________________
१.१.१७
___१०७ तुल्यस्थानाऽऽस्यप्रयत्न: स्व: ।।१.१.१७।।। बृ.व.-यत्र पुद्गलस्कन्धस्य वर्णभावापत्तिस्तत् स्थानम्, कण्ठादि। यदाहुः
"अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा। जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च" ।।४।।
(पाणिनीयशिक्षा, श्लो० १३.) अस्यत्यनेन वर्णानित्यास्यम्, ओष्ठात् प्रभृति प्राक् काकलकसंज्ञकात् कण्ठमणेः । आस्ये प्रयत्न आस्यप्रयत्नः, आन्तरः संरम्भः। स चतुर्धा-स्पृष्टता १, ईषत्पृष्टता २, विवृतता ३, ईषद्विवृतता ४। तुल्यौ वर्णान्तरेण सदृशौ स्थानाऽऽस्यप्रयत्नौ यस्य स वर्णस्तं प्रति स्वसंज्ञो भवति। करणं तु जिह्वामूलमध्याग्रोपाग्ररूपं स्थानाऽऽस्यप्रयत्नतुल्यत्वे सति नाऽतुल्यं भवतीति पृथग् नोक्तम्। तत्र स्थानम्-अवर्ण-ह-विसर्ग-कवर्गाः कण्ठ्याः । 'सर्वमुखस्थानमवर्णम्, ह-विसर्गावुरस्यौ, कवर्गो जिह्वामूलीयः' इत्यन्ये। इवर्ण-चवर्ग-य-शास्तालव्याः। उवर्णपवर्गोपध्मानीया ओष्ठ्याः । ऋवर्ण-टवर्ग-र-षा मूर्धन्याः, 'रेफो दन्तमूलः' इत्येके। लवर्णतवर्ग-ल-सा दन्त्याः । ए-ऐ तालव्यो, 'कण्ठ्य-तालव्यौ' इत्यन्ये। ओ-औ ओष्ठ्यो, 'कण्ठ्योष्ठ्यौ' इत्यन्ये। वो दन्त्यौष्ठ्यः, 'सृक्कस्थानः' इत्यन्ये । जिह्वामूलीयो जिह्वयः, 'कण्ठ्यः' इत्यन्ये। नासिक्योऽनुस्वारः, 'कण्ठ्य-नासिक्यः' इत्यन्ये। ङ-जण-न-माः स्वस्थान-नासिकास्थानाः। अथाऽऽस्यप्रयत्नः-स्पृष्टं करणं स्पर्शानाम्, स्पर्शा वर्गाः। ईषत्स्पृष्टं करणमन्तस्थानाम्। ईषद्विवृतं करणमूष्मणाम्। विवृतं करणं स्वराणाम्, 'ऊष्मणां च' इत्यन्ये, ऊष्माण: श-षस-हाः। स्वरेषु ए-ओ विवृततरौ, ताभ्यामपि ऐ-औ, ताभ्यामप्यवर्णः, अकारः संवृत्तः' इत्यन्ये। तत्र त्रयोऽकारा उदात्ताऽनुदान-स्वरिताः, प्रत्येकं सानुनासिक-निरनुनासिकभेदात् षट्, एवं दीर्घ-प्लुताविति अष्टादश भेदा अवर्णस्य; ते सर्वे कण्ठस्थाना विवृतकरणाः परस्परं स्वाः। एवमिवर्णास्तावन्तस्तालव्या विवृतकरणा: स्वाः।
___उवर्णा ओष्ठ्या विवृतकरणाः स्वाः। ऋवर्णा मूर्धन्या विवृतकरणाः स्वाः । लुवर्णा दन्त्या विवृतकरणा: स्वाः, 'लुवर्णस्य दीर्घो न सन्तीति द्वादश' इत्यन्ये। संध्यक्षराणां ह्रस्वा न सन्तीति तानि प्रत्येकं द्वादशभेदानि; तत्र-एकारास्तालव्या विवृततराः स्वाः, ऐकारास्तालव्या अतिविवृततराः स्वाः, ओकारा ओष्ठ्या विवृततराः स्वाः, औकारा ओष्ठ्या अतिविवृततरा: स्वा: । वर्याः पञ्च पञ्च परस्परं स्वा: । य-ल-वानामनुनासिकोऽननुनासिकश्च द्वौ भेदौ परस्परं स्वौ। रेफोष्मणां तु अतुल्यस्थानाऽऽस्यप्रयत्नत्वात् स्वा न भवन्ति। आस्यग्रहणं बाह्यप्रयत्ननिवृत्त्यर्थम्, ते हि “आसन्नः" (७.४.१२०.) इत्यत्रैवोपयुज्यन्ते, न स्वसंज्ञायाम् के पुनस्ते? विवारसंवारौ श्वास-नादौ घोषवदघोषता अल्पप्राण-महाप्राणता उदात्तोऽनुदात्तः स्वरितश्चेत्येकादश। कथं पुनरेते आस्याद् बाह्याः स्पृष्टतादयस्तु आन्तराः? उच्यते-वायुना कोष्ठेऽभिहन्यमानेऽमीषां प्रादुर्भावात्, स्पृष्टतादीनां