________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન 390 यद्येवं दीर्घपाठोऽपि व्यर्थः, सामान्याश्रयणेनैव तस्य लब्धत्वात्, उच्यते-व्यक्तिरप्यस्तीति *जाति-व्यक्तिभ्यां च शास्त्रं प्रवर्त्तते* इति ज्ञापनार्थम्। तथा परिस्फुटभेदत्वादनुनासिकादिषु त्वभेदाध्यवसायाद् दीर्घपाठः, नियतविषयत्वात् तु परिस्फुटभेदः स्यादिति प्लतस्य बहुवचनेन परिग्रह इत्याह-बहुवचनमिति। यद्येवं द्रुतायां वृत्तौ मध्यविलम्बितयोः, मध्यायां द्रुतविलम्बितयोः, विलम्बितायामितरयोः परिस्फुटभेदत्वाद् बहुवचनेनासंग्रहीतत्वान्न संज्ञाव्यवहारः। तथाहि-द्रुतं श्लोकमृतं(च) वोच्चारयति वक्तरि नाडिकाया यस्या नव पानीयपलानि स्रवन्ति, तस्या एव मध्यमायां द्वादश फलानि स्रवन्ति, तस्या एव विलम्बितायां वृत्तौ षोडश फलानि, त्रिभागाधिकत्वात् तासां परिस्फुट एव भेदः (यस्या नाडिकाया इति, सुषुम्नाया इत्यर्थः । पलानि बिन्दवः । ब्रह्माण्डसम्बद्धा सामृतबिन्दुस्राविणीति प्रसिद्धिोगिनाम्
"अभ्यासार्थे द्रुता वृत्तिः प्रयोगार्थे तु मध्यमा।
शिष्याणामुपदेशार्थे वृत्तिरिष्टा विलम्बिता।" ।।१४।।) न च वक्तव्यम्-सर्वासु वृत्तिषु न वर्णानामुपचयापचयौ, यथा-गन्तृणामालस्यादिभेदाद् गतिभेदेऽपि न मार्गभेद इति, विषमत्वादुपन्यासस्य, यतः प्रयत्नजन्या वर्णाः, तद्भेदे वृत्तिभेदाद् भिन्नकाला एव, अध्वा तु व्यवस्थित एव गन्तृक्रियागम्यः (न गन्तृक्रियाजन्यः) इति न तस्य भेद इति। ननु चोक्तं जातिसमाश्रयणाद् दोषाभाव इति, तत्र पात्तोऽपि विशेषो नान्तरीयकत्वाजातिप्राधान्यविवक्षायां न विवक्ष्यत इत्यर्थः। यद्येवं संवृतादीनां प्रतिषेधो वक्तव्यः । (संवृतादयस्तु-) संवृतः, कलः, मातः, एणीकृतः, अम्बूकृतः, अर्धकः, ग्रस्तः, निरस्तः, प्रगीतः, उपगीतः, क्ष्विण्णः, रोमशः, अवलम्बितः, निर्हतः, सन्दष्टः, विकीर्ण इत्यादयः। तत्र-एकारादीनां संवृतत्वं दोषः न त्वकारस्य, तस्य स्वरूपेण संवृतत्वात्, तत्र सन्ध्यक्षरेषु विवृततमेषचार्येषु संवृतत्वं दोषः। (कैयटाभिप्रायेणेदम्, ग्रन्थान्तरे तु-अत्राऽकारादीनामिति वक्तुमुचितं तत्त्यागेन तावत् पर्यन्तधावने बीजाभावादिति छाया)। कलः स्थानान्तरनिष्पन्नः काकलित्वेन प्रसिद्धः। ध्यातः श्वासभूयिष्ठतया हस्वोऽपि दीर्घ इव लक्ष्यते। एणीकृतो विश्लिष्टः (अविशिष्ट इति कैयटे)-किमयमोकारोऽथौकार इति यत्र सन्देहः। अम्बूकृतो यो व्यक्तोऽपि अन्तर्मुखमिव श्रूयते। अर्द्धको दीर्घोऽपि हस्व इव। यस्तो जिह्वामूले निगृहीतः, अव्यक्त इत्यपरे। निरस्तो निष्ठुरः। प्रगीतः सामवदुञ्चारितः। उपगीतः समीपवर्णान्तरगीत्याऽनुरुक्तः। क्ष्विण्णः कम्पमान इव। रोमशो गम्भीरः। अवलम्बितो वर्णान्तरसम्भिन्नः। निर्हतो रूक्षः। सन्दष्टो वर्द्धित इव। विकीर्णो वर्णान्तरे प्रसृतः, एकोऽप्यनेकनिर्भासीत्यपरे। अनन्ता हि स्वराणां दोषा अशक्तिप्रमादकृता इति। न वक्तव्यः, एषां क्वचिदप्यनुपदेशात्। तथाहि -केवलानां वर्णानां लोके प्रयोगाभावाद्, धातु-विकारा-ऽऽगम-प्रत्ययानां च शुद्धानां पाठात्, तत्स्थत्वाञ्च वर्णानां न कश्चिद् दोषः। यान्यपि नामान्यग्रहणरूपाणि डित्यादीनि तेषामपि शिष्टप्रयुक्तत्वेनोणादीनां पृषोदरादीनां च साधुत्वानुज्ञानात् सर्वेषामत्र संग्रहाद् (संग्रहः) न च तेष्वपि कलाधुपदेशोऽस्ति, इत्यनुपदेशात् तेषां व्युदासः । यदाह
_ "आगमाश्च विकाराच प्रत्ययाः सह धातुभिः।
उद्यार्यन्ते य(त)तस्तेषु नेमे प्राप्ताः कलादयः" ।।१५।। इति। संज्ञाधिकारमन्तरेणापि संज्ञासूत्रमिदं परिशिष्यते। तत्र पूर्वोपात्ताः संज्ञिनः परा च संज्ञा, प्रसिद्धः संज्ञी अप्रसिद्धा (च) संज्ञा, लोकोऽप्यस्य पिण्डस्येदं नामेति, आवर्तिनी च संज्ञा आवर्त्तते “इवर्णादेरस्वे स्वरे यवरलम्" (१.२.२१) इत्यादौ। तथा साकाराः संज्ञिनो निराकाराश्च संज्ञा इति। तत्र औदन्ता इति संज्ञिनः पूर्वोपात्तत्वात्, स्वरा इति संज्ञा। स्वयं राजन्त इति “क्वचिद्" (५.१.१७१) इति डे पृषोदरादित्वात् ("पृषोदरादयः" ३.२.१५५) स्वराः, एकाकिनोऽप्यर्थप्रतिपादने समर्था इति। सतोऽपि भेदस्याविवक्षितत्वात् संज्ञिनः प्रथमा, यथा-पुरुषोऽयं देवदत्त इति। स्वरप्रदेशा इति प्रदेशः प्रयोजनस्थानम्, संज्ञया हि संज्ञिनः प्रदिश्यन्ते उञ्चार्यन्तेऽत्रेति कृत्वेति ।।४।।