यादि। स्त्रिया इति विशेषणस्य विशेष्यसापेक्षत्वात् सखि-पति(शब्दा)भ्यां परेषां ङितां "खि-तिखी-तीय उर्” (१.४.३६) इत्येवमादिभिर्विशेषविधिभिराघ्रातत्वात् दित्करणस्य तु प्रयोजनवत्त्वात् सामान्यमिदुदन्तमधिकृतं निमित्तं गम्यत इत्याह-इदुदन्ताच्छब्दादिति। इह षष्ठीमन्तरेण तत्सम्बन्धिविज्ञानाभावात् सामान्यमवगम्यत इत्युक्तम्-तत्सम्बन्धिनामन्यसम्बन्धिनां चेति। दकारस्याप्रयोगिणः प्रयोजनमाह-दकार इत्यादि। (मुष्ट्ये इत्यादि-) “मुषश् स्तेये" इत्यतः क्तौ “तेहादिभ्यः" (४.४.३३) इति नियमादिडभावे “तवर्गस्य०” (१.३.६०) इति टत्वे मुष्टिः। “इषत् इच्छायाम्" अत: “पृ-का-हषि-धृषीषि०" (उणा० ७२९) इति किदुप्रत्यये इषुः । “शुच शोके" अतो “नाम्युपान्त्य०" (उणा० ६०९) इति किदिप्रत्यये शुचिः। “पट गतौ" अतो "भृ-मृ-तृ-त्सरि०" (उणा० ७१६) इत्युप्रत्यये पटुः। “अशश् भोजने" अतः “सदि-वृत्यमि०" (उणा० ६८०) इत्यनिप्रत्ययेऽशनिः। "शक्लट शक्तौ” अत: “कृपि-शकिभ्यामटि:" (उणा० ६३०) इत्यटि प्रत्यये ततः शकटिमतिक्रान्ताऽतिक्रान्तो वेति विग्रहेऽतिशकटिः । एष्विति-अयमर्थः-इदुदन्तानां समासावयवानां पत्यादिशब्दानां दै-दासादिकार्यनिमित्तानां स्त्रीत्वमस्तीति स्त्रीदुदन्तादादेशा इति। केचित् तु पूर्वं पश्चादपि स्त्रीवचन एवेच्छन्तीत्याह-अन्ये त्वित्यादि-अत्र तु 'अन्ये' इति (बहु)वचनाच्छास्त्रकर्तुरपि सम्मतम्, कथं तत् सिध्यतीति चेत्? उच्यते-वक्ष्यमाणसूत्रात् स्त्रीति विच्छेदात्, ततोऽयमर्थः-इदुदन्तात् स्त्रियां वर्तमानादादेशा भवन्ति, स्त्री चेदभिधेया भवति। 'स्त्रियाः' इत्यर्थान्तरसंक्रान्तेः पूर्वं स्त्रीत्वम्, 'स्त्री चेद्' अनेन संक्रान्तेः पश्चादिति। अन्ये त्वस्त्रीवचन एवेच्छन्ति, तन्मतस्य च भाष्यकृदादिविरुद्धतयाऽपास्यत्वादेकवचनेन निर्दिशति-अन्यस्त्विति ।।२८।। ल.न्यास-स्त्रिया ङितामित्यादि। “पत्युनः" (२.४.४८) इति निर्देशात् सखि-पती नानुवर्तते, स्त्रिया इति विशेषणस्य विशेष्यसापेक्षत्वात् सखि-पतिभ्यां परेषां ङितां “खितिखीतीय उर्" (१.४.३६) इत्येवमादिभिर्विशेषविधिभिराघ्रातत्वाद् दित्करणस्य तु प्रयोजनवत्त्वात् सामान्यमिदुदन्तमधिकृतं गम्यत इत्याह- इदुदन्ताच्छब्दादेति। कन्यापत्यै' इत्यादौ नपुंसके तु परत्वानागमे कन्यापतिनः कुलस्य "वाऽन्यत:०" (१.४.६२) इति कन्यापत्याः, कन्यापतेर्वा । अन्ये विति-चन्द्रेन्दुगोमिप्रभृतयः । अन्यस्त्विति-क्षीरस्वामी। मुनय इति-अत्र पुंस्त्रीत्वेऽपि पुंस्त्वमेव विवक्षितम् ।।२८।। स्त्रीदूतः ।१।४।२९।। बृन्यास-स्त्रीदूत इति-ईञ्च ऊञ्च ईदूत्, स्त्रियामीदूत् स्त्रीदूत्, ततो ङसिः, यद्येवं कृत्स्त्रियां धातुस्त्रियां च न सिद्ध्यतितन्त्र्य, लक्ष्म्यै, श्रियै, ध्रुवै, नहि तयोरीकारोकारो स्त्रियां विहितौ यथा ङ्यूडौ, तथाहि-"तन्त्रिण कुटुम्बधारणे" अत: "तृ-स्तृ-तन्द्रि
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy