________________
3६८
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન बृन्यास-अत्र च शब्दानुशासनस्य प्रक्रान्तत्वात् तदुपदेशे च शब्दापशब्दोभयोपदेशभेदेन त्रयः प्रकारा: संभवन्ति, तत्रान्यतरोपदेशेनैव कृतं स्यात्। तद् यथा-'शमादयो विधेयाः' इत्युक्ते क्रोधादिप्रतिषेधो गम्यते, क्रोधादिप्रतिषेधे च शमादिविधिः, एवमिहापि 'गौः' इत्युपदिष्टे गम्यते एतद्-गाव्यादयोऽपशब्दाः, गाव्याद्यपशब्दोपदेशे च गम्यते एतद्-गौरित्येष शब्दः तत्र लाघवादपादेयोपदेशे साक्षात् प्रतिपत्तेश्च शब्दोपदेशो ज्यायान्। तथाहि-एकैकस्य हि शब्दस्य बहवोऽपभ्रंशाः। यथा-गोशब्दस्य गावी, गोणी, गोता, गोपोतलिकेत्यादयः। तत्र गौरश्वः पुरुषो हस्ती शकुनि{गो ब्राह्मण इति प्रतिपदपाठोऽनभ्युपायः शब्दानां प्रतिपत्ती, तेषामानन्त्यात्। एवं हि श्रूयते-"बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदविहितानां शब्दानां शब्दपारायणं प्रोवाच, न चान्तं जगाम," तदीदृशे च वक्तर्यध्येतरि अध्ययनकाले च नान्तगमनमभूद्, यस्य तस्य कुतोऽद्यत्वे भविष्यत्यल्पायुषि प्रजायाम्, चतुर्भिश्च ग्रहणाभ्यासाध्यापनक्रियाकालरूपैः प्रकारैर्विद्योपयुक्ता भवति, तत्रास्य ग्रहणकालेनैव कृत्स्नमायुः पर्युपयुक्तं स्यादिति। तस्माच्छब्दोपदेशे अल्पोपायरूपत्वात् सामान्य-विशेषवल्लक्षणमेव वक्तव्यम्। यथा-"समानानां तेन दीर्घः" (१.२.१) “इवर्णादरस्वे स्वरे यवरलम्" (१.२.२१); तथा “कर्मणोऽण्" (५.१.७२), "आतो डोऽह्वा-वा-मः" (५.१.७६) इति। तञ्च संज्ञामन्तरेण न भवतीत्याह-तत्रेति-वर्णसमानाये लोकादधिगते, स्वरादयः संज्ञाः प्रसू(स्तू)यन्ते, यथा-"औदन्ताः स्वराः" (१.१.४) इति।
औदन्ताः स्वराः ।१।१४।। बृन्यास-औदन्ता इत्यादि-अन्तशब्द उभयाऽर्थः 'सह तेन वर्तते' 'ततः प्राक् च' इति; क्वचिदन्तर्भूतार्थोऽन्यपदार्थो बहुव्रीह्यभिधेयः, यथा-मर्यादान्तं क्षेत्रं देवदत्तस्य, अत्र मर्यादायाः क्षेत्रावयवत्वात् क्षेत्रानुप्रवेशः। क्वचिदनन्तर्भूतार्थः, यथा-नद्यन्तं देवदत्तस्य क्षेत्रम्, क्षेत्रानवयवत्वान्नद्या अन्यपदार्थेऽनुप्रवेशाभावः । तत्रान्तर्भूतपरिग्रहार्थं परिग्रहणं कर्त्तव्यम्, पर्यन्तशब्दस्यान्यपदार्थविषयत्वात्, एवं च औकारस्यापि स्वरसंज्ञया परिग्रहः स्यात् ; अन्यथा तत्पूर्वेषामपि (मेव) स्यादिति। नैष दोषः-अन्तशब्दोऽवयववाचीत्यवयवेन विग्रहः, समुदायः समासार्थः, इत्यवयवस्य अवश्यमन्यपदार्थेऽन्तर्भावः। बहुवचनं च प्लुतपरिग्रहार्थमिति वक्ष्यते। 