________________
[ है० ५.२.८०. ]
द्वादशः सर्गः ।
८९
अविकम्रममनोज्ञं कम्प्रं भयेन संकम्पं च यथा स्यादेवमित्वरा गमनशीला ये नश्वरा नंष्ट्रारस्ते तथा । कैः कृत्वा । तै राक्षसैः । किंभूतैः । जित्वराणां जिष्णूनां हिंस्रा अत एव दीप्रास्तेजस्विनस्तैरत एवाभिसृत्वरैः प्रसृमरैरत एव किंभूता विनम्रा लज्जयाधोमुखाः ||
अभिसृत्वरैः : । जित्वर । इत्वर । नश्वराः । भन्त्र “सृजि०” [ ७७ ] इत्यादिना कित् द्वरप् ॥
परिगत्वरम् । इति "गत्वरः " [ ७८ ] इति निपात्यते ।
स्मेरम् | अजस्र । हिंस्र । दीप्रैः । कम्प्र | अविकम्र । विनम्राः । अत्र "स्म्यजस० [ ७९ ] इत्यादिना रः ॥
""
असुतृष्णजः स्वमगधृष्णजः स्वेश्वरभास्वरस्थावरकी र्तिकार्ये । अविकस्वराः पेखरकं प्रमद्वरतया न वासोपि दधुर्नृवीराः ॥ ४३ ॥
४३. नृवीराः प्रमद्वरतया प्रमादितया भयाकुलत्वेनेत्यर्थः । पेखरकमज्ञातं पातुकं सद्वासोप्यधोवस्त्रमपि न दधुः नावाष्टनन् । एवं नामात्यैौत्सुक्येन नेशुर्यावता वस्त्रमपि पतद्धर्तुं न शेकुरित्यर्थः । किंभूताः सन्तः । असुतृष्णजः प्राणेषु साभिलाषा अत एव स्वस्यात्मीयस्येश्वरस्य प्रभोर्जयसिंहस्य भास्वरामला स्थावरा स्थिरा या कीर्तिर्विजयोत्थं यशस्तद्रूपं यत्कार्यं तत्र स्वप्नगवृष्णजः स्वजः शयालवो येधृष्णजोप्रगल्भा असमर्था इत्यर्थस्ते तथात एवाविकस्वरा म्लानमुखाः ॥
-
तृष्णजः । अधृष्णजः । स्वमग् । इत्यत्र " तृषि० " [ ८० ] इत्यादिना नजि ॥
१ ए सी डी 'कीर्तका'.
१ ए सी डी सर्पकं च. २ ए 'जस्रं । हिं', सी डी ज हिं. ३ ए सी डी 'यौलुक्ये". ४ बी 'प्नगः श.
१२