________________
परिशिष्ट-२
૩૬૯ तन्नान्तरीयकत्वेन, न त्ववयवानां समुदायकार्यभाक्त्वेन। ननु तथाऽपि 'अग्ने इन्द्रम्' इत्यादौ यत्रावयवकार्य (प्राप्नोति समुदायकार्य च) तत्रान्तरङ्गत्वात् तत्र च साक्षाचोदितत्वात् प्रत्यक्षत्वाद् वाऽवयवकार्यप्रसङ्गः; अवयवावगतिपूर्वकत्वाद्धि समुदायावगमस्य समुदायकार्य बहिरङ्गम्; अयादीनां त्ववकाश ‘अग्ने आयाहि' इति। नन्वत्राप्यवयवस्य यादेशेन भाव्यमिति चेद्, न-*येन नाप्राप्ते* इति यकारादेशस्यैवायादयो बाधकाः स्युः । तत्र यथा 'दधीन्द्र' इत्यत्र दधिशब्दस्थ इकारः समानदीर्घत्वं प्रतिपद्यते, एवमेकारस्थोऽपि प्रतिपद्येत। नैवम्-अवयवानां तिरोहितत्वात्, समुदायकार्ये च पारतन्त्र्यात् स्वकार्यस्याप्रयोजकत्वाद् नरसिंहवज्जात्यन्तरयोगाद् वा वर्णान्तरसारूप्येण तत्कार्याप्रवर्त्तनादप्रसङ्गोऽवयवकार्यस्येति।
नन्विह शास्त्रे वर्णोपदेशप्रयोजनवशः (वर्णोपदेशः प्रयोजनवशात्) लवर्णोपदेशस्य न किमपि प्रयोजनमुत्पश्यामः, लुकारस्तावत् कृपिस्थ एव प्रयोगी दृश्यते, न च तत्र स्वरत्वे किमपि फलमस्ति, लुकारस्य तु सर्वथा प्रयोगासम्भव एव, नैवम्-कृपिस्थस्यापि लुकारस्य 'क्लृप्तः', 'क्लृप्तशिख!' इत्यादौ द्वित्व-प्लुतादेः स्वरकार्यस्य दर्शनात्। तथाहि-“अदीर्घाद् विरामैकव्यञ्जने" (१.३.३२) “दूरादामन्त्र्यस्य गुरुवैकोऽनन्त्योऽपि लनृत्" (७.४.९९) इत्यादिना द्वित्व-प्लतादिकार्यम्। तत्र स्वरस्याधिकृतस्या(त्वाद)सति स्वरत्वे न स्यादिति। किञ्च, जाति-गुण-क्रिया-यदृच्छाभेदाञ्चतुष्टयी शब्दानां प्रवृत्तिः। तत्रानपेक्षितार्थगतप्रवृत्तिनिमित्ते यदृच्छाशब्दे 'दध्य्लतकाय देहि', 'मध्व्लुतकाय देहि' इत्यादौ स्वरत्वस्य यत्वादिकमपि प्रयोजनमस्ति। साधुत्वं चास्य स्वरूपमात्रनिबन्धनत्वेन निवर्तकशब्दान्तराभावात्। न च ऋतकशब्दः शास्त्रान्वितः तृतकशब्दं निवर्त्तयति, तदर्थस्य तेन प्रत्याययितुमशक्यत्वात्। समाने चार्थे शास्त्रान्वितोऽशास्त्रान्वितं निवर्तयति, यथा-गवादिशब्दो गाव्यादीन्। ऋतकार्थे एव च प्रयुज्यमानस्याऽस्याऽपभ्रंशरूपत्वेनाऽसाधुत्वम्, यतः स एव हि शब्दः क्वचिदर्थविशेषे साधुरन्यथा त्वसाधुः। यथाऽस्वे(अश्वे)ऽस्वशब्दो धनाभावनिमित्तकः साधुः, जातिनिमित्तकस्त्वसाधुः । गवि च गोणीशब्दो गोणीसाधर्म्यात् प्रयुक्तः