________________
૧૦૮
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન तु कण्ठादिस्थानाभिघाते भावात्। तथा चाऽऽपिशलि: शिक्षामधीते-"नाभिप्रदेशात् प्रयत्नप्रेरितः प्राणो नाम वायुरूर्ध्वमाक्रामन्नुरः प्रभृतीनां स्थानानामन्यतमस्मिन् स्थाने प्रयत्नेन विधार्यते, स विधार्यमाणः स्थानमभिहन्ति, तस्मात् स्थानाभिघाताद् ध्वनिरुत्पद्यते आकाशे, सा वर्णश्रुतिः, स वर्णस्याऽऽत्मलाभ:"। तत्र वर्णध्वनावृत्पद्यमाने यदा स्थान-करण-प्रयत्नाः परस्परं स्पृशन्ति सा स्पृष्टता, यदेषत् स्पृशन्ति सेषत्स्पृष्टता, यदा सामीप्येन स्पृशन्ति सा संवृतता, दूरेण यदा स्पृशन्ति सा विवृतता; एषोऽन्तः-प्रयत्नः। स इदानीं प्राणो नाम वायुरूर्ध्वमाक्रामन् मूर्ध्नि प्रतिहतो निवृत्तः कोष्ठमभिहन्ति, तत्र कोष्ठेऽभिहन्यमाने कण्ठबिलस्य विवृतत्वाद् विवारः संवृतत्वात् संवारः। तत्र यदा कण्ठबिलं विवृतं भवति तदा श्वासो जायते, संवृते तु नादः, तावनुप्रदानमाचक्षते; अन्ये तु ब्रुवते-अनुप्रदानमनुस्वानो घण्टादिनिर्हादवद् इति । तत्र यदा स्थान-करणाभिघातजे ध्वनौ नादोऽनुप्रदीयते तदा नादध्वनिसंसर्गाद् घोषो जायते, यदा तु श्वासोऽनुप्रदीयते तदा श्वासध्वनिसंसर्गादघोषो जायते।
अल्पे वायावल्पप्राणता, महति महाप्राणता जायते; महाप्राणत्वादूष्मत्वम्। यदा सर्वाङ्गानुसारी प्रयत्नस्तीव्रो भवति तदा गात्रस्य निग्रहः कण्ठबिलस्य चाणुत्वं स्वरस्य च वायोस्तीव्रगतित्वाद् रौक्ष्यं भवति तमुदात्तमाचक्षते। यदा तु मन्दः प्रयत्नो भवति तदा गात्रस्य स्रेसनं कण्ठबिलस्य च महत्त्वं स्वरस्य च वायोर्मन्दगतित्वात् स्निग्धता भवति तमनुदात्तमाचक्षते। उदात्ताऽनुदात्तस्वरसंनिपातात् स्वरित इत्येष कृत्स्नो बाह्यः प्रयत्न इति। अथवा विवारादयो वर्णनिष्पत्तिकालादूर्ध्वं वायुवशेनोत्पद्यन्ते, स्पृष्टतादयस्तु स्थानाऽऽस्यप्रयत्नव्यापारेण वर्णोत्पत्तिकाल एवेति वर्णनिष्पत्तिकालभावाऽभावाभ्यां विवारादीनां बाह्यत्वम्, स्पृष्टतादीनां चाभ्यन्तरत्वम्। तत्र वर्गाणां प्रथम-द्वितीया: श-ष-स-विसर्ग-जिह्वामूलीयोपध्मानीयाश्च विवृतकण्ठाः श्वासानुप्रदाना अघोषाः। वर्गाणां तृतीय-चतुर्थ-पञ्चमा अन्तस्था हकाराऽनुस्वारौ च संवृतकण्ठा नादानुप्रदाना घोषवन्तः। वर्गाणां प्रथम-तृतीयपञ्चमा अन्तस्थाश्चाल्पप्राणाः। इतरे सर्वे महाप्राणा:। स्थानग्रहणं किम्? क-च-ट-त-पानां तुल्याऽऽस्यप्रयत्नानामपि भिन्नस्थानानां मा भूत्, किञ्च स्यात् ? 'तप्र्ता, तर्तुम्' इत्यत्र "धुटो धुटि स्वे वा” (१.३.४८.) इति पकारस्य तकारे लोप: स्यात्। आस्यप्रयत्नग्रहणं किम् ? चवर्ग-य-शानां तुल्यस्थानानामपि भिन्नाऽऽस्यप्रयत्नानां मा भूत्, किञ्च स्यात् ? 'अरुश् श्च्योतति' इत्यत्र “धुटो धुटि स्वे वा” (१.३.४८.) इति शकारस्य चकारे लोप: स्यात् । स्वप्रदेशा:-"इवर्णादेरस्वे स्वरे यवरलम्" (१.२.२१.) इत्यादयः ।।१७।।
સૂત્રાર્થ -
જે વર્ગોના સ્થાન અને આસ્વપ્રયત્ન સરખા હોય છે, તે વર્ગોને પરસ્પર સ્વ સંજ્ઞા થાય છે.
सूत्रसमास :- . आस्ये प्रयत्नः = आस्यप्रयत्नः (स.तत्.), स्थानं च आस्यप्रयत्नश्च = स्थानास्यप्रयत्नौ
(इ.द्व.), तुल्यौ (वर्णान्तरेण सदृशौ) स्थानास्यप्रयत्नौ यस्य स = तुल्यस्थानाऽऽस्यप्रयत्नः (बहु.)।