SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ 3७१ परिशिष्ट-२ ल.न्यास- औदन्ता इत्यादि-अत्रान्तशब्दोऽवयववाचीत्ववयवेन विग्रहः, समुदायः समासार्थः, अवयवस्य चावश्यं समुदायरूपेऽन्यपदार्थेऽन्तर्भावः, अत एवात्र तद्गुणसंविज्ञानोऽयं बहुव्रीहिः, यथा-लम्बकर्ण इत्यादौ, न त्वतद्गुणसंविज्ञान:, यथा-चित्रगुरित्यादौ । ज्ञापकं चात्र “अष्ट और्जस्-शसोः" (१.४.५३) “आतो णव औः" (४.२.१२०) "उत औविति व्यञ्जनेऽद्वे" (४.३.५९) इत्यादि। औकारस्य हि स्वरत्वाभावे “अष्ट औः" (१.४.५३) इत्यादिसूत्रेषु "स्वरे वा" (१.३.२४) इत्यनेन यलोपो न स्यात्। तकार इति-उच्चार्यते स्वरूपेण स्वीक्रियतेऽनेनेत्युच्चारणम्, स्वरूपपरिग्रह इति भावः । तपरत्वानिर्देशस्य “औत्" इत्युक्ते औकारस्वरूपं प्रतीयते, तकाराभावे तु आवन्ता इति कृते कष्टा प्रतीतिर्भवेदिति भावः। ननु लकारः कृपिस्थ एव प्रयुज्यते, न च तत्र स्वरसंज्ञायाः किमपि प्रयोजनम्, लकारस्य तु सर्वथा प्रयोग एव नास्तीति, नैवम्-'क्लृप्तः', 'क्लृप्तशिख!' इत्यादौ द्वित्व-प्लतादेः स्वरकार्यस्य दर्शनात्। तथाहि-"अदीर्घाद् विरामैक०" (१.३.३२) इत्यनेन द्वित्वम्, “दूरादामन्त्र्यस्य०" (७.४.९९) इत्यनेन प्लुतश्च स्वराश्रितः प्रतिपादितः स्वरस्याधिकृतत्वाद्, असति स्वरत्वे तन्न स्यादिति। प्रदेशा इतिप्रदिश्यन्ते संज्ञाप्रयोजनान्येषु इति “व्यञ्जनाद् घञ्" (५.३.१३२) इति घञि प्रदेशाः, संज्ञाप्रयोजनस्थानानीत्यर्थः ।।४।। एकद्वित्रिमात्रा ह्रस्वदीर्घप्लताः ।१।१५।। बृन्यास–एक द्वीत्यादि-"इंण्क् गतौ” “भीण-शलि-वलि-कल्यति-मज़चि०" (उणा० २१) इति के गुणे च एकः । "उभ उम्भत् पूरणे" अत: “उभेत्रौ च" (उणा० ६१५) इति इकारे द्विः, त्रिः। "मांक माने” “हु-या-मा-श्रु-वसि-भसि-गु-वी०" (उणा० ४५१) इति त्रे आपि च मात्रा। एका च द्वे च तिस्रश्चेति द्वन्द्वे “सर्वादयोऽस्यादौ" (३.२.६१) इति पुंवद्भावे एक-द्वि-तिस्रो मात्रा येषामिति बहुव्रीहौ “गोश्चान्ते हस्व:०" (२.४.९६) इति हस्वे जसि “अत आः स्यादौ जस्-भ्याम्-ये" (१.४.१) इत्याकारे, समानदीर्घत्वे, सो रुत्वे “अवर्ण-भो-भगो०" (१.३.