________________
परिशिष्ट-२
3८८ नास्तीतरेतराश्रयतेति; नैवम्-अर्थोऽपि कैश्चित् (तद्योतकविभक्तिलोप)शास्त्रादेवानुगम्यत इतीतरेतराश्रयत्वादयुक्तम्। अस्तु तर्हि प्रयोगेऽश्रूयमाणविभक्तिशब्दोऽव्ययम्। न च दधि मध्विति प्रयोगो(गे)ऽश्रूयमाणविभक्तित्वादतिप्रसङ्गः, 'दनि' इत्यादौ विभक्तिश्रवणात्। नन्वत्रापीतरेतराश्रयं भवति, इतरेतराश्रयं च न कल्पते, तदप्ययुक्तम्-वृद्धव्यवहारादेव शब्दार्थसंबन्धावगमाद् एकत्वादिव्यवहारवदलिङ्गासंख्यत्वमप्यव्ययार्थस्यावगम्यते, तथाहि-इदं तावदयं प्रष्टव्यः-'यद्यपि तावद् वैयाकरणा विभक्तिलोपमारभमाणा अविभक्तिकान् शब्दान् प्रयुञ्जते, ये त्वेते वैयाकरणेभ्योऽन्ये मनुष्याः कथं तेऽविभक्तिकान् शब्दान् प्रयुञ्जते' इति?, (नन्ववैयाकरणैः संख्याया अज्ञानादेव तद्वाचकविभक्तिर्न प्रयुज्यत इत्यत आह-) अभिज्ञाश्च पुनलौकिका एकत्वादीनाम् (अर्थानाम्)। अतश्चाभिज्ञाः-अन्येन हि वस्नेन (मूल्येन) एकं गां क्रीणाति, अन्येन द्वौ, अन्येन त्रीन्। अभिज्ञाश्च न च प्रयुञ्जते, तदेतदेवं संदृश्यताम्-अर्थरूपमेवैतदेवंजातीयकं येनात्र विभक्तिर्न भवतीति, विभक्त्यर्थ-क्रियाप्रधानत्वादव्ययानामिति। तथा तद्धिता अपि केचिद् विभक्त्यर्थप्रधानाः 'तत्र, यत्र' इत्यादयः, केचित् क्रियाप्रधानाः 'नाना, विना' इत्यादयः, “वि-नभ्यां नानाजी०" (पा० ५.२.२७) इति परवचनात्। शब्दशक्तिस्वाभाव्याञ्च एकस्मिन्नेवार्थे विधीय-मानयोः “टस्तुल्यदिशि" (६.३.२१०) "तसिः" (६.३.२११) इत्यण् तस्योभिन्नधर्मत्वम्। तत्र पैलुमूलमिति द्रव्यं (पीलुमूलसमान-दिस्थितमिति हि तत्र बोधः) प्राधान्येनाभिधीयते, पीलुमूलत इति तु द्रव्योपसर्जनस्तृतीयार्थ इति तस्य साधनप्रधानता (द्रव्योपसर्जन इति-तसिप्रत्ययाभिधेयद्रव्योपसर्जनः प्रकृत्यभिधेयस्तृतीयार्थ इत्यर्थः, तृतीयार्थश्च तत्र साहित्यम्, पीलुमूलेनैकदिक् पीलुमूलतः, एकदिक्स्थपीलुमूलसाहित्यमित्यर्थः। अन्ये तु-पीलुमूलेन समानदिशीत्यर्थकमधिकरणशक्तिप्रधानं पीलुमूलत इत्याहुः, इति नागेशः)। न चैतयोरर्थयोलिङ्ग-संख्यायोगोऽस्ति, तदभावे विभक्त्यभावादितरेतराश्रयाभाव(वः) स्यात्, एतदेवं यद्यव्ययानां द्वैविध्यमेव स्यात्, तथाहि-'किञ्चिदव्ययं क्रियाप्रधानम्, किञ्चित् साधनप्रधानम् ; अन्यत् तु नापि क्रियाप्रधानम्, नापि साधनप्रधानम्, यथा स्वः पश्य(श्ये)ति।' 