________________
परिशिष्ट-२
४१५ टः पुंसि ना ।१।४।२४।। बृन्यास-टः पुंसीत्यादि। अत्र ट इति तृतीयैकवचनस्य स्थानित्वेनोपादानादिदुत इति षष्ठ्यन्तमपि अर्थवशात् पञ्चम्य-न्तमित्याह-इदुदन्तादिति। अमुनेति-अदसष्टायाम् “आ द्वेरः" (२.१.४१) इत्यत्वेऽकारस्य लुकि “मोऽवर्णस्य" (२.१.४५) इति मत्वे "मादुवर्णोऽनु” (२.१.४७) इति उत्वे चानेन नाऽऽदेशः। अथात्रात्वादी कृते उत्वविधेरन्विति वचनात् पूर्वमिनादेशेन भाव्यमित्यत आह-अत्रेत्यादि। बुद्ध्या, धेन्वा, इति-पुंसीति वचनादत्र न भवति। कथमिति-अदस्शब्दात् तृतीयैकवचनेऽत्वादौ पुंसीति वचनान्नपुंसके नादेशाभावे कथममुना इति रूपमित्यर्थः । समाधत्ते-अनामित्यादि ।।२४ ।।
डिौँ ।१।४।२५।। बृन्न्यास-डि विति। अथ कस्माद् डिरित्ययमभेदनिर्देशो यावता स्थानिन एकवर्णत्वादन्त्याभावात् स्थानषष्ठ्या भेद-निर्देशेऽपि न किञ्चिद् विनक्ष्यति, नैवम्-भेदनिर्देशे हि डेरिति रूपस्य साम्याच्चतुर्थंकवचनस्यापि प्रतिपत्तिः स्यादित्याहअभेदनिर्देश इत्यादि। डकारस्याप्रयोगिणः प्रयोजनमाह-डकार इत्यादि। बुद्ध्याम्, धेन्वाम्, इति-यद्यत्रादितीति नानुवर्तेत तदा दामादेशस्य स्थानित्वे तदव्यतिरेकात् तत्रापि स्यादित्यर्थः, यद्वाऽभेदनिर्देशस्याविकृतार्थत्वाद् विकृतस्य डेर्न भवति ।।२५।।
ल.न्यास-डि विति। बुद्ध्यामिति-ननु दाम्करणसामर्थ्यादेव डोर्न स्यात्, किं व्यावृत्तावदितीति दर्शनेन ? न-"ङित्यदिति" (१.४.२३) इत्येत्वनिषेधकत्वेन तस्य चरितार्थत्वाद् डौः स्यादिति व्यावृत्तिः सफला, यथा “इश्च स्था-दः" (४.३.४१) इत्यत्र सिचलोपविधायकत्वेन हस्वकरणस्य चरितार्थत्वे गुणबाधकं कित्करणम्, किञ्च, यथासंख्यार्थ “स्त्रिया ङिताम्०" (१.४.२८) इत्यत्र दाम्ग्रहणं कार्यम्, अन्यथा इदं सूत्रमन्यथा उत्तरं चान्यथा कार्य स्यात्, तथा च गरीयसी रचना स्यादिति ।।२५।।
केवलसखि-पतेरौः ।१।४।२६।। बृन्यास-केवलेत्यादि-अत्र समाहारद्वन्द्वाद् ङसिः । इदुत इत्यनुवृत्तावपि अनयोरुकारान्तत्वायोगाद् इदेव विशेषणमित्याह -इदन्ताभ्यामिति। सख्यौ, पत्यौ, इति-पूर्वस्य डोभावस्यापवादोऽनेन डेरोकारः। ननु पतिशब्दात् केवलादपि डेडॉरपि भवति, प्रयुज्यते च-"क्लीबे च पतिते पतौ” () इति, तत् कथमेतदित्याह-पतौ इति। कश्चिदित्येकवचननिर्देशोऽवज्ञार्थ इति। नन्वनयोरिकारान्तत्वेन व्यभिचाराभावादिदुदन्ताभ्यामिति विशेषणमनर्थकम्, यत्रापि क्यन्नादौ दीर्घोऽस्ति तत्रापि स्वरूपान्यथात्वान्न भविष्यति, नैवम्-तत्रैकदेशविकृतस्य तद्वद्भावात् स्यादित्याह-इत इत्यादि। प्रियसखौ इत्यादि-एतेष्वनयोः केवलग्रहणादन्यसहितयोरनेनौकाराभावात् पूर्वेणैव डोभावे “डित्यन्त्यस्वरादेः" (२.१.११४) इत्यन्त्यस्वरादिलोपः। अन्ये त्विति-आचार्यपाणिनिप्रभृतयः, ते हि धिसंज्ञाप्रस्तावे "पतिः समास एव" (पा० १.४.८) इति नियम्य बहुप्रत्ययपूर्वस्य पतिशब्दस्य समासाभावे धिसंज्ञाया अभावात् ततो विधीयमानो 'डौ' इत्यादेशो न भवतीति 'बहुपत्यौ' इत्येव स्यादित्याह- तन्मत इति ।।२६।।
ल.न्यास-केवलेत्यादि । कश्चिदिति-दुर्गसिंहश्रुतपालादिः । सख्यि इति-अत्र "स्थानीवावर्णविधौ" (७.४.१०९) इति न्यायात् क्विपः स्थानित्वे सति “य्वोः प्वय०" (४.४.१२१) इति यलोपः कस्मान भवति? * असिद्धं बहिरङ्गम् * इति न्यायात् अन्तरङ्गे क्विबाश्रिते कार्ये यत्वमसिद्धं द्रष्टव्यम्। अन्ये त्विति-शाकटायनादयः ।।२६ ।।