________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસ
૪૧૮
यद्यौकारे कृतेऽपि सखिपतिशब्दाभ्यामेनेन ईकारः स्यात् तदा प्रक्रियालाघवार्थं तत्रैव ईकारं विदध्यात्, अविहितश्चेति । स्त्रियमतिक्रान्तौ "गोश्चान्ते०" (२.४.९६) इति ह्रस्वे स्त्रिवर्जनादीकाराभावे इयादेशे चातिस्त्रियौ । कथमिति 'अतिशस्त्री पुरुषौ ' इत्यत्र शस्त्रीशब्दस्यार्थवत्वात् तदेकदेशस्य स्त्रिशब्दस्यानर्थकत्वात् प्रतिषेधाभाव इत्यर्थः । नन्वस्त्रेरिति प्रतिषेधोऽनर्थकः परत्वादतिस्त्रियावित्यत्रेयादेशेनैव भाव्यमत आह- इदमेव चेत्यादि । तेनेति "जस्येदोत्" (१.४.२२) "ङित्यदिति" (१.४.२३) "टः पुंसि ना” (१.४.२४) "ङिडौं” (१.४.२५) इत्यादीन्येव भवन्ति, न तु इयादेशः ।। २१ ।।
ल. न्यास - इदुत इत्यादि । स्त्रिवर्जनात् तत्सम्बन्धीति न सम्बध्यते । “षष्ठ्यान्त्यस्य " ( ७.४.१०६) इति निर्दिश्यमान० इति वा इदुतौ स्थानिनौ । विधानेति-अन्यथा ईकारमेव विदध्यात् । सहस्त्रयः “सहात् तुल्ययोगे” (७.३.१७८) कच्निषेधः ।।२१।।
जयेत् । १।४।२२।।
बृ०न्यास – जस्येत्यादि । इदुत इत्यनुवर्तत इत्याह- इदन्तस्योदन्तस्येति । यथासंख्यमभिसम्बन्धाद् “ आसन्नः” (७.४.१२०) इति वा इकारस्यैकारः, उकारस्यौकारः। “इवर्णादे०” (१.२.२१) इत्यस्यापवादेन तयोः कृतयोरय्-अवादेशौ भवतः ।। २२ ।।
ङित्यदिति । १ । ४ । २३ ।।
बृ०न्यास - ङित्यदीति न दित् अदित् तस्मिन्नदिति । 'मुनये, साधवे' इत्यादि पुल्लिङ्गोदाहरणम् । 'बुद्धये, धेनवे' इत्यादि स्त्रीलिङ्गोदाहरणम्। नपुंसके त्वसम्भवित्वान्न दर्शितम्, तत्र हि " अनाम्स्वरे नोऽन्तः " (१.४.६४) इत्यस्ति बाधक इति । 'बुद्ध्यै, धेन्वे' इत्यत्रादितीति प्रतिषेधाद् दै- दासादिषु एदोतौ न भवतः । नन्विकारोकारमात्रापेक्षत्वादन्तरङ्गत्वात् पूर्वमेव दो स्याताम्, आदेशस्य *स्त्रीविशेषेकारोकारापेक्षत्वाद् बहिरङ्गत्वात् कृतयोरप्येदोतोरिकारोकाराभावाद् वर्णविधित्वाच्च स्थानित्वाभावाद् दै-दासाद्यादेशाभावात् प्रतिषेधाभावः, न च तदन्तादेशविधानाद् अवर्णविधित्वात् स्थानित्वम्, अप्रधानेऽपि वर्णविधिप्रतिषेधात्, एवं तर्हि अनवकाशत्वात् पूर्वं दैप्रभृत्यादेशाः प्रवर्तन्ते पश्चाददितीति प्रतिषेधः, तथापि इदुत्सन्निपातेन जायमानत्वाद् दै-दासाद्यादेशेनैव एदोद्बाधो भविष्यतीत्यदितीति प्रतिषेधो व्यर्थः, यद्येवं यत्वमपि न प्राप्नोति तस्माददितीति प्रतिषेधो वर्णविधावियं परिभाषा नोपतिष्ठत इति ज्ञापनार्थः । शुचि-पटुशब्दाभ्याम् “इतोऽक्त्यर्थात् " (२.४.३२) 'स्वरादुतो० ' (२.४.३५ ) इति च ङीप्रत्यये स्याद्यधिकाराद् ङित्वेऽप्येदोदभावे च शुची पट्वी ।। २३ ।।
ल.न्यास-ङित्यदिति। धेनवे धीयते पयोऽस्या इति बाहुलकाद् अपादाने "धेः शित्" (उणा० ७८७) इति नुः, कर्मणि तु क्यः स्यात्। नपुंसकत्वे त्वसंभवित्वान्न दर्शितम्, तत्र हि “अनाम्स्वरे० " (१.४.६४) इति नान्तेन भाव्यम्। बुद्ध्यै इत्यादि-नन्विकारोकारमात्रापेक्षत्वेनान्तरङ्गत्वात् पूर्वमेव एदोतौ स्याताम्, न दायाद्यादेशाः, तेषां स्त्रीत्वविशिष्टेकारोकारापेक्षत्वेन बहिरङ्गत्वात्, कृतयोरप्येदोतोरिकारोकाराभावाद् वर्णविधित्वाच्च स्थानित्वाभावाद् दै दासाद्यादेशाभावात् प्रतिषेधो न युक्तः, न च तदन्तादादेशविधानाद् अवर्णविधित्वात् स्थानित्वम्, अधा वर्णविधिप्रतिषेधात्, एवं तर्हि अनवकाशत्वात् पूर्वं दैप्रभृतय आदेशाः प्रवर्तन्ते पश्चाददितीति प्रतिषेधः, तथापि इदुत्संनिपातेन जायमानत्वाद् दैदासाद्यादेशेनैव एदोद्द्द्बाधो भविष्यतीत्यदितीति प्रतिषेधो व्यर्थः, यद्येवं यत्वमपि न प्राप्नोति, तस्माददितीति प्रतिषेधो वर्णविधावयं न्यायो नोपतिष्ठत इति ज्ञापनार्थः, तेन दै- दासादिषु कृतेषु एदोतौ न भवतः, यत्वं तु भवति ।। २३ ।।
* ला. सू. सम्पादितपुस्तके 'पुं-स्त्रीविशेष...' इति पाठो वर्तते ।