________________
४००
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન डित्यसि श्वस् अनन्तरमागामिदिने। “कमूङ् कान्तौ" "शमूच् उपशमे" आभ्याम् “गमि-जमि-क्षमि-कमि-शमि-समिभ्यो डित" (उणा० ९३७) इत्यमि कम् उदकमाकाशं च, शम् सुखम्। “यमूं उपरमे" अत: "यमि-दमिभ्यां डोस्" (उणा० १००५) इति डित्योसि योस् विषयसुखम्। “मयि गतौ" "अस्" (उणा० ९५२) इत्यसि मयस् सुखम्। “ओहांक् त्यागे" अतो विपूर्वात् "समिण-निकषिभ्यामाः" (उणा० ५९८) इति बाहुलकादाप्रत्यये यसागमे च विहायसा अन्तरिक्षे। यथाकथञ्चिद् व्युत्पत्तिरियं वर्णा-नुपूर्वीनिर्ज्ञानार्था, एवमन्यत्रापि। रुदे: "तृ-स्तृ-तन्द्रि-तन्त्र्यविभ्य ई:" (उणा० ७७१) इति बहुवचनाद् ईप्रत्यये असागमे च रोदसी द्यावा-पृथिव्यौ। अवतेः “अवेर्मः" (उणा० ९३३) इति मे “मव्यवि-श्रि-वि०" (४.१.१०९) इत्यूटि गुणे च ओम् ब्रह्मणि अभ्या-दान-प्रतिश्रवणाऽभिमुखीकरणेषु च। “भू सत्तायाम्" इत्यतः "मिथि-रज्युषि-तृ-शृ-भू-वष्टिभ्यः कित्" (उणा० ९७१) इत्यसि उवादेशे पृषोदरादित्वादकारलोपे च भूस्, भुवस् यथाक्रमं नाग-मनुष्य-लोकवाचकौ। सुपूर्वात् “असक् भुवि" इत्यतः "सोरस्तेः शित्" (उणा० ६५०) इति तिप्रत्यये स्वस्ति अविनाशनाम (कल्याणम्)। (सम्पूर्वात् ‘इंण्क् गतौ' इत्यस्मात् निपूर्वात् कष हिंसा-याम्' इत्यस्माञ्च) “समिण-निकषिभ्यामाः” (उणा० ५९८) इत्याकारे गुणे च समया, निकषा सामीप्ये। अन्तं रातीति "डित्" (उणा० ६०५) इत्याप्रत्यये अन्तरा विनार्थे मध्ये चाधेयप्रधाने। "पुरत् अग्रगमने" "दिवि-पुरि०" (उणा० ५९९) इति कित्याप्रत्यये पुरा भूत-भविष्यत्परीप्साचिरन्तनेषु। “बहुङ् वृद्धौ" "बंहि-बॅहेर्न लुक् च" (उणा० ९९०) इति इसि बहिस् असंवृते प्रदेशे। अवे: “अवेर्वा" (उणा० ९६१) इत्यसि विकल्पेन धादेशे च अवस् बहिरर्थे, अधस् सामीप्यादौ। नञः संप्रपूर्वात् तमे: “गमि-जमि-क्षमि-कमि-शमि-समिभ्यो डित्" (उणा० ९३७) इति बहुवचनाद् डित्यमि निपातनात् समो दीर्घत्वे "नजत्" (३.२.