'लोहितगङ्गं देशः' इत्यव्ययीभावस्याप्यव्ययत्वं प्रतियन्ति केचन इति। यदाह श्रीशेषाहि:-“स्वरादीनां पुनः सत्त्व-वचनानां चाव्ययसंज्ञा" इति, तस्माद् यथान्यासमेवास्तु “स्वरादयोऽव्ययम्” इति। ननु भवत्वेवं तथाऽपि संज्ञाविधौ तदन्तविधि-प्रतिषेधस्य ज्ञापितत्वाद् *नामग्रहणे न तदन्तविधिः * इति प्रतिषेधाञ्च कथं तदन्तस्य 'परमोच्चैः' इत्यादौ संज्ञेत्याह-अन्वर्थाश्रयणे चेति, अयमर्थः-यदन्वर्थसंज्ञाकरणाद् द्वितीयमुपस्थापितमव्ययमिति, तद्विशेष्यत्वेन विज्ञायते, तस्य स्वरादिविशेषणत्वेन, ततश्च “विशेषणमन्तः" (७.४.११३) इति न्यायात् तदन्तविज्ञानात् केवलस्य व्यपदेशिवद्भावेन 'परमोच्चैः' इत्यादावपि संज्ञा विज्ञायत इत्यर्थः। ननु स्वरादौ किञ्चिच्छक्तिप्रधानं किञ्चित् क्रियाप्रधानम्, तथाहि-उच्चैःप्रभृतीनां सप्तम्यर्थवृत्तेवीभक्त्यर्थप्रधानता, हिरुक्-पृथक्प्रभृतीनां क्रियाविशेषणत्वात् क्रियाऽर्थप्रधानता, उपपन्नश्च क्रियापदमन्तरेणापि क्रियापदाक्षेपात् 'पृथग् देवदत्तः' इत्यादि प्रयोगः । शक्ति(क्ते:)क्रियायाश्चासत्त्वरूपत्वात् स्वरादीनां चादिष्वेव पाठो न्याय्यः, नैवम्-चादीनामसत्त्ववचनानामव्ययसंज्ञाः स्वरादीनां सत्त्व-वचनानामसत्त्ववचनानां च, तथाहि-स्वस्ति वाचयति, स्वः पश्यतीति(श्येति) क्रियासंबन्धेऽनेकशक्तिदर्शनात् सत्त्ववाचित्वमवसीयते। किञ्च यदि चादिष्वेव स्वरादीनां पाठः स्यात् ततश्च “चादिः स्वरोऽनाङ्” (१.२.३६) इत्येषामपि सन्धिप्रतिषेधः स्यात्। स्वरिति-सुपूर्वादतः “सोरत्तै क् च" (उणा० ९४६) इत्यरि धातो कि च, स्वरतेर्वा विचि गुणे च स्वर् स्वर्गः। “अम गतौ" 'षन भक्तौ" "पृश् पवने" एभ्यः “पू-सन्यमिभ्यः पुन-सनुतान्ताश्च" (उणा० ९४७) इत्यरि 'अन्त-सनुत-पुन' आदेशे च अन्तर्, सनुतर् मध्य-कालवाची (अन्तर्मध्ये, सनुतः कालवाची), पुनर-भूयोऽर्थे। “प्रादतेरर्" (उणा० ९४५) इति (प्रपूर्वाद्) अतेररि प्रातर् प्रभाते। “षोंच् अन्तकर्मणि" अत: “स्यतेर्णित्" (उणा० ९३६) इत्यमि “आत ऐः कृञौ" (४.३.५३) इत्यत्वे आयादेशे च सायम् दिनावसानम्। “न(ण)शौच् अदर्शने" इत्यतः “नशि-नूभ्यां नक्त-नूनौ च” (उणा० ९३५) इत्यमि नक्तादेशे च नक्तम् रात्रौ। बहुलवचनादस्यतेस्तमि अस्तम् नाशे, यथा-अस्तं गतः सविता। दिव्यतेः “दिवि-पुरि-वृषिभ्यः कित्" (उणा० ५९९) इत्याप्रत्यये दिवा अहनि। “दुषंच् वैकृत्ये" अत: “सनि-क्षमि-दुषेः” (उणा० ६०९) इत्याप्रत्यये गुणे च दोषा रात्रौ पर्युषिते च। “ओहांक् त्यागे" अतः “पा-हाक्भ्यां पयह्यौ च" (उणा० ९५३) इत्यसि ह्यादेशे च ह्यस् अनन्तरातीतदिने। “श्वसक् प्राणने" बाहुलकात्