२२) इति रुलोपे एक-द्वि-त्रिमात्राः। “हस शब्दे" "लटि-खटि-खलि-नलिकण्यशौ” (उणा० ५०५) इति वे हस्वः। “दृश् विदारणे" "मघा-घवाऽघ-दीर्घादयः" (उणा० ११०) इति घे दीर्घः । “प्तुंङ् गतौ" क्ते प्लतः। द्वन्द्वे जसि हस्व-दीर्घ-प्पताः। निमिषोन्मेषक्रियापरिच्छिन्नः कालो मात्राशब्देनाऽभिधीयतेऽत आह-मात्रा कालविशेषः। सा एकादिभिर्विशिष्यते, तया च वर्णो विशिष्यते। ननु विशिष्यते व्यावर्त्तते येन तद् विशेषणम्, तत् प्रत्यासत्तौ सत्यां भवति, प्रत्यासत्तिश्चोपकारगर्भा, उपकारश्च क्रियाद्वारक इति, अन्यथा सर्वं सर्वस्य विशेषणं विशेष्यं वा स्याद्, इति कथं तदभावात् कालो वर्णस्य विशेषणं भवति?, उच्यते-अस्त्यत्राप्युञ्चारणक्रियानिमित्ता प्रत्यासत्तिः, यया कालो वर्णस्य विशेषणं भवति, तथाहि-यस्य वर्णस्योञ्चारणं मात्राकालेन परिच्छिद्यते, स वर्णो मात्राकालेन विशिष्यते, अत एवाऽऽह-एक-द्वि-युद्धारणमात्रा:-एक-द्वि-तिस्र उञ्चारणे मात्रा येषां ते तथोक्ताः। विशेषणस्य त्रित्वादन्यपदार्थस्य संज्ञिनोऽपि त्रित्वाद् यथासङ्घयेन संज्ञात्रयसिद्धिरित्यत आह-यथा सङ्घयमिति। ऐदौताविति। अयमाशयस्तेषाम्-विश्लिष्टावर्णावकारौकारौ, तयोश्च प्लते विधीयमाने ऐ४तिकायन! औल्पगव! इत्यत्र परभागस्यैवेकारस्योकारस्य च विधीयते, प्लतश्च त्रिमात्रो भवति, एका च मात्रा अवर्णस्येति मात्राचतुष्टयं भवति। अन्ये श्रीशेषराज इत्यर्थः । प्रपूर्वात् “तक्षौ त्वक्षौ तनूकरणे" अतः प्रतक्षणं पूर्वम् “प्राक्काले" (५.४.४७) इति क्त्वा, “गतिक्वन्यस्तत्पुरुषः" (३.१.४२) इति समासे “अनञः क्त्वो यप्" (३.२.१५४) इति यबादेशे प्रतक्ष्येति। असत्यौदन्ता इत्यनुवर्त्तने द्वयोरर्द्धमात्रिकयोय॑जनयोरेकमात्रिकत्वमस्तीति हस्वाश्रयो “हस्वस्य तः पित्कृति" (४.४.११३) इति ताऽऽगमप्रसङ्गः, औदन्तानुवर्त्तने तु ताऽऽगमो न भवति। नन्वनुवर्तमानेऽपि (“तनूयी विस्तारे" अतः) “तनेर्डउ:" सन्वञ्चेति (उणा० ७४८) डऔ (तितउः) तस्य छत्रं तितउच्छत्रमिति। अत्राऽकारोकारसमुदायस्य द्विमात्रत्वाद् “अनाङ्माङो दीर्घाद्वा०" (१.३.२८) इति द्वित्वविकल्प: स्याद्, नित्यं च द्वित्वमिष्यते। न च वाच्यम्-भवत्वपवादत्वाद् द्वित्वविकल्पः, तस्मिन् सत्यवयवहस्वाश्रयं द्वित्वं भविष्यति, यतः समुदाये कार्य प्रति व्याप्रियमाणेऽवयवानां पारतन्त्र्यादव्यापारानैव हस्वलक्षणद्वित्वप्रसङ्गः, *सकृद्गते विप्रतिषेधे* इति न्यायाद् वा। न चैवंविधे 'अन्यपदार्थे समुदायरूपे' इति पाठान्तरम्।
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy