________________
ढ्याश्रयमहाकाव्ये
[जयसिंहः ]
स्थावर । ईश्वर । भास्वर । पेस्वरकम् । अविकस्वराः । अत्र "स्थेश." [८१] इत्यादिना वरः ॥ प्रमदेरपीति कश्चित् । प्रमद्वरतया ॥ तदुदीक्ष्य यायावरमाशु सैन्यं त्रिजगद्ददृद्दिद्युदुषाचरेभ्यः । अजुहूरवाक्प्राडपज़रधीश्रीरभवत्परिव्राइजन आयतस्तूः ॥४४॥ ____४४. आयतं स्तोत्यायतस्तूर्यायजूकः परिबाड्जनो मुनिलोकोभवत् । कीहक् । अजुहूर्भयातिरेकेण जुहूनां पाताज्जुहूभिः सुन्भिर्यज्ञोपकरणभेदै रहितस्तथावाक्प्राडवाक्सन्पृच्छकोतिभयाद्धस्तादिसंज्ञया किमभूदिति प्रष्टेत्यर्थः । तथापकृष्टं जानुदन्तभङ्गादिना निन्दितं यथा स्यादेवं जवति धावत्यपजूस्तथाधीश्रीवुद्धिशोभारहितः किंकर्तव्यतामूढो दीनश्चेत्यर्थः । किं कृत्वा । तत्सैन्यं जयसिंहकटकमुदीक्ष्य । किंभूतम् । त्रिजगतो ददृतो विदारणशीला दिद्युतो विजयेन द्योतनशीला य उषाचरा राक्षसास्तेभ्य आशु यायावरं नैश्यदित्यर्थः ।। करिणां कटपूर्न मदो द्रुवां सूस्तदनूर्गविभ्राविभु बृंहितं न । अपतन्पवित्रासुरभित्स्वयंभुप्रभुशंभुसभुस्मरणाश्च योधाः ॥ ४५ ॥
४५. द्रुवां नश्यतां करिणां मदो न खून स्रवति भयेन मदः शुष्क इत्यर्थः । कीटक् । कटेभ्यो गण्डेभ्यः प्रवते निर्गच्छति कटप्रूः पूर्व प्रवाहेण वहन्नपीत्यर्थः । तथा करिणां तद्यत्पूर्वमूर्जस्खलं तारं च सद्वित्वा(?)सीत्तदपीत्यर्थः । बृंहितं शब्दितं न विभु न व्यापकमभून् । कीटक्सत् । अनूभयेनानूर्जस्वलमत एवाविभ्राडतारम् । तथा योधा अपतंश्च भूमौ पतिताः । किंभूताः सन्तः । पवित्रो भगवानहन
१ए सी डी रच्छित्स्व'.
१ ए बी ति पृष्टं. २ बी श्रीबुद्धि'. ३ ए सी डी तो वः नम्यदि. ५ बी ने प्रब. ६ बी द्वित्तासी'.
४ बी