साधुः, जातिप्रयुक्तस्त्वसाधुरित्यर्थवान् लवर्णोपदेशः। सन्ति वाऽव्युत्पन्ना यदृच्छाशब्दाः, ते च पारम्पर्यागताः शिष्टप्रयुक्ता एव संज्ञात्वेन विधेयाः, न गाव्यादयः । तथाऽशक्तिजानुबन्धानुकरणे (जानुकरणे) भिन्नार्थत्वेन शब्दान्तरत्वात् शिष्टप्रयुक्तत्वात् तदन्यसाधुशब्दवत् साधुरूपे 'कुमालतक' इत्याह मृलकारमधीते' इत्यादावपि स्वरत्वस्य यत्वादिकम्। न च प्रतिषिद्धानुकरणत्वादिदमसाधु, यथा-एवमसौ गां हतवान्, एवमसौ सुरां पीतवानित्यनुकुर्वन् गां हन्यात्, सुरां पिबेत्, सोऽपि पतितो भवतीति; यतोऽत्र सुरापानादौ तस्या एव क्रियाया अनुष्ठानात् सादृश्याभावात्रास्त्यनुकरणत्वमिति; यस्तु तदनुकुर्वन् कदलीं छिन्द्यात् पयो वा पिबेन स पतितः, तस्मानाऽनुकरणत्वं दोषाय । ननु ‘मुनी इह' इत्यादौ "ईदूदेद् द्विवचनम्" (१.२.३४) इत्यसन्ध्यर्थम् *प्रकृतिवदनुकरणं भवति* इत्यङ्गीकर्त्तव्यम्, अन्यथाऽत्र द्विवचनाऽभावात् सन्धिनिषेधो न स्यात्, तस्मादसाधोरनुकरणेनाऽप्यसाधुना भाव्यम्। उच्यते-शास्त्रीया हि प्रकृतिरत्राऽऽश्रीयते, *प्रकृतिवद्०* इति च शास्त्र-निबन्धनमेव कार्यमतिदिश्यते, अपशब्दश्च न शास्त्रीया प्रकृतिरनुपदिष्टत्वात्, न चापशब्दत्वं शास्त्रीय कार्यम्, नापि तेन तदतिदेष्टुं शक्यम्, तस्य साधुशब्दसंस्कारायैव प्रवृत्तत्वात्, तस्मादपशब्दस्याऽनुकरणं साध्वेव। तथा “इवर्णादेरस्वे स्वरे यवरलम्" (१.२.२१) इत्यादौ सङ्ख्याताऽनुदेशोऽपि प्रयोजनम्, असति तु लवर्णोपदेशे त्रयः स्थानिनश्चत्वार आदेशा इति वैषम्यं स्यादिति। एवं दीर्घोपदेशेऽपि प्रयोजनमभ्यूह्यमिति।
इह काल-शब्दाभ्यां व्यवधाने भेदो दृष्टः, यथा-असंहितायाम् “अइउवर्णस्यान्ते०" (१.२.४१) इत्यत्र कालव्यवायः, दृतिरित्यादौ तु शब्दव्यवायस्तकारेण ऋकारेकारयोर्व्यवधानात्। एकत्वे तु व्यवायो न दृष्टः, यथा-'अ' इति केवलोऽकार उच्चार्यते। तथोदात्तानुदात्त-स्वरित-सानुनासिक-निरनुनासिकादिगुणभेदाच्च भेदः, तस्मात् कालादिव्यवायादुदात्तादिगुणभेदाञ्च नानात्वमकारादीनामपि। (ननु) यद्गुणविशिष्टस्य वर्णसमानाये पाठस्तद्गुणविशिष्टस्य संज्ञाव्यवहारः, तेन 'दण्डाग्रम्' इत्यादौ भिन्नगुणस्य दीर्घाद्यभावः, उच्यते-जात्याश्रयणाददोषः। तथाहि-उदात्तादिभेदभिनेष्वकारादिष्वत्वादिजातेविद्यमानत्वात् तेषामपि संज्ञाव्यवहारः।