SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ८८ व्याश्रयमहाकाव्ये [जयसिंहः] ४१. निशाटा नृभटान्नरो ये भटास्तान भीरुकतां भयमनैषुः प्रापयन् । किंभूताः । भासुरमेदुराङ्गास्तेजस्विस्थूलकाया बलिष्ठा इत्यर्थः । तथाच्छिदुरा मिथो विच्छेदरहिताः संहता इत्यर्थः । यद्वा शस्त्रविद्यानैपुणेन शस्त्राणामागच्छतां वञ्चकत्वाच्छस्कृतच्छेदरहिता इत्यर्थः । तथाविभीलुका निर्भीकाः । नृभटानपि किंभूतान् । अविभङ्गुरान् न स्वयं भङ्गशीलाञ् शूरत्वेन रणादनंष्ट्रन् बलिष्ठत्वेन न जीर्णकाष्ठवनिःसारान्वा तथा भिदुरेतरान्स्वयं भेदनशीलेभ्योन्यान् मिथः संहतान्प्रहारवञ्चकान्वेत्यर्थः । तथापीरून् । नन्वेवं समानगुणत्वानृभटा निशाटैः कथं भीतिं प्रापिता इत्याह । यतश्छलानां मायाप्रयोगाणां विदुरा ज्ञातारः ।। अविभङ्गुरान् । भासुर । मेदुर । इत्यत्र "भञ्जि०" [७४ ] इत्यादिना धुरः॥ विदुराः । अच्छिदुराः । मिदुर । इत्यत्र "वेत्ति०" [७५ ] इत्यादिना किदुरः॥ अभीरून् । भीरुकताम् । अविभीलुकाः । अत्र "भिय." [७६ ] इत्यादिना रुरुकलुकाः ॥ अभिसृत्वरैर्जित्वरहिंस्रदीप्रैरविकम्रकम्प्रेत्वरनश्वरास्तैः । नृभटा यशः मेरमजस्रपुष्टं परिगत्वरं नागणयन्विनम्राः ॥४२॥ ४२. नृभटाः स्मेरं विकस्वरमजस्रपुष्टं नानावदातैः सदा पोषितं यशा(शः) परिगत्वरं विनश्वरं सन्नागणयन् । किंभूताः सन्तः । १ए हिता संहिता. सी डी हिता ई. २ बी पुण्येन. ३ ए अभ. ४ सी भङ्गनशी. डी भङ्गेनशी. ५ बी ञ् सूर°. ६ सी डी तस्थला. ७ बी यशो ग.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy