________________
૪૧૬
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન तावत्सङ्ख्यत्वात् यथासङ्ख्येन प्रवृत्तिरित्याह-डितां डे-ङसि-ङस्-डीनां स्थाने यथासंख्यमिति। खट्वाशब्दाद् डे-ङसिङस्-डीनां स्थानेऽनेन यायाद्यादेशेषु खट्वाय, खट्वायाः, खट्वायाः, खट्वायाम् इति, एवम्-बहवो राजानो यस्यामित्यादिविग्रहे "ताभ्यां वाऽऽप्डित्" (२.४.१५) इति डिदापि “डित्यन्त्यस्वरादेः" (२.१.११४) इत्यन्त्यस्वरादिलोपे पूर्ववद् ङितां यायाद्यादेशे बहुराजाय इत्यादि। करीषस्येव गन्धो यस्य स करीषगन्धः, तस्यापत्यं वृद्धं स्त्रीति “अत इञ्" (६.१.३१) इतीजि तस्य "अनार्ष" (२.४.७८) इत्यादिना ध्यादेशे "आत्" (२.४.१८) इत्यापि पूर्ववद् यैप्रभृत्यादेशे कारीषगन्ध्याय इत्यादि। “कील बन्धे" अतः "ऋ-कृ-मृ-वृ-तनि०" (उणा० ४७५) इत्यालप्रत्यये कोलालम्, तत्पूर्वात् पिबतेर्विचि चतुर्येकवचने पकारकारणाद् यायादेशाभावे "लुगातोऽनापः” (२.१.१०१) इत्याकारलोपे कीलालपे। बहवः खष्ट्वा यस्येति विगृह्य “गोश्चान्ते०” (२.४.९६) इति ह्रस्वत्वे तस्य स्थानिवद्भावेऽपि चतुर्थंकवचनस्य तत्सम्बन्धित्वाभावाद् यायादेशाभावे बहुखट्वायेति। ईषदपरिसमाप्ता खट्वेत्यर्थे “नाम्नः प्राग् बहुर्वा” (७.३.१२) इति प्राग् बही डेस्तत्सम्बन्धित्वाद् यायादेशे बहुखट्वायै विष्टराय विपूर्वात् स्तृणातेरचि गुणे “वे: स्त्रः" (२.३.२३) इति षत्वे “तवर्गस्य०" (१.३.६०) इति टत्वे विष्टरः, ततश्चतयेकवचनम ।।१७।।
ल.न्यास-आपो ङितामित्यादि। आबन्तेति-पूर्वसूत्रेषु सर्वादेरव्यभिचारेऽपि उत्तरसूत्रे सर्वादिग्रहणाद् इह सामान्यमवगम्यते। कारीषगन्ध्याये इति-ननु अणि अणन्तत्वात् “अणजेये०" (२.४.२०) इति, इजि तु “नुर्जातेः" (२.४.७२) इति ङीः प्राप्नोति, नैवम्अत्र ष्यादेशः समजनि, “अणजेयेकण्०" (२.४.२०) इति सूत्रे तु स्वरूपस्याणो ग्रहणं न ष्यादेशरूपस्य, एतत् व्याख्यानतो लभ्यते, इञस्तु इकारान्तस्य ङीरुक्तः ।।१७।।
सर्वादेर्डस्पूर्वाः ।१।४।१८॥ बृन्यास-सर्वादेरित्यादि। (डस्पूर्वा इति-) डस्पूर्वो येभ्यस्ते डस्पूर्वा भवन्तीति, डकारो डित्कार्यार्थः। सर्वशब्दादापि डे-ङसि-ङस् डीनां स्थाने पूर्वेण यैप्रभृत्यादेशेऽनेन डस्पूर्वत्वेऽन्त्यस्वरादिलोपे च सर्वस्यै, सर्वस्याः, सर्वस्याः, सर्वस्याम्, एवम्परमसर्वस्यै इत्यादि। इदम्शब्दाञ्चतुर्थंकवचनादौ “आ द्वेरः" (२.१.४१) इत्यत्वे "लुगस्यादेत्यपदे" (२.१.११२) इत्यकारलोपे "आत्” (२.४.१८) इत्यापि “आपो ङितां०” (१.४.१७) इति यायाद्यादेशे “अनक्” (२.१.३६) इत्यदादेशेऽनेन डस्पूर्वत्वे "डित्यन्त्यस्वरादेः" (२.१.११४) इत्यकारलोपे अस्यै, अस्याः, अस्याः, अस्याम् इति। अथात्र यायाद्यादेशे कृते सर्वादित्वेन तत्पृष्ठभावित्वात् डसि कृते व्यञ्जनादित्वाभावात् कथमदादेश इत्याह-परत्वादित्यादि। तीयस्येति-"तीयं ङित्कार्ये वा” (१.४.१४) इत्यनेनेति शेषः। प्रियसर्वाय इत्यादि-प्रियाः सर्वा यस्याः, सर्वा अतिक्रान्ता, दक्षिणस्याश्चेत्यादि विगृह्य “सर्वादयोऽस्यादौ" (३.२.६१) इति यथासम्भवं पूर्वस्य पुंवद्भावे चतुर्थ्येकवचनादेः पूर्वेणैव यैप्रभृत्यादेशः, एतेषु क्वचिदन्यपदार्थप्रधानत्वात्, क्वचित् पूर्वपदार्थप्रधानत्वादुपसर्जनत्वेन सर्वादेस्तत्सम्बन्धित्वाभावाद् यप्रभृतीनां तत्पूर्वो डस् न भवतीत्याह-एष्वित्यादि। यद्येवमितियधुपसर्जनत्वेन सर्वादेस्तत्सम्बन्धित्वाभावस्तदा 'दक्षिणपूर्वस्यै' इत्यादावप्यन्यपदार्थप्रधानत्वेन सर्वादिसम्बन्धित्वाभावात् कथं डसादेश इति प्रश्नार्थः। समाधत्ते-दक्षिणा चासावित्यादि। पुनः पृच्छति-अथेत्यादि-'त्वकं पिताऽस्य, अहकं पिताऽस्य, द्वको पुत्रावस्य, कके सब्रह्मचारिणोऽस्य' इत्यादि विगृह्य त्यदादेर्बहुव्रीहावुपसर्जनत्वेनाप्रधानत्वात् कथं "त्यादिसर्वादेः” (७.३.२९) इत्यक् समाधत्ते-अन्तरङ्गत्वादिति-अयमर्थः-अन्तरङ्गत्वात् सर्वाद्यभिधाननिमित्तेनाका तावद् भाव्यम्, पश्चात् पदान्तरसन्निधाने वर्ति(पदार्थविशेषणान्य) पदार्थविवक्षायां बहुव्रीहिणेत्यनुपसर्जनत्वात् प्राप्नोत्यगित्यदोषः। अन्ये त्विति-ते हि “न बहुव्रीहौ" इति सूत्रमारभ्य तद्वैयर्थ्यप्रसङ्गाद् बहुव्रीहिविषयभूते वाक्येऽपि सर्वादिकार्यस्याकः प्रतिषेधमिच्छन्तः कप्रत्ययमेवेच्छन्ति, तन्मते-त्वत्कपितृकः, मत्कपितृकः, इति स्यात् ।।१८।।