'नद्यन्तं क्षेत्रम्' इत्यत्र त्वन्तशब्दः समीपवचन इत्यन्यपदार्थे नद्यास्तत्रानन्तर्भावः। यत् तूच्यते भाष्ये-सर्वत्रैवान्तशब्दः 'सह तेन वर्त्तते' इति, तत् सम्भवापेक्षम्। यत्रावयवत्वं सामीप्यं च सम्भवति, तत्रावयवत्वमेवाश्रीयते, यथा-नद्यन्तं (मर्यादान्त) क्षेत्रमिति। अन्ये त्वाहुः-"सर्वत्रैवान्तशब्दो (अवयववाची) यस्यावयवत्वासम्भवस्तस्य सामीप्यमेवान्तशब्देन प्रतिपाद्यते, यथा-नद्यन्तं क्षेत्रमिति।" अन्ये त्वाहुः-"सर्वत्रैवान्तशब्दोऽवयववाची, कस्यचित् तु मुख्यमवयवत्वं कस्यचित् सामिप्यादिनोपचरितमित्यभिप्रायेण भाष्यमिति।" तस्मादन्तशब्दस्यावयववाचित्वादीकारलाभावार्थः परिग्रहणेन। अन्तरङ्गस्तत्पुरुष इत्यपि न वाच्यम्, अकारादीनामन्यपदार्थत्वेन प्रक्रान्तत्वाद्, अन्यथा “कादिर्व्यञ्जनम्" (१.१.१०) इत्युपक्रम्य “अनुस्वारादयः स्वराः" इति विदध्यादित्याह
औकारावसाना इति। अत्र तकारमन्तरेणाविकृतस्वरूपस्य औकारस्योञ्चारयितुमशक्यत्वाद्, विकृतस्वरूपस्य च संदेहादिजनकत्वाद्, वर्णसमानायस्य नियामकत्वे वाऽतिप्रसङ्गाद् धातूपदेशस्थाकारवत् तकारः स्वरूपपरिग्रहार्थ इत्याह-तकार उचारणार्थः। उच्चार्यते स्वरूपेण स्वीक्रियतेऽनेनेति उच्चारणम्, स्वरूपपरिग्रह इति भावः। अकारादिषु स्वरूपेणाऽनुकार्येण वा अर्थवत्त्वविवक्षायां विभक्त्युत्पत्तौ कादिषु दोषदर्शनाद् द्वन्द्वैकवद्भावेन शषसहमिति विकृतिप्रसङ्गात् सतोऽप्यर्थवत्त्वस्याविवक्षितत्वाद् विभक्त्यनुत्पत्तिः, वर्णसमामायानन्तरभावित्वात् स्वरादिसंज्ञानां तत्पूर्वकत्वाञ्च दीर्घादिविधेर्वर्णसमानायकाले तृतीयकक्षानिविष्टत्वात् तदभावादप्रसङ्गः, चादिषु पाठाद् वा, इत्यत आह-अ आ इ ई इत्यादि। इह समुदाया अपि निर्दिश्यन्ते-ए ओ ऐ औ इति। (ऋ ल इत्यधिकं कैयटे) अवयवा अपि, यथा-अ इ उ इति। तत्र समुदायपरे निर्देशे सन्निहिता अप्यवयवा नान्तरीयकत्वात् स्वरादिसंज्ञां न लभन्ते, अवयवपरे च निर्देशे समुदायो न संज्ञाभाक्, यथा-कादिष्वकारोऽन्यत्र प्राधान्येन निर्देशाद् व्यञ्जनसंज्ञां न प्रतिपद्यत इति 'बकसङ्घः' इत्यादौ “दीर्घ-ड्याब्व्यञ्जनात् से:" (१.४.४५) सेलुंग् न भवति। यच्चासत्यामप्येकारादिरूपतायामयादयः समुदायाऽऽदेशा अपि अवयवानिवर्तयन्ति