________________
परिशिष्ट-२
૪૧૫ अवर्णस्याऽऽमः साम् ।१।४।१५।। बृन्न्यास-अवर्णेत्यादि। आमः सन्ति बहवः, तथाहि-"आपो ङितां०” (१.४.१७) इति यामेकदेशः, “परस्परान्योऽन्येतरेतरस्य०" (३.२.१) इति स्यादिस्थानकः, “धातोरनेकस्वराद्" (३.४.४६) इति च, “स्त्रिया ङितां०" (१.४.२८) इति च दामेकदेशः, तत्र यामेकदेशस्यामोऽनर्थकत्वादग्रहणम्, परस्पराद्यामः सामादेशे तत्रैव सामेवोच्येत, नह्यामादेशं कृत्वा सामवचने किञ्चित् प्रयोजनमस्ति, प्रक्रियागौरवं च परिहतं भवति, अन्यस्तु धातोविधीयमानः सर्वादेर्न सम्भवत्येव, “कर्तुः क्विप्०" (३.४.२५) इति क्विप्प्रत्ययान्ततायां सम्भवेऽपि स्यादेरित्यधिकारादपास्यते, दामेकदेशस्तु अवर्णान्तस्य सर्वादेर्न सम्भवत्येव इति पारिशेष्यात् षष्ठीबहुवचनस्यैव ग्रहणमित्याह-षष्ठीबहुवचनस्याम इति सर्वेषाम्, विश्वेषाम्, इति-सर्व-विश्वशब्दाभ्यामनेन सामादेशे “एद् बहुस्भोसि" (१.४.४) इत्येत्वे “नाम्यन्तस्था०" (२.३.१५) इति सस्य षत्वम्। अथात्रावर्णसन्निपातेन जातः सामादेशः कथं तद्विघातहेतोरेत्वस्य निमित्तं स्यादित्याह-सत्रिपातेत्यादि। सर्वविश्वशब्दाभ्याम् “आत्" (२.४.१८) इत्यापि अनेनाऽऽमः सामादेशे सर्वासाम्, विश्वासाम्, इति। द्विशब्दात् “द्वि त्रिभ्यामयट" (७.१.१५२) इत्ययटि सर्वादित्वाभावादामः सामभावे “हस्वापश्च" (१.४.३२) इति नामादेशे द्वयानाम्, एवम्-तत एव “अवयवात् तयट्” (७.१.१५१) इति तयटि, आमि, सर्वादित्वाभावान्नामादेशे द्वितयानाम्। कथमित्याशङ्कते-यद्ययडादिप्रत्ययान्तस्य सर्वादित्वं नास्ति तत् कथं द्वयेषाम्' इत्यत्र तत् कार्यमित्याशङ्काऽर्थः । परिहरति-अपपाठ एष इति ।।१५।।
ल.न्यास-अवर्णस्येत्यादि। परस्पराद्यामः सामादेशे तत्रैव सामादेश एवोच्येत, नह्यामादेशं कृत्वा सामवचने किञ्चित् प्रयोजनमस्ति, प्रक्रियागौरवं च परिहतं भवति, परोक्षादेशस्तु आम् धातोविधीयमानः सर्वादेर्न संभवति, “कर्तुः क्विप्०" (३.४.२५) इति क्विप्प्रत्ययान्ततायां संभवेऽपि स्यादेरित्यधिकारान्निरस्यत इत्याह-षष्ठीति।
"संमूर्च्छदुच्छृङ्खलशङ्खनिस्वनः स्वनः प्रयाते पटहस्य शाङ्गिणि। सत्त्वानि निन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीभृताम्"।।
(शिशुपालवधे, स० १२. श्लो० १३) माघोक्तम् ।।१५।।
नवभ्यः पूर्वेभ्य इ स्मात् स्मिन् वा ।१।४।१६।। बृन्यास-नवभ्य इत्यादि। 'नवभ्यः पूर्वेभ्यः' इति बहुवचनात् पूर्वादयो विज्ञायन्त इत्याह-पूर्वादिभ्य इति-पूर्वशब्दमादिं कृत्वा नवग्रहणादन्तरशब्दपर्यन्तेभ्य इत्यर्थः । पूर्वादयश्च ‘इ स्मात् स्मिन्' इति कार्यानुवादाद् ग्रहणस्यैव च (गणस्यैव च) प्रस्तुतत्वाद् गणसंनिविष्टा एव गृह्यन्ते, न संज्ञोपसर्जनीभूता इत्याह-यथास्थानमित्यादि । पूर्वशब्दाद् जस्-ङसि-ङीनाम् इ-स्मात्-स्मिनो विभाषया भवन्तीति पूर्वे, पूर्वाः इत्युदाहतम्, एवमन्यत्रापि। त्यद्शब्दाद् जस्-ङसि-ङिषु अत्वादौ कृते 'नवभ्यः' इति वचनाद् विकल्पाभावे नित्यमिकारादिषु कृतेषु त्ये, त्यस्मात्, त्यस्मिन् इति। यदि पूर्वेभ्य इति नोच्येत तदा पूर्वादय एव नवेति न स्यादिति सर्वादावपि विकल्पः स्यात् ।।१६।।
आपो डितां यै-यास्-यास्-याम् ।१।४।१७।। बृन्यास--आपो डितामित्यादि। पूर्वसूत्रेषु सर्वादेरव्यभिचारेऽप्युत्तरसूत्रे सर्वादिग्रहणादिह सामान्यमवगम्यत इत्याहआबन्तसम्बन्धिनामिति। यैप्रभृत्यादेशानां चतुष्ट्वात् ङिच्छब्दपरिगृहीतानां चतुर्थी-पञ्चमी-षष्ठी-सप्तम्येकवचनानामादेशिनामपि