________________
परिशिष्ट - २
૪૦૧
" अतः कमि वमि० " ( उणा० ६१८) इत्यत्र बहुवचनाद् णिति इकारे उपान्त्यवृद्धौ साचि तिर्यगर्थम् । विपूर्वात् सुवते : क्विपि ‘उपसर्गात् सुग्-सुव०” (२.३.३९) इति षत्वे विषूः, तत्पूर्वादञ्चतेर्बाहुलकादौणादिके क्विपि विष्वक् (विष्वच्) नानात्वम्। अनुपूर्वादञ्चेः पूर्ववत् क्विपि अन्वक् (अन्वच्) पश्चादर्थे । “त्यजं हानौ” “ढुं गतौ” “खुं गतौ " एभ्यः " द्रागादयः " ( उणा० ७८०) इति किकि निपातनाद् यलोप(पाSS ) त्वादौ कृते ताजक् शीघ्रार्थे, द्राक् शैघ्ये, स्राक् एवार्थे । “ऋधूच् वृद्धौ” “प्रथिष् प्रख्याने " इत्याभ्याम् "ऋषि-पृथि-भिषिभ्यः कित्" ( उणा० ८७४ ) इत्यजि निपातनात् कत्वे ऋधक् वियोग- शीघ्रान्वित - सामीप्यलाभेषु, पृथक् वियोगे । दधातेर्द्रागादित्वात् किकि धिक् निन्दार्थे । “हिंट् गति-वृद्ध्योः" "ज्युङ् गतौ" "मनिंच ज्ञाने" एभ्यो द्रागादिनिपातनात् किकि हिरुक् वियोगे, ज्योक् शीघ्र संप्रत्यर्थयोः, मनाक् ईषदप्राप्तयोः । “ईषि गत्यादौ” अतः "संश्चद्वेहत्साक्षादादयः " ( उणा० ८८२) इति निपातनात् कति ईषत् अल्पे । "जुषैति प्रीति सेवनयोः " अतः " सोरेतेरम्" ( उणा० ९३४ ) इति बाहुलकादमि जोषम् अस्याप्यो - कारात् प्राग् यागमे ज्योषम्, "तूष तुष्टौ" अतः "तूषेरीम् णोऽन्तश्च ” ( उणा० ९४०) इति ईम् णागमे च तूष्णीम् एते त्रयोऽप्यव्याहरणे। “कमूङ् कान्तौ” अतः पूर्ववदमि कामम् निपूर्वाद् निकामम् प्रपूर्वात् प्रकामम् एते त्रयोऽप्यतिशयार्थे । “ऋक् गतौ” “वृग्ट् वरणे” “पॄ पालनपूरणयोः " एभ्यः पूर्ववदमि गुणे च अरम् शीघ्रे, वरम् मनागिष्टे, परम् केवले । “चिंग्ट् चयने" अस्माद् “ऋज्यजितञ्चि०” (उणा० ३८८) किति रे अत एव निर्देशाद् मागमे च चिरम् दीर्घकाले । आङ्पूर्वाद् “रांक् आदाने” अतः “संश्च
वेहत्साक्षादादयः” (उणा० ८८२) इति निपातनात् कति आलोपाभावे आरात् दूर-समीपयोः । “तृ प्लवन-तरणयोः” अतः “मिथिरञ्जयुषि-तृ-पृ०” (उणा० ९७१) इति किदसि प्रत्यये “ऋतां क्ङितीर् ” ( ४.४.११६) इति इरादेशे च तिरस् अन्तद्धर्यवज्ञा-तिर्यग्भावेषु। मन्यतेः “अस्” (उणा० ९५२) इत्यसि मनस् नियमे । “णमं प्रहृत्वे " पूर्ववदसि नमस् नतौ । भवते: “मिथि - रञ्ज्युषि० " (उणा० ९७१) कित्यसि बाहुलकाद् यागमे च भूयस् पुनरर्थे । प्रपूर्वाद् “इंण्क् गतौ” अतोऽसि प्रायस् बाहुल्ये । प्रपूर्वाद् “वहीं प्रापणे" अतः "मि-वहि-चरि चटिभ्यो वा " ( उणा० ७२६) इति णित्युकारे उपान्त्यवृद्धौ प्रबाहु ऊर्ध्वार्थे । प्रबाहुशब्दस्यैव गणपाठात् कान्तत्वं प्रबाहुक् अध्वर्यौ । प्रबाहुपूर्वात् कंमेः “गमि-जमि क्षमि कमि-शमि समिभ्यो डित्" (उणा० ९३७) इत्यमि डित्यन्त्यस्वरादिलोपे प्रबाहुकम् (प्रीतिबन्धे) । "ऋक् गतौ” इत्यस्य "शिक्यास्याढ्य० " ( उणा० ९६४) इति निपातनाद् ये वृद्धौ च आर्य प्रीतिसंबोधने। “हल विलेखने" अतो बाहुलकात् " सोरेतेरम्" ( उणा० ९३४) इत्यमि हलम् प्रतिषेध-विषादयोः, समस्तमित्येके। (सुपूर्वात् “इंण्क् गतौ" इत्यतः) "सोरेतेरम्" ( उणा० ९३४) इत्यमि स्वयम् आत्मनोऽर्थे । “अली भूषणादौ" बाहुलकादमि अलम् भूषणपर्याप्त-वारणेषु । “कैं शब्दे” अतः “पृ-का- हृषि-धृषि०" (उणा० ७२९) इति कित्युकारे कु पापार्थे । बलं वातीति “संश्चद्वेहत्साक्षादादयः " ( उणा० ८८२) इति निपातनात् कति प्रत्यये “इडेत्पुसि चातो लुक् " (४.३.९४) इति आलुकि बलवत् निर्भरे। अतिपूर्वाद् वातेः " अ: " ( उणा० २) इत्यप्रत्यये बाहुलकाद् दीर्घत्वे आकारलोपे च अतीव अतिशये । सु-दुर्थ्यां तिष्ठतेः “दुःस्वपवनिभ्यः स्थः " ( उणा० ७३२) इति कित्युप्रत्यये सुष्ठु, दुष्ठु प्रशंसा - निन्दयोः । “ऋक् गतौ” अतः “शी-री-भूदू-मू-घृ-पा-धाग्-चित्यर्त्यञ्जि-पुसि मुसि- वुसि - विसि-रमि-धुर्वि - पूर्विभ्यः कित्" ( उणा० २०१ ) इति तप्रत्यये बाहुलकादेत्वे ऋ वियोगे । संपूर्वात् “पदिंच् गतौ” अतः “पदि पठि० " ( उणा० ६०७ ) इति इप्रत्यये गणपाठात् समो मलोपे सपदि द्रुते । समीक्ष्यते इति “संश्चद्वेहत्साक्षादादयः” (उणा० ८८२) इति कति साक्षादेशे साक्षात् प्रत्यक्षतुल्ययोः । “षन भक्तौ" अतः "गृ-पृ-दुर्वि-धुर्विभ्यः क्विप्" (उणा० ९४३) इति बहुवचनात् क्विपि बाहुलकाद् दीर्घत्वाभावे सन् परित्राणे । प्रपूर्वाच्छमेः पूर्ववत् क्विपि उपान्त्यदीर्घत्वे गणपाठान्मकारस्य नकारे प्रशान् चिरन्तने । “षन भक्तौ " अतः "संश्चद्वेहत्साक्षादादयः " ( उणा० ८८२) इति कति प्रत्यये निपातनात् प्रत्ययाऽकारस्याऽऽकारे सनात् हिंसायाम् । अस्यैव कति सनत्, “समिण् निषिभ्यामाः " ( उणा० ५९८) इति बाहुलकादाप्रत्यये सना(च) नित्ये । न आनयति तादात्म्यमिति डित्याप्रत्यये नखादित्वाद् नाना पृथग्भावे । विनयति निषेधति विधिमिति डित्याप्रत्यये विना योगप्रतिषेधे । “क्षमौषि सहने " अतः “सनि-क्षमि-दुषेः " ( उणा० ६०४ ) इत्याप्रत्यये क्षमा सहने । “शुभि दीप्तौ "