१२५) इति नञोऽ-कारे च असाम्प्रतम् अनौचित्ये। विस्मितार्थाद्पूर्वाद् दधातेर्डित्याप्रत्यये अद्धा अवधारण-मत्यतिशययोः। "ऋक् गतौ" अत: "शी-री-भू-दू-मू-घृ-पा०" (उणा० २०१) इति किति ते निपातनाद् मान्तत्वे ऋतम् शुद्धौ। “असक् भुवि" इत्यत: “शिक्यास्याढ्य-मध्य-विन्ध्य०" (उणा० ३६४) इति यप्रत्यये निपातनात् सतादेशे च गणपाठाद् मागमे च सत्यम् प्रश्नप्रतिषेधयोः। इत्पूर्वाद् दधाते-डित्याकारे इद्धा प्राकाश्ये। "मुच्छंती मोक्षणे" अत: "मुचि-स्वदेर्ध च" (उणा० ६०२) इति कित्याप्रत्यये धादेशे च मुधा निनिमित्त-प्रीतिकरणयोः। "मृषीच तितिक्षायाम्" अत: “दिवि-पुरि-वृषि-मृषिभ्यः कित्" (उणा० ५९९) इत्याप्रत्यये मृषा अनृतम्। "वृषू सेचने" मृषावद् वृषा प्रबलमित्यर्थः । “मिथग मेधा-हिंसयोः" अतः “वृ-मिथि-दिशिभ्यस्थय-ट्याश्चान्ताः” (उणा० ६०१) इति कित्याप्रत्यये यागमे च मिथ्या अनृतम्। मिथेर्बाहुलकात् कित्योकारे मिथो रह:सहार्थयोः । मिथे: "पृ-का-हषि०" (उणा० ७२९) इति कित्युकारे मिथु स्वाङ्गे । मिथे: "मिथि-रज्युषि०" (उणा० ९७१) इति कित्यसि मिथस् विजन-वियोगेतरेतरार्थेषु। मिथे: “मुहि-मिथ्यादेः कित्" (उणा० १०००) इति कित्युसि मिथुस् संगमे। मिथे: “पिशि-मिथिक्षुधिभ्यः कित्" (उणा० २९०) इति कित्युने निपातनाद् मान्तत्वे मिथुनम् स्त्री-पुंसयुगे। नञ्-निपूर्वात् शमे: “गमि-जमि-क्षमि०" (उणा० ९३७) इति डित्यमि प्रत्यये अनिशम् निरन्तरे। “मुहीच वैचित्ये" अत: “मुहिमिथ्यादे:०" (उणा० १०००) इति कित्युसि मुहुस् आभीक्ष्ण्ये। अभि-पूर्वाद् "ईक्षि दर्शने" अत: "भ्रूण-तृण-गुण०" (उणा० १८६) इति णे निपातनाद् मागमे अभीक्ष्णम् पुनः पुनरित्यर्थः । 'टुमस्जोत् शुद्धौ" "मस्नीष्यशिभ्यः सुक्" (उणा० ८२६) इति सुकि, "मस्नेः सः" (४.४.११०) इति नागमे बाहुलकाच्च नस्य लोपाभावे च मङ्क्ष “झट संघाते" अत: "प्लु-ज्ञा-यजि-षपि-पदि-वसि-वितसिभ्यस्ति:" (उणा० ६४६) इति बहुवचनात् तिप्रत्यये बाहुलकादिटि च झटिति शैघ्यावेतौ। (न्युत्पूर्वात् “अञ्चूग् गतौ च" इत्यस्मात्) “न्युझ्यामञ्चः ककाकैसष्टावच्च" (उणा० १००३) इति कित्यैसि “अञ्च प्राग् दीर्घश्च" (२.१.१०४) इति चकारादेशे यथायोगं दीर्घत्वे च "अञ्चोऽनर्चायाम्" (४.२.४६) इति नलोपे उछस् उत्कृष्टार्थे सप्तम्यर्थप्रधानः, तृतीयार्थश्चेत्येके, नीचैस् अवकृष्टे। (शम्पूर्वात् 'णींग् प्रापणे' इत्यतः) “शमो नियोडैस् मलुक् च" (उणा० १००४) इति शनैस् क्रियामान्द्ये। अवपूर्वात् श्यायते: “गमि-जमि-क्षमि०" (उणा० ९३७) इत्यत्र बहुवचनाद् डित्यमि अवश्यम् आवश्यके। “षोंच् अन्तकर्मणि" अत: "नी-सा-वृ-यु-श्री०" (उणा० ६८७) इति मौ सामि अर्द्धम्। “पचि सेचने"