________________
परिशिष्ट - २
૩૬૭
‘इवर्णादेरस्वे स्वरे०' (१.२.२१) इति यत्वादिप्रसङ्गः, ज्ञापकोपन्यासस्तु गरीयानिति । अथेत्संज्ञत्वाण्णकारादीनामच्संज्ञायाः पूर्वमेव नित्यात्वाल्लोपः, तर्हि तथैव चकारस्यापि लोपेऽच्संज्ञाया अप्यभावप्रसङ्ग इति स्वरादिरूप एव सन्देहातिव्याप्तिरहितः प्रसिद्धो वर्णसमान्नायोऽङ्गीकर्त्तव्य इति। नन्वस्तु प्रसिद्धस्य वर्णसमाम्नायस्य परिग्रहः, ये तु तत्राकारादयो वर्णास्तेऽनेकावयवाः, तथा च केषाञ्चित् केचिदवयवा वर्णान्तरस्वरूपा एवोपलभ्यन्ते, यथा- एकारैकारयोरकारेकारौ, ओकारौकारयोरकारोकारौ दीर्घेषु हस्वाः । तत्र य एते ऋकारादिवर्णानामवयवास्ते वर्णग्रहणेन गृह्येरन् वा न वा ? । तत्राद्ये पक्षे 'अग्ने इन्द्रम्', 'वायो उदकम् ' (इत्यादौ) “समानानां तेन दीर्घः” (१.२.१) इति दीर्घत्वं प्राप्नोति, तथा 'प्रमाय', 'आलूय' (इत्यादी "हस्वस्य तः पित्कृति" (४.४.११३) इति हस्वाश्रयस्तकार इति, तथा " रषृवर्णान्०" (२.३.६३) इत्यत्र रेफेणैव सिद्धत्वाद् ऋवर्णग्रहणम् "ऋर लृलं" (२.३.९९) इत्यत्र ऋकारग्रहणं न कर्तव्यमिति। उच्यते - स्याद्वादसमाश्रयणादुभयपक्षस्वीकाराद् लक्ष्यानुरोधात् क्वचित् किञ्चित् समाश्रीयते इत्यदोषः । किञ्च, 'अग्ने इन्द्रम्' इत्यादौ समुदायस्य कार्येषु व्यापारेऽवयवस्य स्वनिमित्तकार्ये व्यापाराभावाद् “एदैतोऽयाय् " (१.२.२३) इत्याद्येव भवति, इति पृथक्परिग्रहेऽपि न भवति । ननु पृथक्प्रयत्ननिर्वत्र्त्यं वर्णमिति वर्णलक्षणमिति कथं वर्णैकदेशानामप्रयत्ननिर्वत्र्त्यानां वर्णत्वम्? नैवम् - ऐकारौकाराभ्यां विश्लिष्टावर्णाभ्यां व्यभिचारात्, कण्ठ्यतालव्य - कण्ठ्यौष्ठ्यत्वात् तयोः । पृथक्पक्षमाश्रित्यैवेदं सूत्रम् " प्रश्नार्चाविचारे च सन्ध्येय-सन्ध्यक्षरस्यादिदुत्परः" (७.४.१०२) तथाहि - आन्तरतम्यात् सन्ध्यक्षरस्य पूर्वो भाग आद् भवति परचेदिति ।।३।।
ल. न्यास - लोकादिति-लोक्यते तत्त्वनिश्चयाय घञ्, लोकते सम्यक् पदार्थानित्यचि वा लोकः । उक्तेति उक्ताभ्यः स्वरादिसंज्ञाभ्योऽतिरिक्ता अधिकास्तासाम्। साध्यरूपा पूर्वापरीभूताऽवयवा क्रिया । विशेषणं गुणः, “सत्त्वे निविशतेऽपैति०” इत्यादिलक्षणो वा । विशेष्यं द्रव्यम्। “आकृतिग्रहणा०” इत्यादिरूपा जातिः । त्रुट्यादिलक्षणः कालः । लिङ्गं पुं-स्त्री-नपुंसकरूपम् । “अविकारोऽद्रवम्०" इत्यादि स्वाङ्गम् । एकाद्यभिधानप्रत्ययहेतुः संख्या । सर्वतो मानं परिमाणम् । अपत्यं प्रसिद्धम् । नानाभिधायिनां शब्दानां क्रिया-गुण-द्रव्यैर्युगपत्प्रयोक्तुर्व्याप्तुमिच्छावीप्सा । अदर्शनं लुक्। 'अष्टादशभेदोऽकारादिसमुदायोऽवर्णः । आदिशब्दादिवर्णादिपरिग्रह इति वैयाकरणाः । कर्म (क्रिया) उत्क्षेपणादि द्रव्याश्रयो गुणः । गुणाश्रयो द्रव्यम् । अनुवृत्तप्रत्ययहेतुः सामान्यं जातिः । परापरादिप्रत्ययहेतुः कालः । अनुमानं लिङ्गम् । स्वाङ्गयारम्भकमवयवरूपं स्वाङ्गम्। अणु-महदादिप्रत्यय-हेतुः परिमाणमिति तार्किकाः ।
*परान्नित्यम् इति-तथाहि वनानीत्यादौ "शसोऽता०” (१.४.४९) इति दीर्घं बाधित्वा परत्वाद् "नपुंसकस्य शिः " (१.४.५५) इत्येव भवति। तस्माच्च नित्यं बलीय:, यथा- 'स्योन' इत्यत्र परमपि गुणं बाधित्वा नित्यत्वादृट् । तथा नित्यादन्तरङ्गम्, यथा-ज्ञाया ओदनो ज्ञौदनस्तमिच्छति क्यन्, ततः सनि, अकृतव्यूहत्वाद् 'ज्ञा ओदन' य स' इति स्थिते द्वित्वं प्राप्नोति औत्वं च ततो नित्यत्वाद् द्वित्वे प्राप्ते तद् बाधित्वाऽन्तरङ्गत्वादौत्वं भवति - जुज्ञौदनीयिषतीति । तथा अन्तरङ्गादनवकाशम्, यथा- गर्गस्यापत्यानि यञ्, तेषां छात्राः "दोरीयः " (६.३.३२) ततोऽन्तरङ्गत्वाद् “यञञः ०" (६.१.१२६) इति यत्रो लुप् “न प्राग्जितीये० " (६.१.१३५) इति तन्निषेधश्च प्राप्नुतः, परमनवकाशत्वाद् "न प्राग्जितीये०” (६.१.१३५) इत्येव प्रवर्तते, ततो गार्गीया इति सिद्धम् । तथा आदिशब्दात् परादन्तरङ्गम् अपि, यथा-सिवेः “प्या-धापन्यनि०" (उणा० २५८) इति नेऽपवादत्वाद् वलोपं बाधित्वा गुणात् पूर्वं नित्यत्वादूटि च कृते परत्वाद् गुणे प्राप्तेऽन्तरङ्गत्वात् तं वाधित्वा यत्वं भवति ' स्योन' इति । एतासां क्रियादीनां संज्ञानां न्यायानां च शास्त्रप्रवृत्तये लोकात् शिद्धिर्वेदितव्या, न च लोकमन्तरेण तज्ज्ञानोपायोऽस्ति, न च तज्ज्ञानं विना "क्रियार्थो धातुः" (३.३.३) “गुणाद- स्त्रियां नवा” (२.२.७७) "जातिकालसुखादेर्नवा” (३.१.१५२) "स्वाङ्गादेरकृतमित० " (२.४.४६) इति, “सङ्ख्यानां ष्र्णाम् " (१.४.३३) “परिमाणात् तद्धित" (२.४.२३) इति, “ङसोऽपत्ये " (६.१.२८) "वीप्सायाम्” (७.४.८०) "लुगस्यादेत्यपदे" (२.१.११३) "अवर्णस्येवर्णादिना० " (१.२.६) इति, "इवर्णादेरस्वे स्वरे० " (१.२.२१) इत्यादिशास्त्रप्रवृत्तिः । नीयते प्राप्यते संदेहदोलामधिरूढोऽर्थो निर्णयपदमेभिरिति “न्यायावाय०" (५.३.१३४) इति घञि न्याया युक्तयः ।।३।।
१. हस्व-दीर्घ- प्लुतादिभेदयुक्तः ।
२. 'ओदनीय' इत्यपि पाठोऽस्ति ।